॥ अथ नरसिंहनखस्तुति: ॥


पांत्वस्मान् पुरुहूतवैरिबलवन्मातंगमाद्यद्घटा-
कुंभोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिता: ।
श्रीमत्कंठीरवास्य प्रततसुनखरा दारितारातिदूर-
प्रध्वस्तध्वांतशांतप्रविततमनसा भाविता नाकिवृंदै: ॥१॥


लक्ष्मीकांत समंततो विकलयन्नैवेशितुस्ते समं
पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टम: ।
यद्रोषोत्करदक्षनेत्रकुटिलप्रांतोत्थिताग्निस्फुरत्-
खद्योतोपमविस्फुलिंगभसिता ब्रह्मेशशक्रोत्करा: ॥२॥


॥ इति श्रीमदानंदतीर्थभगवत्पादाचार्यविरचिता श्रीनरसिंहनखस्तुति:॥


॥ अथ श्रीहरिवायुस्तुति: ॥


श्रीमद्विष्ण्वंघ्रिनिष्ठातिगुणगुरुतमश्रीमदानंदतीर्थ-
त्रैलोक्याचार्यपादोज्ज्वलजलजलसत्पांसवोऽस्मान् पुनंतु ।
वाचां यत्र प्रणेत्री त्रिभुवनमहिता शारदा शारदेंदु-
ज्योत्स्नाभद्रस्मितश्रीधलितककुभा प्रेमभारं बभार ॥१॥


उत्कंठाकुंठकोलाहलजवविदिताजस्रसेवानुवृद्ध-
प्राज्ञात्मज्ञानधूतांधतमससुमनोमौलिरत्नावलीनाम् ।
भक्त्युद्रेकावगाढप्रघटनसघटात्कारसंघृष्यमाण-
प्रांतप्राग्र्यांघ्रिपीठोत्थितकनकरज:पिंजरारंजिताशा: ॥२॥


जन्माधिव्याध्युपाधिप्रतिहतिविरहप्रापकाणां गुणानां
अग्र्याणामर्पकाणां चिरमुदितचिदानंदसंदोहदानाम् ।
एतेषामेष दोषप्रमुषितमनसां द्वेषिणां दूषकाणां
दैत्यानामार्तिमंधे तमसि विदधतां संस्तवे नास्मि शक्त: ॥३॥


अस्याविष्कर्तुकामं कलिमलकलुषेऽस्मिन् जने ज्ञानमार्गं
वंद्यं चंद्रेंद्ररुद्रद्युमणिफणिवयोनायकाद्यैरिहाद्य ।
मध्वाख्यं मंत्रसिद्धं किमुत कृतवतो मारुतस्यावतारं
पातारं पारमेष्ठ्यं पदमपविपद: प्राप्तुरापन्नपुंसाम् ॥४॥


उद्यद्विद्युत्प्रचंडां निजरुचिनिकरव्याप्तलोकावकाशो
बिभ्रद्भीमो भुजे योऽभ्युदितदिनकराभांगदाढ्यप्रकांडे ।
वीर्योद्धार्यां गदाग्र्यामयमिह सुमतिं वायुदेवो विदध्यात्
अध्यात्मज्ञाननेता यतिवरमहितो भूमिभूषामणिर्मे ॥५॥


संसारोत्तापनित्योपशमदसदयस्नेहहासांबुपूर-
प्रोद्यद्विद्यानवद्यद्युतिमणिकिरणश्रेणिसंपूरिताश: ।
श्रीवत्सांकाधिवासोचिततरसरल: श्रीमदानंदतीर्थ-
क्षीरांभोधिर्विभिंद्याद्भवदनभिमतं भूरि मे भूतिहेतु: ॥६॥


मूर्धन्येषोंऽजलिर्मे दृढतरमिह ते बध्यते बंधपाश-
च्छेत्रे दात्रे सुखानां भजति भुवि भविष्यद्विधात्रे द्युभर्त्रे ।
अत्यंतं संततं त्वं प्रदिश पदयुगे हंत संतापभाजां
अस्माकं भक्तिमेकां भगवत उत ते माधवस्याथ वायो: ॥७॥


