श्रीविष्णोः अष्टाविंशतिनामस्तोत्रम् अथ श्रीविष्णोः अष्टाविंशतिनामस्तोत्रम् अर्जुन उवाच किं नु नामसहस्राणि जपते च पुनः पुनः | यानि नामानि दिव्यानि तानि चाचक्ष्व केशव || १|| श्रीभगवानुवाच मत्स्यं कूर्मं वराहं च वामनं च जनार्धनम् | गोविंदं पुंडरीकाक्षं माधवं मधुसूदनम् || २|| पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् | गोवर्धनं हृषीकेशं वैकुंठं पुरुषोत्तमम् || ३|| विश्वरूपं वासुदेवं रामं नारायणं हरिम् | दामोदरं श्रीधरं च वेदांगं गरुडध्वजम् || ४|| अनंतं कृष्णगोपालं जपतो नास्ति पातकम् | गवां कोटिप्रदानस्य अश्वमेधशतस्य च || ५|| कन्यादानसहस्राणां लं प्राप्नोति मानवः | अमायां वा पौर्णमास्यामेकादश्यां तथैव च || ६|| संध्याकाले स्मरन्नित्यं प्रातःकाले तथैव च | मध्याह्ने च जपेन्नित्यं सर्वपापैः प्रमुच्यते || ७|| || इति श्रीविष्णोः अष्टाविंशतिनामस्तोत्रम् ||