श्री विठ्ठलप्रातः स्तोत्रम्
प्रातः स्मरामि कटिसंस्थितपाणिपद्मं
श्रीविठ्ठलं कमलपत्रविशालनेत्रम् |
भीमातटे सुमुदितं सुमुनींद्रवंद्यं
श्रीरुग्मिणीसहकृतिं गरुडाद्गृणीतम् ||1||


प्रातर्नमामि समसंस्थितपादपद्मं
श्रीपंढरीशमहिराजणातपत्रम् |
सौवर्णकुंडलकिरीटविराजमानं
पीतांबरं जलनिधिप्रमुदारहासम् ||2||


प्रातर्भजामि पितृभक्तिपरद्विजार्य-
संरक्षकं तु कथितं मुनिनारदेन |
वैकुंठसत्क्षितितले धृवमागतेन
श्रीचंद्रहाससमरैः सह चंद्रभागः ||3||


श्लोकत्रयं पठेन्नित्यं भीमातीरनिवासिनः |
न तेषां जायते दुःखं यावत् तपति भास्करः ||4||


|| इति श्रीपद्मपुराणे नारदवसिष्ठसंवादे श्रीविठ्ठलप्रातःस्तोत्रम् ||