Using exporter Gnumeric_stf:stf_csv Vaayustuthi

॥ अथ नरसिंहनखस्तुति: ॥

पांत्वस्मान् पुरुहूतवैरिबलवन्मातंगमाद्यद्घटा-
कुंभोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिता: ।
श्रीमत्कंठीरवास्य प्रततसुनखरा दारितारातिदूर-
प्रध्वस्तध्वांतशांतप्रविततमनसा भाविता नाकिवृंदै: ॥१॥

लक्ष्मीकांत समंततो विकलयन्नैवेशितुस्ते समं
पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टम: ।
यद्रोषोत्करदक्षनेत्रकुटिलप्रांतोत्थिताग्निस्फुरत्-
खद्योतोपमविस्फुलिंगभसिता ब्रह्मेशशक्रोत्करा: ॥२॥

॥ इति श्रीमदानंदतीर्थभगवत्पादाचार्यविरचिता श्रीनरसिंहनखस्तुति:॥

॥ अथ श्रीहरिवायुस्तुति: ॥

श्रीमद्विष्ण्वंघ्रिनिष्ठातिगुणगुरुतमश्रीमदानंदतीर्थ-
त्रैलोक्याचार्यपादोज्ज्वलजलजलसत्पांसवोऽस्मान् पुनंतु ।
वाचां यत्र प्रणेत्री त्रिभुवनमहिता शारदा शारदेंदु-
ज्योत्स्नाभद्रस्मितश्रीधलितककुभा प्रेमभारं बभार ॥१॥

उत्कंठाकुंठकोलाहलजवविदिताजस्रसेवानुवृद्ध-
प्राज्ञात्मज्ञानधूतांधतमससुमनोमौलिरत्नावलीनाम् ।
भक्त्युद्रेकावगाढप्रघटनसघटात्कारसंघृष्यमाण-
प्रांतप्राग्र्यांघ्रिपीठोत्थितकनकरज:पिंजरारंजिताशा: ॥२॥

जन्माधिव्याध्युपाधिप्रतिहतिविरहप्रापकाणां गुणानां
अग्र्याणामर्पकाणां चिरमुदितचिदानंदसंदोहदानाम् ।
एतेषामेष दोषप्रमुषितमनसां द्वेषिणां दूषकाणां
दैत्यानामार्तिमंधे तमसि विदधतां संस्तवे नास्मि शक्त: ॥३॥

अस्याविष्कर्तुकामं कलिमलकलुषेऽस्मिन् जने ज्ञानमार्गं
वंद्यं चंद्रेंद्ररुद्रद्युमणिफणिवयोनायकाद्यैरिहाद्य ।
मध्वाख्यं मंत्रसिद्धं किमुत कृतवतो मारुतस्यावतारं
पातारं पारमेष्ठ्यं पदमपविपद: प्राप्तुरापन्नपुंसाम् ॥४॥

उद्यद्विद्युत्प्रचंडां निजरुचिनिकरव्याप्तलोकावकाशो
बिभ्रद्भीमो भुजे योऽभ्युदितदिनकराभांगदाढ्यप्रकांडे ।
वीर्योद्धार्यां गदाग्र्यामयमिह सुमतिं वायुदेवो विदध्यात्
अध्यात्मज्ञाननेता यतिवरमहितो भूमिभूषामणिर्मे ॥५॥

संसारोत्तापनित्योपशमदसदयस्नेहहासांबुपूर-
प्रोद्यद्विद्यानवद्यद्युतिमणिकिरणश्रेणिसंपूरिताश: ।
श्रीवत्सांकाधिवासोचिततरसरल: श्रीमदानंदतीर्थ-
क्षीरांभोधिर्विभिंद्याद्भवदनभिमतं भूरि मे भूतिहेतु: ॥६॥

मूर्धन्येषोंऽजलिर्मे दृढतरमिह ते बध्यते बंधपाश-
च्छेत्रे दात्रे सुखानां भजति भुवि भविष्यद्विधात्रे द्युभर्त्रे ।
अत्यंतं संततं त्वं प्रदिश पदयुगे हंत संतापभाजां
अस्माकं भक्तिमेकां भगवत उत ते माधवस्याथ वायो: ॥७॥

साभ्रोष्णाभीशुशुभ्रप्रभमभय नभो भूरिभूभृद्विभूति-
भ्राजिष्णुर्भूर्ऋभूणां भवनमपि विभोऽभेदि बभ्रे बभूवे ।
येन भ्रूविभ्रमस्ते भ्रमयतु सुभृशं बभ्रुवद्दुर्भृताशान्
भ्रांतिर्भेदावभासस्त्विति भयमभिभूर्भोक्ष्यतो मायिभिक्षून् ॥८॥

येऽमुं भावं भजंते सुरमुखसुजनाराधितं ते तृतीयं
भासंते भासुरैस्ते सहचरचलितैश्चामरैश्चारुवेषा: ।
वैकुंठे कंठलग्नास्थिरशुचिविलसत्कांतितारुण्यलीला-
लावण्यापूर्णकांताकुचभरसुलभाश्लेषसंमोदसांद्रा: ॥९॥

आनंदान् मंदमंदा ददति हि मरुत: कुंदमंदारनंद्या-
वर्तामोदान् दधाना मृदुपदमुदितोद्गीतकै: सुंदरीणाम् ।
वृंदैरावंद्यमुक्तेंद्वहिमगुमदनाहींद्रदेवेंद्रसेव्ये
मौकुंदे मंदिरेऽस्मिन्नविरतमुदयन् मोदिनां देवदेव ॥१०॥

उत्तप्तात्युत्कटत्विट्प्रकटकटकटध्वानसंघट्टनोद्यत्-
विद्युद्व्यूढस्फुलिंगप्रकरविकिरणोत्क्वाथिते बाधितांगान् ।
उद्गाढं पात्यमाना तमसि तत इत: किंकरै: पंकिले ते
पंक्तिर्ग्राव्णां गरिम्णा ग्लपयति हि भवद्द्वेषिणो विद्वदाद्य ॥११॥