साभ्रोष्णाभीशुशुभ्रप्रभमभय नभो भूरिभूभृद्विभूति-
भ्राजिष्णुर्भूर्ऋभूणां भवनमपि विभोऽभेदि बभ्रे बभूवे ।
येन भ्रूविभ्रमस्ते भ्रमयतु सुभृशं बभ्रुवद्दुर्भृताशान्
भ्रांतिर्भेदावभासस्त्विति भयमभिभूर्भोक्ष्यतो मायिभिक्षून् ॥८॥


येऽमुं भावं भजंते सुरमुखसुजनाराधितं ते तृतीयं
भासंते भासुरैस्ते सहचरचलितैश्चामरैश्चारुवेषा: ।
वैकुंठे कंठलग्नास्थिरशुचिविलसत्कांतितारुण्यलीला-
लावण्यापूर्णकांताकुचभरसुलभाश्लेषसंमोदसांद्रा: ॥९॥


आनंदान् मंदमंदा ददति हि मरुत: कुंदमंदारनंद्या-
वर्तामोदान् दधाना मृदुपदमुदितोद्गीतकै: सुंदरीणाम् ।
वृंदैरावंद्यमुक्तेंद्वहिमगुमदनाहींद्रदेवेंद्रसेव्ये
मौकुंदे मंदिरेऽस्मिन्नविरतमुदयन् मोदिनां देवदेव ॥१०॥


उत्तप्तात्युत्कटत्विट्प्रकटकटकटध्वानसंघट्टनोद्यत्-
विद्युद्व्यूढस्फुलिंगप्रकरविकिरणोत्क्वाथिते बाधितांगान् ।
उद्गाढं पात्यमाना तमसि तत इत: किंकरै: पंकिले ते
पंक्तिर्ग्राव्णां गरिम्णा ग्लपयति हि भवद्द्वेषिणो विद्वदाद्य ॥११॥


अस्मिन्नस्मद्गुरूणां हरिचरणचिरध्यानसन्मंगलानां
युष्माकं पार्श्वभूमिं धृतरणरणिक: स्वर्गिसेव्यां प्रपन्न: ।
यस्तूदास्ते स आस्तेऽधिभवमसुलभक्लेशनिर्मोकमस्त-
प्रायानंदं कथंचिन्न वसति सततं पंचकष्टेऽतिकष्टे ॥१२॥


क्षुत्क्षामान् रूक्षरक्षोरदखरनखरक्षुण्णविक्षोभिताक्षान्
आमग्नानंधकूपे क्षुरमुखमुखरै: पक्षिभिर्विक्षतांगान् ।
पूयासृङ्मूत्रविष्ठाकृमिकुलकलिले तत्क्षणाक्षिप्तशक्त्या-
द्यस्त्रव्रातार्दितांस्त्वद्द्विष उपजिहते वज्रकल्पा जलूका: ॥१३॥


मातर्मे मातरिश्वन् पितरतुलगुरो भ्रातरिष्टाप्तबंधो
स्वामिन् सर्वांतरात्मन्नजर जरयितर्जन्ममृत्यामयानाम् ।
गोविंदे देहि भक्तिं भवति च भगवन्नूर्जितां निर्निमित्तां
निर्व्याजां निश्चलां सद्गुणगणबृहतीं शाश्वतीमाशु देव ॥१४॥


विष्णोरत्युत्तमत्वादखिलगुणगणैस्तत्र भक्तिं गरिष्ठां
संश्लिष्टे श्रीधराभ्याममुमथ परिवारात्मना सेवकेषु ।
य: संधत्ते विरिंचिश्वसनविहगपानंतरुद्रेंद्रपूर्वे-
ष्वाध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्गुरुस्तम् ॥१५॥


तत्त्वज्ञान् मुक्तिभाज: सुखयसि हि गुरो योग्यतातारतम्या-
दाधत्से मिश्रबुद्धींस्त्रिदिवनिरयभूगोचरान् नित्यबद्धान् ।
तामिस्रांधादिकाख्ये तमसि सुबहुलं दु:खयस्यन्यथाज्ञान्
विष्णोराज्ञाभिरित्थं श्रुतिशतमितिहासादि चाऽकर्णयाम: ॥१६॥


