अथ श्रीविजयध्वजाष्टकम्
अंजनासूनुसान्निध्या-
द्विजयेन विराजितम् |


अजितप्रीतिजनकं
भजेऽहं विजयध्वजम् || १||


श्रीविजयध्वजयोगियतीशं
नौमि निरंतर मानमितांगः |


वादिमदेभविदारणदक्षं
व्याकृतभागवतं परमाप्तम् || २||


जयविजयौ दंडधरौ भूयो
भूयोऽभिवादये मूर्ध्ना |


भगवती टीका याऽसौ
वर्ण्यंतः प्रवेष्टुमेतस्याः || ३||


मध्वाधोक्षजसंप्रदायकमहा-
शास्त्रार्थसंव्यंजकः |


श्रीमद्भागवतांबुधौ व्यवहरन्
तात्पर्यरत्नावलीम् || ४||


दृष्ट्वा भागवतार्थदीप्तपदकैः
श्रीकृष्णपादार्चनं |


मात्याक्षीद्विजयध्वजो भजमन
स्तं कण्वतीर्थस्थितम् || ५||


यस्य वाक्कामधेनुर्नः
कामितार्थान् प्रयच्छति |


भजे महेंद्रसच्छिष्यं
यॊगींद्रं विजयध्वजम् || ६||


सर्वदुर्वादिमातंग-
दलने सिंहविक्रमम् |


वंदे यति कुलाग्रण्यं
योगींद्रं विजयध्वजम् || ७||


मध्वाराधितसीतेत
रामचंद्रपदांबुजे |


चंचरीकायितं वंदे
योगींद्रं विजयध्वजम् || ८||


श्रीमद्भागवताभिधानसुरभि-
र्यट्टीकया वत्सया |


स्पृष्टाश्लोकपयोधरैर्निजमहा-
भावं पयः प्रस्नुते || ९||


लोकॆ सज्जनता संप्रशमना-
योदीरितं सूरिभिः |


श्रीमंतं विजयध्वजं मुनिवरं
तं सन्नमाम्यन्वहम् || १०||


|| इति श्रीविश्वपतितीर्थविरचितं श्रीविजयध्वजाष्टकम् ||