अस्मिन्नस्मद्गुरूणां हरिचरणचिरध्यानसन्मंगलानां
युष्माकं पार्श्वभूमिं धृतरणरणिक: स्वर्गिसेव्यां प्रपन्न: ।
यस्तूदास्ते स आस्तेऽधिभवमसुलभक्लेशनिर्मोकमस्त-
प्रायानंदं कथंचिन्न वसति सततं पंचकष्टेऽतिकष्टे ॥१२॥

क्षुत्क्षामान् रूक्षरक्षोरदखरनखरक्षुण्णविक्षोभिताक्षान्
आमग्नानंधकूपे क्षुरमुखमुखरै: पक्षिभिर्विक्षतांगान् ।
पूयासृङ्मूत्रविष्ठाकृमिकुलकलिले तत्क्षणाक्षिप्तशक्त्या-
द्यस्त्रव्रातार्दितांस्त्वद्द्विष उपजिहते वज्रकल्पा जलूका: ॥१३॥

मातर्मे मातरिश्वन् पितरतुलगुरो भ्रातरिष्टाप्तबंधो
स्वामिन् सर्वांतरात्मन्नजर जरयितर्जन्ममृत्यामयानाम् ।
गोविंदे देहि भक्तिं भवति च भगवन्नूर्जितां निर्निमित्तां
निर्व्याजां निश्चलां सद्गुणगणबृहतीं शाश्वतीमाशु देव ॥१४॥

विष्णोरत्युत्तमत्वादखिलगुणगणैस्तत्र भक्तिं गरिष्ठां
संश्लिष्टे श्रीधराभ्याममुमथ परिवारात्मना सेवकेषु ।
य: संधत्ते विरिंचिश्वसनविहगपानंतरुद्रेंद्रपूर्वे-
ष्वाध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्गुरुस्तम् ॥१५॥

तत्त्वज्ञान् मुक्तिभाज: सुखयसि हि गुरो योग्यतातारतम्या-
दाधत्से मिश्रबुद्धींस्त्रिदिवनिरयभूगोचरान् नित्यबद्धान् ।
तामिस्रांधादिकाख्ये तमसि सुबहुलं दु:खयस्यन्यथाज्ञान्
विष्णोराज्ञाभिरित्थं श्रुतिशतमितिहासादि चाऽकर्णयाम: ॥१६॥

वंदेऽहं तं हनूमानिति महितमहापौरुषो बाहुशाली
ख्यातस्तेऽग्र्योऽवतार: सहित इह बहुब्रह्मचर्यादिधर्मै: ।
सस्नेहानां सहस्वानहरहरहितं निर्दहन् देहभाजां
अंहोमोहापहो य: स्पृहयति महतीं भक्तिमद्यापि रामे ॥१७॥

प्राक्पंचाशत्सहस्रैर्व्यवहितममितं योजनै: पर्वतं त्वं
यावत्संजीवनाद्यौषधनिधिमधिक प्राण लंकामनैषी: ।
अद्राक्षीदुत्पतंतं तत उत गिरिमुत्पाटयंतं गृहीत्वाऽऽ-
यांतं खे राघवांघ्रौ प्रणतमपि तदैकक्षणे त्वां हि लोक: ॥१८॥

क्षिप्त: पश्चात् सलीलं शतमतुलमते योजनानां स उच्चः
तावद्विस्तारवांश्चाप्युपललव इव व्यग्रबुध्द्या त्वयाऽत: ।
स्वस्वस्थानस्थितातिस्थिरशकलशिलाजालसंश्लेषनष्ट-
च्छेदांक: प्रागिवाभूत् कपिवरवपुषस्ते नम: कौशलाय ॥१९॥

दृष्ट्वा दुष्टाधिपोर: स्फुटितकनकसद्वर्मघृष्टास्थिकूटं
निष्पिष्टं हाटकाद्रिप्रकटतटतटाकातिशंको जनोऽभूत् ।
येनाऽजौ रावणारिप्रियनटनपटुर्मुष्टिरिष्टं प्रदेष्टुं
किं नेष्टे मे स तेऽष्टापदकटकतटित्कोटिभामृष्टकाष्ठ: ॥२०॥

देव्यादेशप्रणीतिद्रुहिणहरवरावध्यरक्षोविघाता-
द्यासेव्योद्यद्दयार्द्र: सहभुजमकरोद्रामनामा मुकुंद: ।
दुष्प्रापे पारमेष्ठ्ये करतलमतुलं मूर्ध्नि विन्यस्य धन्यं
तन्वन् भूय: प्रभूतप्रणयविकसिताब्जेक्षणस्त्वेक्षमाण: ॥२१॥

जघ्ने निघ्नेन विघ्नो बहुलबलबकध्वंसनाद्येन शोचत्
विप्रानुक्रोशपाशैरसुविधृतिसुखस्यैकचक्राजनानाम् ।
तस्मै ते देव कुर्म: कुरुकुलपतये कर्मणा च प्रणामान्
किर्मीरं दुर्मतीनां प्रथममथ च यो नर्मणा निर्ममाथ ॥२२॥

निर्मृद्नन्नत्ययत्नं विजरवर जरासंधकायास्थिसंधीन्
युद्धे त्वं स्वध्वरे वा पशुमिव दमयन् विष्णुपक्षद्विडीशम् ।
यावत् प्रत्यक्षभूतं निखिलमखभुजं तर्पयामासिथासौ
तावत्याऽयोजि तृप्त्या किमु वद भगवन् राजसूयाश्वमेधे ॥२३॥

क्ष्वेलाक्षीणाट्टहासं तव रणमरिहन्नुद्गदोद्दामबाहो
बह्वक्षौहिण्यनीकक्षपणसुनिपुणं यस्य सर्वोत्तमस्य ।
शुश्रूषार्थं चकर्थ स्वयमयमथ संवक्तुमानंदतीर्थ-
श्रीमन्नामन् समर्थस्त्वमपि हि युवयो: पादपद्मं प्रपद्ये ॥२४॥

