अथ श्रीविष्णोः अष्टाविंशतिनामस्तोत्रम्
अर्जुन उवाच
किं नु नामसहस्राणि जपते च पुनः पुनः |


यानि नामानि दिव्यानि तानि चाचक्ष्व केशव || १||


श्रीभगवानुवाच
मत्स्यं कूर्मं वराहं च वामनं च जनार्धनम् |


गोविंदं पुंडरीकाक्षं माधवं मधुसूदनम् || २||


पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् |


गोवर्धनं हृषीकेशं वैकुंठं पुरुषोत्तमम् || ३||


विश्वरूपं वासुदेवं रामं नारायणं हरिम् |


दामोदरं श्रीधरं च वेदांगं गरुडध्वजम् || ४||


अनंतं कृष्णगोपालं जपतो नास्ति पातकम् |


गवां कोटिप्रदानस्य अश्वमेधशतस्य च || ५||


कन्यादानसहस्राणां लं प्राप्नोति मानवः |


अमायां वा पौर्णमास्यामेकादश्यां तथैव च || ६||


संध्याकाले स्मरन्नित्यं प्रातःकाले तथैव च |


मध्याह्ने च जपेन्नित्यं सर्वपापैः प्रमुच्यते || ७||


|| इति श्रीविष्णोः अष्टाविंशतिनामस्तोत्रम् ||