श्रीविजयध्वजाष्टकम् अथ श्रीविजयध्वजाष्टकम् अंजनासूनुसान्निध्या- द्विजयेन विराजितम् | अजितप्रीतिजनकं भजेऽहं विजयध्वजम् || १|| श्रीविजयध्वजयोगियतीशं नौमि निरंतर मानमितांगः | वादिमदेभविदारणदक्षं व्याकृतभागवतं परमाप्तम् || २|| जयविजयौ दंडधरौ भूयो भूयोऽभिवादये मूर्ध्ना | भगवती टीका याऽसौ वर्ण्यंतः प्रवेष्टुमेतस्याः || ३|| मध्वाधोक्षजसंप्रदायकमहा- शास्त्रार्थसंव्यंजकः | श्रीमद्भागवतांबुधौ व्यवहरन् तात्पर्यरत्नावलीम् || ४|| दृष्ट्वा भागवतार्थदीप्तपदकैः श्रीकृष्णपादार्चनं | मात्याक्षीद्विजयध्वजो भजमन स्तं कण्वतीर्थस्थितम् || ५|| यस्य वाक्कामधेनुर्नः कामितार्थान् प्रयच्छति | भजे महेंद्रसच्छिष्यं यॊगींद्रं विजयध्वजम् || ६|| सर्वदुर्वादिमातंग- दलने सिंहविक्रमम् | वंदे यति कुलाग्रण्यं योगींद्रं विजयध्वजम् || ७|| मध्वाराधितसीतेत रामचंद्रपदांबुजे | चंचरीकायितं वंदे योगींद्रं विजयध्वजम् || ८|| श्रीमद्भागवताभिधानसुरभि- र्यट्टीकया वत्सया | स्पृष्टाश्लोकपयोधरैर्निजमहा- भावं पयः प्रस्नुते || ९|| लोकॆ सज्जनता संप्रशमना- योदीरितं सूरिभिः | श्रीमंतं विजयध्वजं मुनिवरं तं सन्नमाम्यन्वहम् || १०|| || इति श्रीविश्वपतितीर्थविरचितं श्रीविजयध्वजाष्टकम् ||