श्रीवेंकटेशद्वादशनामस्तोत्रम् अथ श्रीवेंकटेशद्वादशनामस्तोत्रम् श्रीवेंकटेशमतिसुंदरमोहनांगं श्रीभूमिकांतमरविंददलायताक्षम् | प्राणप्रियं परमकारुणिकांबुराशिं ब्रह्मेशवंद्यममृतं वरदं नमामि || १|| अखिलविबुधवंद्यं विश्वरूपं सुरेशं अभयवरदहस्तं कंजजाक्षं रमेशम् | जलधरनिभकांतिं श्रीमहीभ्यां समेतं परमपुरुषमाद्यं वेंकटेशं नमामि || २|| वेंकटेशो वासुदेवो वारिजासनवंदितः | स्वामिपुष्करिणीवासः शंखचक्रगधाधरः || ३|| पीतांबरधरो देवो गरूडारूढशोभितः | विश्वात्मा विश्वलोकेशो विजयो वेंकटेश्वरः || ४|| एतद्द्वादशनामानि त्रिसंध्यं यः पठेन्नरः | सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात् || ५|| || इति श्रीवेंकटेशद्वादशनामस्तोत्रम् ||