द्रुह्यंतीं हृद्रुहं मां द्रुतमनिलबलाद्द्रावयंतीमविद्या-
निद्रां विद्राव्य सद्योरचनपटुमथाऽपाद्य विद्यासमुद्र ।
वाग्देवी सा सुविद्याद्रविणदविदिता द्रौपदी रुद्रपत्न्यात्
द्युद्रिक्ता द्रागभद्राद्रहयतु दयिता पूर्वभीमाज्ञया ते ॥२५॥

याभ्यां शुश्रूषुरासी: कुरुकुलजनने क्षत्रविप्रोदिताभ्यां
ब्रह्मभ्यां बृंहिताभ्यां चितिसुखवपुषा कृष्णनामास्पदाभ्याम् ।
निर्भेदाभ्यां विशेषाद्द्विवचनविषयाभ्यामुभाभ्याममूभ्यां
तुभ्यं च क्षेमदेभ्य: सरसिजविलसल्लोचनेभ्यो नमोऽस्तु ॥२६॥

गच्छन् सौगंधिकार्थं पथि स हनुमत: पुच्छमच्छस्य भीम:
प्रोद्धर्तुं नाशकत् स त्वमुमुरुवपुषा भीषयामास चेति ।
पूर्णज्ञानौजसोस्ते गुरुतमवपुषो: श्रीमदानंदतीर्थ
क्रीडामात्रं तदेतत्प्रमदद सुधियां मोहक द्वेषभाजाम् ॥२७॥

बह्वी: कोटीरटीक: कुटिलकटुमतीनुत्कटाटोपकोपान्
द्राक् च त्वं सत्वरत्वाच्छरणद गदया पोथयामासिथारीन् ।
उन्मथ्यातथ्यमिथ्यात्ववचनवचनानुत्पथस्थांस्तथाऽन्यान्
प्रायच्छ: स्वप्रियायै प्रियतम कुसुमं प्राण तस्मै नमस्ते ॥२८॥

देहादुत्क्रामितानामधिपतिरसतामक्रमाद्वक्रबुद्धि:
क्रुद्ध: क्रोधैकवश्य: कृमिरिव मणिमान् दुष्कृती निष्क्रियार्थम् ।
चक्रे भूचक्रमेत्य क्रकचमिव सतां चेतस: कष्टशास्त्रं
दुस्तर्कं चक्रपाणेर्गुणगणविरहं जीवतां चाधिकृत्य ॥२९॥

तद्दुष्प्रेक्षानुसारात् कतिपयकुनरैरादृतोऽन्यैर्विसृष्टो
ब्रह्माऽहं निर्गुणोऽहं वितथमिदमिति ह्येष पाषंडवाद: ।
तद्युक्त्याभासजालप्रसरविषतरूद्दाहदक्षप्रमाण-
ज्वालामालाधरोऽग्नि: पवन विजयते तेऽवतारस्तृतीय: ॥३०॥

आक्रोशंतो निराशा भयभरविवशस्वाशयाश्छिन्नदर्पा
वाशंतो देशनाशस्त्विति बत कुधियां नाशमाशादशाशु ।
धावंतोऽश्लीलशीला वितथशपथशापाशिवा: शांतशौर्याः
त्वद्व्याख्यासिंहनादे सपदि ददृशिरे मायिगोमायवस्ते ॥३१॥

त्रिष्वप्येवावतारेष्वरिभिरपघृणं हिंसितो निर्विकार:
सर्वज्ञ: सर्वशक्ति: सकलगुणगणापूर्णरूपप्रगल्भ: ।
स्वच्छ: स्वच्छंदमृत्यु: सुखयसि सुजनं देव किं चित्रमत्र
त्राता यस्य त्रिधामा जगदुत वशगं किंकरा: शंकराद्या: ॥३२॥

उद्यन्मंदस्मितश्रीमृदुमधुमधुरालापपीयूषधारा-
पूरासेकोपशांतासुखसुजनमनोलोचनापीयमानम् ।
संद्रक्ष्ये सुंदरं संदुहदिह महदानंदमानंदतीर्थ
श्रीमद्वक्त्रेंदुबिंबं दुरितनुदुदितं नित्यदाऽहं कदा नु ॥३३॥

प्राचीनाचीर्णपुण्योच्चयचतुरतराचारतश्चारुचित्तान्
अत्युच्चां रोचयंतीं श्रुतिचितवचनांछ्रावकांश्चोद्यचंचून् ।
व्याख्यामुत्खातदु:खां चिरमुचितमहाचार्य चिंतारतांस्ते
चित्रां सच्छास्त्रकर्तश्चरणपरिचरान् श्रावयास्मांश्च किंचित् ॥३४॥

पीठे रत्नोपक्लृप्ते रुचिररुचिमणिज्योतिषा सन्निषण्णं
ब्रह्माणं भाविनं त्वां ज्वलति निजपदे वैदिकाद्या हि विद्या: ।
सेवंते मूर्तिमत्य: सुचरित चरितं भाति गंधर्वगीतं
प्रत्येकं देवसंसत्स्वपि तव भगवन् नर्तितद्योवधूषु ॥३५॥

सानुक्रोशैरजस्रं जनिमृतिनिरयाद्यूर्मिमालाविलेऽस्मिन्
संसाराब्धौ निमग्नान् शरणमशरणानिच्छतो वीक्ष्य जंतून् ।
युष्माभि: प्रार्थित: सन् जलनिधिशयन: सत्यवत्यां महर्षेः
व्यक्तश्चिन्मात्रमूर्तिर्न खलु भगवत: प्राकृतो जातु देह: ॥३६॥

अस्तव्यस्तं समस्तश्रुतिगतमधमै रत्नपूगं यथांऽधैः
अर्थं लोकोपकृत्यै गुणगणणनिलय: सूत्रयामास कृत्स्नम् ।
योऽसौ व्यासाभिधानस्तमहमहरहर्भक्तितस्त्वत्प्रसादात्
सद्यो विद्योपलब्ध्यै गुरुतममगुरुं देवदेवं नमामि ॥३७॥

आज्ञामन्यैरधार्यां शिरसि परिसरद्रश्मिकोटीरकोटौ
कृष्णस्याक्लिष्टकर्मा दधदनुसरणादर्थितो देवसंघै: ।
भूमावागत्य भूमन्नसुकरमकरोब्रह्मसूत्रस्य भाष्यं
दुर्भाष्यं व्यस्य दस्योर्मणिमत उदितं वेद सद्युक्तिभिस्त्वम् ॥३८॥

