अथ श्रीवेंकटेश उषःकालस्तोत्रम्
प्रातः स्मराम्यनुदिनं हृदि वेंकटेशं
पादारविंदयुगलं मुनिभिर्विचिंत्यम् |


ब्रह्मादिदेवगणसिद्धिकरं परं च
योगीश्वरैः स्वहृदये परिभावितं च ||1||


प्रातः स्वराम्यनुदिनं हृदि वेंकटेशं
कर्णावलंबिमणिकुंडलमंडिताढ्यम् |


भक्ताभयंकरकरं जघने दधानं
चक्रं दधानमपरेण परेण शंखम् ||2||


प्रातर्भजाम्यनुदिनं हृदि वेंकटेशं
बालार्ककोटिसमदीधितिकं शरण्यम् |


लक्ष्मीपतिं गरुडवाहनमब्जनाभं
श्रीशेषपर्वतवने च कृताधिवासम् ||3||


श्रीवेंकटाचलपते तव पादपद्म-
सेवां सदा दिश कृपारसविश्वपाल |


अद्यागतानि दुरितानि निरस्य देव
वांछाफलानि सततं मम देहि देहि ||4||


अच्युतानंत गोविंद विष्णो वेंकटनायक |


पाहि मां पुंडीकाक्ष शरणागतवत्सल ||5||


|| इति श्रीस्कंदपुराणे श्रीवेंकटेश उषःकालस्तोत्रम् ||