अथ श्रीवेंकटेशद्वादशनामस्तोत्रम्
श्रीवेंकटेशमतिसुंदरमोहनांगं
श्रीभूमिकांतमरविंददलायताक्षम् |


प्राणप्रियं परमकारुणिकांबुराशिं
ब्रह्मेशवंद्यममृतं वरदं नमामि || १||


अखिलविबुधवंद्यं विश्वरूपं सुरेशं
अभयवरदहस्तं कंजजाक्षं रमेशम् |


जलधरनिभकांतिं श्रीमहीभ्यां समेतं
परमपुरुषमाद्यं वेंकटेशं नमामि || २||


वेंकटेशो वासुदेवो वारिजासनवंदितः |


स्वामिपुष्करिणीवासः शंखचक्रगधाधरः || ३||


पीतांबरधरो देवो गरूडारूढशोभितः |


विश्वात्मा विश्वलोकेशो विजयो वेंकटेश्वरः || ४||


एतद्द्वादशनामानि त्रिसंध्यं यः पठेन्नरः |


सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात् || ५||


|| इति श्रीवेंकटेशद्वादशनामस्तोत्रम् ||