अथ श्रीवेंकटेशाष्टकम्
मुखे चारु हासं करे शंखचक्रं
गले रत्नमाला स्वयं मेघवर्णम् |
कटौ दिव्यवस्त्रं प्रियं रक्तवर्णं
धरंतं मुरारिं भजे वेंकटेशम् ||1||


सदाभीष्टहस्तं मुदा जानुपाणिं
लसन्मेखलारत्नशोभाप्रकाशम् |
जगत्पावनं पादपद्मारसालं
धरंतं मुरारिं भजे वेंकटेशम् ||2||


अजं निर्मलं नित्यमानंदरूपं
जगत्कारणं सर्ववेदांतवेद्यम् |
विभुं वामनं सत्यमानंदरूपं
धरंतं मुरारिं भजे वेंकटेशम् ||3||


श्रीयाधिवेष्टितं वामवक्षःस्थलांगं
सुरैर्वंदितं ब्रह्मरुद्रादिभिस्तम् |
सुरस्वामिनं लोकलीलावतारं
धरंतं मुरारिं भजे वेंकटेशम् ||4||


महायोगगम्यं परिभ्राजमां
विदं विश्वरूपं महेशं सुरेशम् |
अहो बुद्धरूपं महाबोधगम्यं
धरंतं मुरारिं भजे वेंकटेशम् ||5||


अहो मत्स्यरूपं तथा कूर्मरूपं
तथा क्रोडरूपं महानारसिंहम् |
अहो कुब्जरूपं प्रियं जामदग्न्यं
धरंतं मुरारिं भजे वेंकटेशम् ||6||


अहो बौद्धरूपं तथा कल्किरूपं
प्रियं शाश्वतं लोकरक्षाकरं तम् |
शुभं शंकरं वास्तिनिर्वाणरूपं
धरंतं मुरारिं भजे वेंकटेशम् ||7||


जयति जयति रामो जानकीजीवहृद्यो
जयति जयति कृष्णः कामिनीकेलिलोलः |
जयति जयति विष्णुर्वासुदेवो मुकुंदो
जयति जयति देवो वेंकटेशः सुरेशः ||8||


|| इति श्रीब्रह्मांडपुराणे श्रीवेंकटेशाष्टकम् ||