श्रीवेंकटेश उषःकालस्तोत्रम् अथ श्रीवेंकटेश उषःकालस्तोत्रम् प्रातः स्मराम्यनुदिनं हृदि वेंकटेशं पादारविंदयुगलं मुनिभिर्विचिंत्यम् | ब्रह्मादिदेवगणसिद्धिकरं परं च योगीश्वरैः स्वहृदये परिभावितं च ||1|| प्रातः स्वराम्यनुदिनं हृदि वेंकटेशं कर्णावलंबिमणिकुंडलमंडिताढ्यम् | भक्ताभयंकरकरं जघने दधानं चक्रं दधानमपरेण परेण शंखम् ||2|| प्रातर्भजाम्यनुदिनं हृदि वेंकटेशं बालार्ककोटिसमदीधितिकं शरण्यम् | लक्ष्मीपतिं गरुडवाहनमब्जनाभं श्रीशेषपर्वतवने च कृताधिवासम् ||3|| श्रीवेंकटाचलपते तव पादपद्म- सेवां सदा दिश कृपारसविश्वपाल | अद्यागतानि दुरितानि निरस्य देव वांछाफलानि सततं मम देहि देहि ||4|| अच्युतानंत गोविंद विष्णो वेंकटनायक | पाहि मां पुंडीकाक्ष शरणागतवत्सल ||5|| || इति श्रीस्कंदपुराणे श्रीवेंकटेश उषःकालस्तोत्रम् ||