भूत्वा क्षेत्रे विशुद्धे द्विजगणनिलये रूप्यपीठाभिधाने
तत्रापि ब्रह्मजातिस्त्रिभुवनविशदे मध्यगेहाख्यगेहे ।
पारिव्राज्याधिराज: पुनरपि बदरीं प्राप्य कृष्णं च नत्वा
कृत्वा भाष्याणि सम्यग् व्यतनुत च भवान् भारतार्थप्रकाशम् ॥३९॥

वंदे तं त्वा सुपूर्णप्रमतिमनुदिनासेवितं देववृंदैः
वंदे वंदारुमीशे श्रिय उत नियतं श्रीमदानंदतीर्थम् ।
वंदे मंदाकिनीसत्सरिदमलजलासेकसाधिक्यसंगं
वंदेऽहं देव भक्त्या भवभयदहनं सज्जनान्मोदयंतम् ॥४०॥

सुब्रह्मण्याख्यसूरे: सुत इति सुभृशं केशवानंदतीर्थ-
श्रीमत्पादाब्जभक्त: स्तुतिमकृत हरेर्वायुदेवस्य चास्य ।
तत्पादार्चादरेण ग्रथितपदलसन्मालया त्वेतया ये
संराध्यामू नमंति प्रततमतिगुणा मुक्तिमेते व्रजंति ॥४१॥

पांत्वस्मान् पुरुहूतवैरिबलवन्मातंगमाद्यद्घटा-
कुंभोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिता: ।
श्रीमत्कंठीरवास्य प्रततसुनखरा दारितारातिदूर-
प्रध्वस्तध्वांतशांतप्रविततमनसा भाविता नाकिवृंदै: ॥१॥

लक्ष्मीकांत समंततो विकलयन्नैवेशितुस्ते समं
पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टम: ।
यद्रोषोत्करदक्षनेत्रकुटिलप्रांतोत्थिताग्निस्फुरत्-
खद्योतोपमविस्फुलिंगभसिता ब्रह्मेशशक्रोत्करा: ॥२॥

॥ इति श्रीत्रिविक्रमपंडिताचार्यविरचिता श्रीहरिवायुस्तुति: ॥

॥ ಅಥ ನರಸಿಂಹನಖಸ್ತುತಿ: ॥

ಪಾಂತ್ವಸ್ಮಾನ್ ಪುರುಹೂತವೈರಿಬಲವನ್ಮಾತಂಗಮಾದ್ಯದ್ಘಟಾ-
ಕುಂಭೋಚ್ಚಾದ್ರಿವಿಪಾಟನಾಧಿಕಪಟುಪ್ರತ್ಯೇಕವಜ್ರಾಯಿತಾ: ।
ಶ್ರೀಮತ್ಕಂಠೀರವಾಸ್ಯ ಪ್ರತತಸುನಖರಾ ದಾರಿತಾರಾತಿದೂರ-
ಪ್ರಧ್ವಸ್ತಧ್ವಾಂತಶಾಂತಪ್ರವಿತತಮನಸಾ ಭಾವಿತಾ ನಾಕಿವೃಂದೈ: ॥೧॥

ಲಕ್ಷ್ಮೀಕಾಂತ ಸಮಂತತೋ ವಿಕಲಯನ್ನೈವೇಶಿತುಸ್ತೇ ಸಮಂ
ಪಶ್ಯಾಮ್ಯುತ್ತಮವಸ್ತು ದೂರತರತೋಽಪಾಸ್ತಂ ರಸೋ ಯೋಽಷ್ಟಮ: ।
ಯದ್ರೋಷೋತ್ಕರದಕ್ಷನೇತ್ರಕುಟಿಲಪ್ರಾಂತೋತ್ಥಿತಾಗ್ನಿಸ್ಫುರತ್-
ಖದ್ಯೋತೋಪಮವಿಸ್ಫುಲಿಂಗಭಸಿತಾ ಬ್ರಹ್ಮೇಶಶಕ್ರೋತ್ಕರಾ: ॥೨॥

॥ ಇತಿ ಶ್ರೀಮದಾನಂದತೀರ್ಥಭಗವತ್ಪಾದಾಚಾರ್ಯವಿರಚಿತಾ ಶ್ರೀನರಸಿಂಹನಖಸ್ತುತಿ:॥

॥ ಅಥ ಶ್ರೀಹರಿವಾಯುಸ್ತುತಿ: ॥

ಶ್ರೀಮದ್ವಿಷ್ಣ್ವಂಘ್ರಿನಿಷ್ಠಾತಿಗುಣಗುರುತಮಶ್ರೀಮದಾನಂದತೀರ್ಥ-
ತ್ರೈಲೋಕ್ಯಾಚಾರ್ಯಪಾದೋಜ್ಜ್ವಲಜಲಜಲಸತ್ಪಾಂಸವೋಽಸ್ಮಾನ್ ಪುನಂತು ।
ವಾಚಾಂ ಯತ್ರ ಪ್ರಣೇತ್ರೀ ತ್ರಿಭುವನಮಹಿತಾ ಶಾರದಾ ಶಾರದೇಂದು-
ಜ್ಯೋತ್ಸ್ನಾಭದ್ರಸ್ಮಿತಶ್ರೀಧಲಿತಕಕುಭಾ ಪ್ರೇಮಭಾರಂ ಬಭಾರ ॥೧॥

ಉತ್ಕಂಠಾಕುಂಠಕೋಲಾಹಲಜವವಿದಿತಾಜಸ್ರಸೇವಾನುವೃದ್ಧ-
ಪ್ರಾಜ್ಞಾತ್ಮಜ್ಞಾನಧೂತಾಂಧತಮಸಸುಮನೋಮೌಲಿರತ್ನಾವಲೀನಾಮ್ ।
ಭಕ್ತ್ಯುದ್ರೇಕಾವಗಾಢಪ್ರಘಟನಸಘಟಾತ್ಕಾರಸಂಘೃಷ್ಯಮಾಣ-
ಪ್ರಾಂತಪ್ರಾಗ್ರ್ಯಾಂಘ್ರಿಪೀಠೋತ್ಥಿತಕನಕರಜ:ಪಿಂಜರಾರಂಜಿತಾಶಾ: ॥೨॥