वंदेऽहं तं हनूमानिति महितमहापौरुषो बाहुशाली
ख्यातस्तेऽग्र्योऽवतार: सहित इह बहुब्रह्मचर्यादिधर्मै: ।
सस्नेहानां सहस्वानहरहरहितं निर्दहन् देहभाजां
अंहोमोहापहो य: स्पृहयति महतीं भक्तिमद्यापि रामे ॥१७॥


प्राक्पंचाशत्सहस्रैर्व्यवहितममितं योजनै: पर्वतं त्वं
यावत्संजीवनाद्यौषधनिधिमधिक प्राण लंकामनैषी: ।
अद्राक्षीदुत्पतंतं तत उत गिरिमुत्पाटयंतं गृहीत्वाऽऽ-
यांतं खे राघवांघ्रौ प्रणतमपि तदैकक्षणे त्वां हि लोक: ॥१८॥


क्षिप्त: पश्चात् सलीलं शतमतुलमते योजनानां स उच्चः
तावद्विस्तारवांश्चाप्युपललव इव व्यग्रबुध्द्या त्वयाऽत: ।
स्वस्वस्थानस्थितातिस्थिरशकलशिलाजालसंश्लेषनष्ट-
च्छेदांक: प्रागिवाभूत् कपिवरवपुषस्ते नम: कौशलाय ॥१९॥


दृष्ट्वा दुष्टाधिपोर: स्फुटितकनकसद्वर्मघृष्टास्थिकूटं
निष्पिष्टं हाटकाद्रिप्रकटतटतटाकातिशंको जनोऽभूत् ।
येनाऽजौ रावणारिप्रियनटनपटुर्मुष्टिरिष्टं प्रदेष्टुं
किं नेष्टे मे स तेऽष्टापदकटकतटित्कोटिभामृष्टकाष्ठ: ॥२०॥


देव्यादेशप्रणीतिद्रुहिणहरवरावध्यरक्षोविघाता-
द्यासेव्योद्यद्दयार्द्र: सहभुजमकरोद्रामनामा मुकुंद: ।
दुष्प्रापे पारमेष्ठ्ये करतलमतुलं मूर्ध्नि विन्यस्य धन्यं
तन्वन् भूय: प्रभूतप्रणयविकसिताब्जेक्षणस्त्वेक्षमाण: ॥२१॥


जघ्ने निघ्नेन विघ्नो बहुलबलबकध्वंसनाद्येन शोचत्
विप्रानुक्रोशपाशैरसुविधृतिसुखस्यैकचक्राजनानाम् ।
तस्मै ते देव कुर्म: कुरुकुलपतये कर्मणा च प्रणामान्
किर्मीरं दुर्मतीनां प्रथममथ च यो नर्मणा निर्ममाथ ॥२२॥


निर्मृद्नन्नत्ययत्नं विजरवर जरासंधकायास्थिसंधीन्
युद्धे त्वं स्वध्वरे वा पशुमिव दमयन् विष्णुपक्षद्विडीशम् ।
यावत् प्रत्यक्षभूतं निखिलमखभुजं तर्पयामासिथासौ
तावत्याऽयोजि तृप्त्या किमु वद भगवन् राजसूयाश्वमेधे ॥२३॥


क्ष्वेलाक्षीणाट्टहासं तव रणमरिहन्नुद्गदोद्दामबाहो
बह्वक्षौहिण्यनीकक्षपणसुनिपुणं यस्य सर्वोत्तमस्य ।
शुश्रूषार्थं चकर्थ स्वयमयमथ संवक्तुमानंदतीर्थ-
श्रीमन्नामन् समर्थस्त्वमपि हि युवयो: पादपद्मं प्रपद्ये ॥२४॥


द्रुह्यंतीं हृद्रुहं मां द्रुतमनिलबलाद्द्रावयंतीमविद्या-
निद्रां विद्राव्य सद्योरचनपटुमथाऽपाद्य विद्यासमुद्र ।
वाग्देवी सा सुविद्याद्रविणदविदिता द्रौपदी रुद्रपत्न्यात्
द्युद्रिक्ता द्रागभद्राद्रहयतु दयिता पूर्वभीमाज्ञया ते ॥२५॥


