श्री विठ्ठलप्रातः स्तोत्रम् श्री विठ्ठलप्रातः स्तोत्रम् प्रातः स्मरामि कटिसंस्थितपाणिपद्मं श्रीविठ्ठलं कमलपत्रविशालनेत्रम् | भीमातटे सुमुदितं सुमुनींद्रवंद्यं श्रीरुग्मिणीसहकृतिं गरुडाद्गृणीतम् ||1|| प्रातर्नमामि समसंस्थितपादपद्मं श्रीपंढरीशमहिराजणातपत्रम् | सौवर्णकुंडलकिरीटविराजमानं पीतांबरं जलनिधिप्रमुदारहासम् ||2|| प्रातर्भजामि पितृभक्तिपरद्विजार्य- संरक्षकं तु कथितं मुनिनारदेन | वैकुंठसत्क्षितितले धृवमागतेन श्रीचंद्रहाससमरैः सह चंद्रभागः ||3|| श्लोकत्रयं पठेन्नित्यं भीमातीरनिवासिनः | न तेषां जायते दुःखं यावत् तपति भास्करः ||4|| || इति श्रीपद्मपुराणे नारदवसिष्ठसंवादे श्रीविठ्ठलप्रातःस्तोत्रम् ||