ಜನ್ಮಾಧಿವ್ಯಾಧ್ಯುಪಾಧಿಪ್ರತಿಹತಿವಿರಹಪ್ರಾಪಕಾಣಾಂ ಗುಣಾನಾಂ
ಅಗ್ರ್ಯಾಣಾಮರ್ಪಕಾಣಾಂ ಚಿರಮುದಿತಚಿದಾನಂದಸಂದೋಹದಾನಾಮ್ ।
ಏತೇಷಾಮೇಷ ದೋಷಪ್ರಮುಷಿತಮನಸಾಂ ದ್ವೇಷಿಣಾಂ ದೂಷಕಾಣಾಂ
ದೈತ್ಯಾನಾಮಾರ್ತಿಮಂಧೇ ತಮಸಿ ವಿದಧತಾಂ ಸಂಸ್ತವೇ ನಾಸ್ಮಿ ಶಕ್ತ: ॥೩॥

ಅಸ್ಯಾವಿಷ್ಕರ್ತುಕಾಮಂ ಕಲಿಮಲಕಲುಷೇಽಸ್ಮಿನ್ ಜನೇ ಜ್ಞಾನಮಾರ್ಗಂ
ವಂದ್ಯಂ ಚಂದ್ರೇಂದ್ರರುದ್ರದ್ಯುಮಣಿಫಣಿವಯೋನಾಯಕಾದ್ಯೈರಿಹಾದ್ಯ ।
ಮಧ್ವಾಖ್ಯಂ ಮಂತ್ರಸಿದ್ಧಂ ಕಿಮುತ ಕೃತವತೋ ಮಾರುತಸ್ಯಾವತಾರಂ
ಪಾತಾರಂ ಪಾರಮೇಷ್ಠ್ಯಂ ಪದಮಪವಿಪದ: ಪ್ರಾಪ್ತುರಾಪನ್ನಪುಂಸಾಮ್ ॥೪॥

ಉದ್ಯದ್ವಿದ್ಯುತ್ಪ್ರಚಂಡಾಂ ನಿಜರುಚಿನಿಕರವ್ಯಾಪ್ತಲೋಕಾವಕಾಶೋ
ಬಿಭ್ರದ್ಭೀಮೋ ಭುಜೇ ಯೋಽಭ್ಯುದಿತದಿನಕರಾಭಾಂಗದಾಢ್ಯಪ್ರಕಾಂಡೇ ।
ವೀರ್ಯೋದ್ಧಾರ್ಯಾಂ ಗದಾಗ್ರ್ಯಾಮಯಮಿಹ ಸುಮತಿಂ ವಾಯುದೇವೋ ವಿದಧ್ಯಾತ್
ಅಧ್ಯಾತ್ಮಜ್ಞಾನನೇತಾ ಯತಿವರಮಹಿತೋ ಭೂಮಿಭೂಷಾಮಣಿರ್ಮೇ ॥೫॥

ಸಂಸಾರೋತ್ತಾಪನಿತ್ಯೋಪಶಮದಸದಯಸ್ನೇಹಹಾಸಾಂಬುಪೂರ-
ಪ್ರೋದ್ಯದ್ವಿದ್ಯಾನವದ್ಯದ್ಯುತಿಮಣಿಕಿರಣಶ್ರೇಣಿಸಂಪೂರಿತಾಶ: ।
ಶ್ರೀವತ್ಸಾಂಕಾಧಿವಾಸೋಚಿತತರಸರಲ: ಶ್ರೀಮದಾನಂದತೀರ್ಥ-
ಕ್ಷೀರಾಂಭೋಧಿರ್ವಿಭಿಂದ್ಯಾದ್ಭವದನಭಿಮತಂ ಭೂರಿ ಮೇ ಭೂತಿಹೇತು: ॥೬॥

ಮೂರ್ಧನ್ಯೇಷೋಂಽಜಲಿರ್ಮೇ ದೃಢತರಮಿಹ ತೇ ಬಧ್ಯತೇ ಬಂಧಪಾಶ-
ಚ್ಛೇತ್ರೇ ದಾತ್ರೇ ಸುಖಾನಾಂ ಭಜತಿ ಭುವಿ ಭವಿಷ್ಯದ್ವಿಧಾತ್ರೇ ದ್ಯುಭರ್ತ್ರೇ ।
ಅತ್ಯಂತಂ ಸಂತತಂ ತ್ವಂ ಪ್ರದಿಶ ಪದಯುಗೇ ಹಂತ ಸಂತಾಪಭಾಜಾಂ
ಅಸ್ಮಾಕಂ ಭಕ್ತಿಮೇಕಾಂ ಭಗವತ ಉತ ತೇ ಮಾಧವಸ್ಯಾಥ ವಾಯೋ: ॥೭॥

ಸಾಭ್ರೋಷ್ಣಾಭೀಶುಶುಭ್ರಪ್ರಭಮಭಯ ನಭೋ ಭೂರಿಭೂಭೃದ್ವಿಭೂತಿ-
ಭ್ರಾಜಿಷ್ಣುರ್ಭೂರ್ಋಭೂಣಾಂ ಭವನಮಪಿ ವಿಭೋಽಭೇದಿ ಬಭ್ರೇ ಬಭೂವೇ ।
ಯೇನ ಭ್ರೂವಿಭ್ರಮಸ್ತೇ ಭ್ರಮಯತು ಸುಭೃಶಂ ಬಭ್ರುವದ್ದುರ್ಭೃತಾಶಾನ್
ಭ್ರಾಂತಿರ್ಭೇದಾವಭಾಸಸ್ತ್ವಿತಿ ಭಯಮಭಿಭೂರ್ಭೋಕ್ಷ್ಯತೋ ಮಾಯಿಭಿಕ್ಷೂನ್ ॥೮॥