याभ्यां शुश्रूषुरासी: कुरुकुलजनने क्षत्रविप्रोदिताभ्यां
ब्रह्मभ्यां बृंहिताभ्यां चितिसुखवपुषा कृष्णनामास्पदाभ्याम् ।
निर्भेदाभ्यां विशेषाद्द्विवचनविषयाभ्यामुभाभ्याममूभ्यां
तुभ्यं च क्षेमदेभ्य: सरसिजविलसल्लोचनेभ्यो नमोऽस्तु ॥२६॥


गच्छन् सौगंधिकार्थं पथि स हनुमत: पुच्छमच्छस्य भीम:
प्रोद्धर्तुं नाशकत् स त्वमुमुरुवपुषा भीषयामास चेति ।
पूर्णज्ञानौजसोस्ते गुरुतमवपुषो: श्रीमदानंदतीर्थ
क्रीडामात्रं तदेतत्प्रमदद सुधियां मोहक द्वेषभाजाम् ॥२७॥


बह्वी: कोटीरटीक: कुटिलकटुमतीनुत्कटाटोपकोपान्
द्राक् च त्वं सत्वरत्वाच्छरणद गदया पोथयामासिथारीन् ।
उन्मथ्यातथ्यमिथ्यात्ववचनवचनानुत्पथस्थांस्तथाऽन्यान्
प्रायच्छ: स्वप्रियायै प्रियतम कुसुमं प्राण तस्मै नमस्ते ॥२८॥


देहादुत्क्रामितानामधिपतिरसतामक्रमाद्वक्रबुद्धि:
क्रुद्ध: क्रोधैकवश्य: कृमिरिव मणिमान् दुष्कृती निष्क्रियार्थम् ।
चक्रे भूचक्रमेत्य क्रकचमिव सतां चेतस: कष्टशास्त्रं
दुस्तर्कं चक्रपाणेर्गुणगणविरहं जीवतां चाधिकृत्य ॥२९॥


तद्दुष्प्रेक्षानुसारात् कतिपयकुनरैरादृतोऽन्यैर्विसृष्टो
ब्रह्माऽहं निर्गुणोऽहं वितथमिदमिति ह्येष पाषंडवाद: ।
तद्युक्त्याभासजालप्रसरविषतरूद्दाहदक्षप्रमाण-
ज्वालामालाधरोऽग्नि: पवन विजयते तेऽवतारस्तृतीय: ॥३०॥


आक्रोशंतो निराशा भयभरविवशस्वाशयाश्छिन्नदर्पा
वाशंतो देशनाशस्त्विति बत कुधियां नाशमाशादशाशु ।
धावंतोऽश्लीलशीला वितथशपथशापाशिवा: शांतशौर्याः
त्वद्व्याख्यासिंहनादे सपदि ददृशिरे मायिगोमायवस्ते ॥३१॥


त्रिष्वप्येवावतारेष्वरिभिरपघृणं हिंसितो निर्विकार:
सर्वज्ञ: सर्वशक्ति: सकलगुणगणापूर्णरूपप्रगल्भ: ।
स्वच्छ: स्वच्छंदमृत्यु: सुखयसि सुजनं देव किं चित्रमत्र
त्राता यस्य त्रिधामा जगदुत वशगं किंकरा: शंकराद्या: ॥३२॥


उद्यन्मंदस्मितश्रीमृदुमधुमधुरालापपीयूषधारा-
पूरासेकोपशांतासुखसुजनमनोलोचनापीयमानम् ।
संद्रक्ष्ये सुंदरं संदुहदिह महदानंदमानंदतीर्थ
श्रीमद्वक्त्रेंदुबिंबं दुरितनुदुदितं नित्यदाऽहं कदा नु ॥३३॥


प्राचीनाचीर्णपुण्योच्चयचतुरतराचारतश्चारुचित्तान्
अत्युच्चां रोचयंतीं श्रुतिचितवचनांछ्रावकांश्चोद्यचंचून् ।
व्याख्यामुत्खातदु:खां चिरमुचितमहाचार्य चिंतारतांस्ते
चित्रां सच्छास्त्रकर्तश्चरणपरिचरान् श्रावयास्मांश्च किंचित् ॥३४॥


