श्रीवेंकटेशाष्टकम् अथ श्रीवेंकटेशाष्टकम् मुखे चारु हासं करे शंखचक्रं गले रत्नमाला स्वयं मेघवर्णम् | कटौ दिव्यवस्त्रं प्रियं रक्तवर्णं धरंतं मुरारिं भजे वेंकटेशम् ||1|| सदाभीष्टहस्तं मुदा जानुपाणिं लसन्मेखलारत्नशोभाप्रकाशम् | जगत्पावनं पादपद्मारसालं धरंतं मुरारिं भजे वेंकटेशम् ||2|| अजं निर्मलं नित्यमानंदरूपं जगत्कारणं सर्ववेदांतवेद्यम् | विभुं वामनं सत्यमानंदरूपं धरंतं मुरारिं भजे वेंकटेशम् ||3|| श्रीयाधिवेष्टितं वामवक्षःस्थलांगं सुरैर्वंदितं ब्रह्मरुद्रादिभिस्तम् | सुरस्वामिनं लोकलीलावतारं धरंतं मुरारिं भजे वेंकटेशम् ||4|| महायोगगम्यं परिभ्राजमां विदं विश्वरूपं महेशं सुरेशम् | अहो बुद्धरूपं महाबोधगम्यं धरंतं मुरारिं भजे वेंकटेशम् ||5|| अहो मत्स्यरूपं तथा कूर्मरूपं तथा क्रोडरूपं महानारसिंहम् | अहो कुब्जरूपं प्रियं जामदग्न्यं धरंतं मुरारिं भजे वेंकटेशम् ||6|| अहो बौद्धरूपं तथा कल्किरूपं प्रियं शाश्वतं लोकरक्षाकरं तम् | शुभं शंकरं वास्तिनिर्वाणरूपं धरंतं मुरारिं भजे वेंकटेशम् ||7|| जयति जयति रामो जानकीजीवहृद्यो जयति जयति कृष्णः कामिनीकेलिलोलः | जयति जयति विष्णुर्वासुदेवो मुकुंदो जयति जयति देवो वेंकटेशः सुरेशः ||8|| || इति श्रीब्रह्मांडपुराणे श्रीवेंकटेशाष्टकम् ||