ಯೇಽಮುಂ ಭಾವಂ ಭಜಂತೇ ಸುರಮುಖಸುಜನಾರಾಧಿತಂ ತೇ ತೃತೀಯಂ
ಭಾಸಂತೇ ಭಾಸುರೈಸ್ತೇ ಸಹಚರಚಲಿತೈಶ್ಚಾಮರೈಶ್ಚಾರುವೇಷಾ: ।
ವೈಕುಂಠೇ ಕಂಠಲಗ್ನಾಸ್ಥಿರಶುಚಿವಿಲಸತ್ಕಾಂತಿತಾರುಣ್ಯಲೀಲಾ-
ಲಾವಣ್ಯಾಪೂರ್ಣಕಾಂತಾಕುಚಭರಸುಲಭಾಶ್ಲೇಷಸಂಮೋದಸಾಂದ್ರಾ: ॥೯॥

ಆನಂದಾನ್ ಮಂದಮಂದಾ ದದತಿ ಹಿ ಮರುತ: ಕುಂದಮಂದಾರನಂದ್ಯಾ-
ವರ್ತಾಮೋದಾನ್ ದಧಾನಾ ಮೃದುಪದಮುದಿತೋದ್ಗೀತಕೈ: ಸುಂದರೀಣಾಮ್ ।
ವೃಂದೈರಾವಂದ್ಯಮುಕ್ತೇಂದ್ವಹಿಮಗುಮದನಾಹೀಂದ್ರದೇವೇಂದ್ರಸೇವ್ಯೇ
ಮೌಕುಂದೇ ಮಂದಿರೇಽಸ್ಮಿನ್ನವಿರತಮುದಯನ್ ಮೋದಿನಾಂ ದೇವದೇವ ॥೧೦॥

ಉತ್ತಪ್ತಾತ್ಯುತ್ಕಟತ್ವಿಟ್ಪ್ರಕಟಕಟಕಟಧ್ವಾನಸಂಘಟ್ಟನೋದ್ಯತ್-
ವಿದ್ಯುದ್ವ್ಯೂಢಸ್ಫುಲಿಂಗಪ್ರಕರವಿಕಿರಣೋತ್ಕ್ವಾಥಿತೇ ಬಾಧಿತಾಂಗಾನ್ ।
ಉದ್ಗಾಢಂ ಪಾತ್ಯಮಾನಾ ತಮಸಿ ತತ ಇತ: ಕಿಂಕರೈ: ಪಂಕಿಲೇ ತೇ
ಪಂಕ್ತಿರ್ಗ್ರಾವ್ಣಾಂ ಗರಿಮ್ಣಾ ಗ್ಲಪಯತಿ ಹಿ ಭವದ್ದ್ವೇಷಿಣೋ ವಿದ್ವದಾದ್ಯ ॥೧೧॥

ಅಸ್ಮಿನ್ನಸ್ಮದ್ಗುರೂಣಾಂ ಹರಿಚರಣಚಿರಧ್ಯಾನಸನ್ಮಂಗಲಾನಾಂ
ಯುಷ್ಮಾಕಂ ಪಾರ್ಶ್ವಭೂಮಿಂ ಧೃತರಣರಣಿಕ: ಸ್ವರ್ಗಿಸೇವ್ಯಾಂ ಪ್ರಪನ್ನ: ।
ಯಸ್ತೂದಾಸ್ತೇ ಸ ಆಸ್ತೇಽಧಿಭವಮಸುಲಭಕ್ಲೇಶನಿರ್ಮೋಕಮಸ್ತ-
ಪ್ರಾಯಾನಂದಂ ಕಥಂಚಿನ್ನ ವಸತಿ ಸತತಂ ಪಂಚಕಷ್ಟೇಽತಿಕಷ್ಟೇ ॥೧೨॥

ಕ್ಷುತ್ಕ್ಷಾಮಾನ್ ರೂಕ್ಷರಕ್ಷೋರದಖರನಖರಕ್ಷುಣ್ಣವಿಕ್ಷೋಭಿತಾಕ್ಷಾನ್
ಆಮಗ್ನಾನಂಧಕೂಪೇ ಕ್ಷುರಮುಖಮುಖರೈ: ಪಕ್ಷಿಭಿರ್ವಿಕ್ಷತಾಂಗಾನ್ ।
ಪೂಯಾಸೃಙ್ಮೂತ್ರವಿಷ್ಠಾಕೃಮಿಕುಲಕಲಿಲೇ ತತ್ಕ್ಷಣಾಕ್ಷಿಪ್ತಶಕ್ತ್ಯಾ-
ದ್ಯಸ್ತ್ರವ್ರಾತಾರ್ದಿತಾಂಸ್ತ್ವದ್ದ್ವಿಷ ಉಪಜಿಹತೇ ವಜ್ರಕಲ್ಪಾ ಜಲೂಕಾ: ॥೧೩॥

ಮಾತರ್ಮೇ ಮಾತರಿಶ್ವನ್ ಪಿತರತುಲಗುರೋ ಭ್ರಾತರಿಷ್ಟಾಪ್ತಬಂಧೋ
ಸ್ವಾಮಿನ್ ಸರ್ವಾಂತರಾತ್ಮನ್ನಜರ ಜರಯಿತರ್ಜನ್ಮಮೃತ್ಯಾಮಯಾನಾಮ್ ।
ಗೋವಿಂದೇ ದೇಹಿ ಭಕ್ತಿಂ ಭವತಿ ಚ ಭಗವನ್ನೂರ್ಜಿತಾಂ ನಿರ್ನಿಮಿತ್ತಾಂ
ನಿರ್ವ್ಯಾಜಾಂ ನಿಶ್ಚಲಾಂ ಸದ್ಗುಣಗಣಬೃಹತೀಂ ಶಾಶ್ವತೀಮಾಶು ದೇವ ॥೧೪॥