पीठे रत्नोपक्लृप्ते रुचिररुचिमणिज्योतिषा सन्निषण्णं
ब्रह्माणं भाविनं त्वां ज्वलति निजपदे वैदिकाद्या हि विद्या: ।
सेवंते मूर्तिमत्य: सुचरित चरितं भाति गंधर्वगीतं
प्रत्येकं देवसंसत्स्वपि तव भगवन् नर्तितद्योवधूषु ॥३५॥


सानुक्रोशैरजस्रं जनिमृतिनिरयाद्यूर्मिमालाविलेऽस्मिन्
संसाराब्धौ निमग्नान् शरणमशरणानिच्छतो वीक्ष्य जंतून् ।
युष्माभि: प्रार्थित: सन् जलनिधिशयन: सत्यवत्यां महर्षेः
व्यक्तश्चिन्मात्रमूर्तिर्न खलु भगवत: प्राकृतो जातु देह: ॥३६॥


अस्तव्यस्तं समस्तश्रुतिगतमधमै रत्नपूगं यथांऽधैः
अर्थं लोकोपकृत्यै गुणगणणनिलय: सूत्रयामास कृत्स्नम् ।
योऽसौ व्यासाभिधानस्तमहमहरहर्भक्तितस्त्वत्प्रसादात्
सद्यो विद्योपलब्ध्यै गुरुतममगुरुं देवदेवं नमामि ॥३७॥


आज्ञामन्यैरधार्यां शिरसि परिसरद्रश्मिकोटीरकोटौ
कृष्णस्याक्लिष्टकर्मा दधदनुसरणादर्थितो देवसंघै: ।
भूमावागत्य भूमन्नसुकरमकरोब्रह्मसूत्रस्य भाष्यं
दुर्भाष्यं व्यस्य दस्योर्मणिमत उदितं वेद सद्युक्तिभिस्त्वम् ॥३८॥


भूत्वा क्षेत्रे विशुद्धे द्विजगणनिलये रूप्यपीठाभिधाने
तत्रापि ब्रह्मजातिस्त्रिभुवनविशदे मध्यगेहाख्यगेहे ।
पारिव्राज्याधिराज: पुनरपि बदरीं प्राप्य कृष्णं च नत्वा
कृत्वा भाष्याणि सम्यग् व्यतनुत च भवान् भारतार्थप्रकाशम् ॥३९॥


वंदे तं त्वा सुपूर्णप्रमतिमनुदिनासेवितं देववृंदैः
वंदे वंदारुमीशे श्रिय उत नियतं श्रीमदानंदतीर्थम् ।
वंदे मंदाकिनीसत्सरिदमलजलासेकसाधिक्यसंगं
वंदेऽहं देव भक्त्या भवभयदहनं सज्जनान्मोदयंतम् ॥४०॥


सुब्रह्मण्याख्यसूरे: सुत इति सुभृशं केशवानंदतीर्थ-
श्रीमत्पादाब्जभक्त: स्तुतिमकृत हरेर्वायुदेवस्य चास्य ।
तत्पादार्चादरेण ग्रथितपदलसन्मालया त्वेतया ये
संराध्यामू नमंति प्रततमतिगुणा मुक्तिमेते व्रजंति ॥४१॥


पांत्वस्मान् पुरुहूतवैरिबलवन्मातंगमाद्यद्घटा-
कुंभोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिता: ।
श्रीमत्कंठीरवास्य प्रततसुनखरा दारितारातिदूर-
प्रध्वस्तध्वांतशांतप्रविततमनसा भाविता नाकिवृंदै: ॥१॥


लक्ष्मीकांत समंततो विकलयन्नैवेशितुस्ते समं
पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टम: ।
यद्रोषोत्करदक्षनेत्रकुटिलप्रांतोत्थिताग्निस्फुरत्-
खद्योतोपमविस्फुलिंगभसिता ब्रह्मेशशक्रोत्करा: ॥२॥


॥ इति श्रीत्रिविक्रमपंडिताचार्यविरचिता श्रीहरिवायुस्तुति: ॥