ವಿಷ್ಣೋರತ್ಯುತ್ತಮತ್ವಾದಖಿಲಗುಣಗಣೈಸ್ತತ್ರ ಭಕ್ತಿಂ ಗರಿಷ್ಠಾಂ
ಸಂಶ್ಲಿಷ್ಟೇ ಶ್ರೀಧರಾಭ್ಯಾಮಮುಮಥ ಪರಿವಾರಾತ್ಮನಾ ಸೇವಕೇಷು ।
ಯ: ಸಂಧತ್ತೇ ವಿರಿಂಚಿಶ್ವಸನವಿಹಗಪಾನಂತರುದ್ರೇಂದ್ರಪೂರ್ವೇ-
ಷ್ವಾಧ್ಯಾಯಂಸ್ತಾರತಮ್ಯಂ ಸ್ಫುಟಮವತಿ ಸದಾ ವಾಯುರಸ್ಮದ್ಗುರುಸ್ತಮ್ ॥೧೫॥

ತತ್ತ್ವಜ್ಞಾನ್ ಮುಕ್ತಿಭಾಜ: ಸುಖಯಸಿ ಹಿ ಗುರೋ ಯೋಗ್ಯತಾತಾರತಮ್ಯಾ-
ದಾಧತ್ಸೇ ಮಿಶ್ರಬುದ್ಧೀಂಸ್ತ್ರಿದಿವನಿರಯಭೂಗೋಚರಾನ್ ನಿತ್ಯಬದ್ಧಾನ್ ।
ತಾಮಿಸ್ರಾಂಧಾದಿಕಾಖ್ಯೇ ತಮಸಿ ಸುಬಹುಲಂ ದು:ಖಯಸ್ಯನ್ಯಥಾಜ್ಞಾನ್
ವಿಷ್ಣೋರಾಜ್ಞಾಭಿರಿತ್ಥಂ ಶ್ರುತಿಶತಮಿತಿಹಾಸಾದಿ ಚಾಽಕರ್ಣಯಾಮ: ॥೧೬॥

ವಂದೇಽಹಂ ತಂ ಹನೂಮಾನಿತಿ ಮಹಿತಮಹಾಪೌರುಷೋ ಬಾಹುಶಾಲೀ
ಖ್ಯಾತಸ್ತೇಽಗ್ರ್ಯೋಽವತಾರ: ಸಹಿತ ಇಹ ಬಹುಬ್ರಹ್ಮಚರ್ಯಾದಿಧರ್ಮೈ: ।
ಸಸ್ನೇಹಾನಾಂ ಸಹಸ್ವಾನಹರಹರಹಿತಂ ನಿರ್ದಹನ್ ದೇಹಭಾಜಾಂ
ಅಂಹೋಮೋಹಾಪಹೋ ಯ: ಸ್ಪೃಹಯತಿ ಮಹತೀಂ ಭಕ್ತಿಮದ್ಯಾಪಿ ರಾಮೇ ॥೧೭॥

ಪ್ರಾಕ್ಪಂಚಾಶತ್ಸಹಸ್ರೈರ್ವ್ಯವಹಿತಮಮಿತಂ ಯೋಜನೈ: ಪರ್ವತಂ ತ್ವಂ
ಯಾವತ್ಸಂಜೀವನಾದ್ಯೌಷಧನಿಧಿಮಧಿಕ ಪ್ರಾಣ ಲಂಕಾಮನೈಷೀ: ।
ಅದ್ರಾಕ್ಷೀದುತ್ಪತಂತಂ ತತ ಉತ ಗಿರಿಮುತ್ಪಾಟಯಂತಂ ಗೃಹೀತ್ವಾಽಽ-
ಯಾಂತಂ ಖೇ ರಾಘವಾಂಘ್ರೌ ಪ್ರಣತಮಪಿ ತದೈಕಕ್ಷಣೇ ತ್ವಾಂ ಹಿ ಲೋಕ: ॥೧೮॥

ಕ್ಷಿಪ್ತ: ಪಶ್ಚಾತ್ ಸಲೀಲಂ ಶತಮತುಲಮತೇ ಯೋಜನಾನಾಂ ಸ ಉಚ್ಚಃ
ತಾವದ್ವಿಸ್ತಾರವಾಂಶ್ಚಾಪ್ಯುಪಲಲವ ಇವ ವ್ಯಗ್ರಬುಧ್ದ್ಯಾ ತ್ವಯಾಽತ: ।
ಸ್ವಸ್ವಸ್ಥಾನಸ್ಥಿತಾತಿಸ್ಥಿರಶಕಲಶಿಲಾಜಾಲಸಂಶ್ಲೇಷನಷ್ಟ-
ಚ್ಛೇದಾಂಕ: ಪ್ರಾಗಿವಾಭೂತ್ ಕಪಿವರವಪುಷಸ್ತೇ ನಮ: ಕೌಶಲಾಯ ॥೧೯॥

ದೃಷ್ಟ್ವಾ ದುಷ್ಟಾಧಿಪೋರ: ಸ್ಫುಟಿತಕನಕಸದ್ವರ್ಮಘೃಷ್ಟಾಸ್ಥಿಕೂಟಂ
ನಿಷ್ಪಿಷ್ಟಂ ಹಾಟಕಾದ್ರಿಪ್ರಕಟತಟತಟಾಕಾತಿಶಂಕೋ ಜನೋಽಭೂತ್ ।
ಯೇನಾಽಜೌ ರಾವಣಾರಿಪ್ರಿಯನಟನಪಟುರ್ಮುಷ್ಟಿರಿಷ್ಟಂ ಪ್ರದೇಷ್ಟುಂ
ಕಿಂ ನೇಷ್ಟೇ ಮೇ ಸ ತೇಽಷ್ಟಾಪದಕಟಕತಟಿತ್ಕೋಟಿಭಾಮೃಷ್ಟಕಾಷ್ಠ: ॥೨೦॥

ದೇವ್ಯಾದೇಶಪ್ರಣೀತಿದ್ರುಹಿಣಹರವರಾವಧ್ಯರಕ್ಷೋವಿಘಾತಾ-
ದ್ಯಾಸೇವ್ಯೋದ್ಯದ್ದಯಾರ್ದ್ರ: ಸಹಭುಜಮಕರೋದ್ರಾಮನಾಮಾ ಮುಕುಂದ: ।
ದುಷ್ಪ್ರಾಪೇ ಪಾರಮೇಷ್ಠ್ಯೇ ಕರತಲಮತುಲಂ ಮೂರ್ಧ್ನಿ ವಿನ್ಯಸ್ಯ ಧನ್ಯಂ
ತನ್ವನ್ ಭೂಯ: ಪ್ರಭೂತಪ್ರಣಯವಿಕಸಿತಾಬ್ಜೇಕ್ಷಣಸ್ತ್ವೇಕ್ಷಮಾಣ: ॥೨೧॥

ಜಘ್ನೇ ನಿಘ್ನೇನ ವಿಘ್ನೋ ಬಹುಲಬಲಬಕಧ್ವಂಸನಾದ್ಯೇನ ಶೋಚತ್
ವಿಪ್ರಾನುಕ್ರೋಶಪಾಶೈರಸುವಿಧೃತಿಸುಖಸ್ಯೈಕಚಕ್ರಾಜನಾನಾಮ್ ।
ತಸ್ಮೈ ತೇ ದೇವ ಕುರ್ಮ: ಕುರುಕುಲಪತಯೇ ಕರ್ಮಣಾ ಚ ಪ್ರಣಾಮಾನ್
ಕಿರ್ಮೀರಂ ದುರ್ಮತೀನಾಂ ಪ್ರಥಮಮಥ ಚ ಯೋ ನರ್ಮಣಾ ನಿರ್ಮಮಾಥ ॥೨೨॥

ನಿರ್ಮೃದ್ನನ್ನತ್ಯಯತ್ನಂ ವಿಜರವರ ಜರಾಸಂಧಕಾಯಾಸ್ಥಿಸಂಧೀನ್
ಯುದ್ಧೇ ತ್ವಂ ಸ್ವಧ್ವರೇ ವಾ ಪಶುಮಿವ ದಮಯನ್ ವಿಷ್ಣುಪಕ್ಷದ್ವಿಡೀಶಮ್ ।
ಯಾವತ್ ಪ್ರತ್ಯಕ್ಷಭೂತಂ ನಿಖಿಲಮಖಭುಜಂ ತರ್ಪಯಾಮಾಸಿಥಾಸೌ
ತಾವತ್ಯಾಽಯೋಜಿ ತೃಪ್ತ್ಯಾ ಕಿಮು ವದ ಭಗವನ್ ರಾಜಸೂಯಾಶ್ವಮೇಧೇ ॥೨೩॥

ಕ್ಷ್ವೇಲಾಕ್ಷೀಣಾಟ್ಟಹಾಸಂ ತವ ರಣಮರಿಹನ್ನುದ್ಗದೋದ್ದಾಮಬಾಹೋ
ಬಹ್ವಕ್ಷೌಹಿಣ್ಯನೀಕಕ್ಷಪಣಸುನಿಪುಣಂ ಯಸ್ಯ ಸರ್ವೋತ್ತಮಸ್ಯ ।
ಶುಶ್ರೂಷಾರ್ಥಂ ಚಕರ್ಥ ಸ್ವಯಮಯಮಥ ಸಂವಕ್ತುಮಾನಂದತೀರ್ಥ-
ಶ್ರೀಮನ್ನಾಮನ್ ಸಮರ್ಥಸ್ತ್ವಮಪಿ ಹಿ ಯುವಯೋ: ಪಾದಪದ್ಮಂ ಪ್ರಪದ್ಯೇ ॥೨೪॥

ದ್ರುಹ್ಯಂತೀಂ ಹೃದ್ರುಹಂ ಮಾಂ ದ್ರುತಮನಿಲಬಲಾದ್ದ್ರಾವಯಂತೀಮವಿದ್ಯಾ-
ನಿದ್ರಾಂ ವಿದ್ರಾವ್ಯ ಸದ್ಯೋರಚನಪಟುಮಥಾಽಪಾದ್ಯ ವಿದ್ಯಾಸಮುದ್ರ ।
ವಾಗ್ದೇವೀ ಸಾ ಸುವಿದ್ಯಾದ್ರವಿಣದವಿದಿತಾ ದ್ರೌಪದೀ ರುದ್ರಪತ್ನ್ಯಾತ್
ದ್ಯುದ್ರಿಕ್ತಾ ದ್ರಾಗಭದ್ರಾದ್ರಹಯತು ದಯಿತಾ ಪೂರ್ವಭೀಮಾಜ್ಞಯಾ ತೇ ॥೨೫॥

ಯಾಭ್ಯಾಂ ಶುಶ್ರೂಷುರಾಸೀ: ಕುರುಕುಲಜನನೇ ಕ್ಷತ್ರವಿಪ್ರೋದಿತಾಭ್ಯಾಂ
ಬ್ರಹ್ಮಭ್ಯಾಂ ಬೃಂಹಿತಾಭ್ಯಾಂ ಚಿತಿಸುಖವಪುಷಾ ಕೃಷ್ಣನಾಮಾಸ್ಪದಾಭ್ಯಾಮ್ ।
ನಿರ್ಭೇದಾಭ್ಯಾಂ ವಿಶೇಷಾದ್ದ್ವಿವಚನವಿಷಯಾಭ್ಯಾಮುಭಾಭ್ಯಾಮಮೂಭ್ಯಾಂ
ತುಭ್ಯಂ ಚ ಕ್ಷೇಮದೇಭ್ಯ: ಸರಸಿಜವಿಲಸಲ್ಲೋಚನೇಭ್ಯೋ ನಮೋಽಸ್ತು ॥೨೬॥

ಗಚ್ಛನ್ ಸೌಗಂಧಿಕಾರ್ಥಂ ಪಥಿ ಸ ಹನುಮತ: ಪುಚ್ಛಮಚ್ಛಸ್ಯ ಭೀಮ:
ಪ್ರೋದ್ಧರ್ತುಂ ನಾಶಕತ್ ಸ ತ್ವಮುಮುರುವಪುಷಾ ಭೀಷಯಾಮಾಸ ಚೇತಿ ।
ಪೂರ್ಣಜ್ಞಾನೌಜಸೋಸ್ತೇ ಗುರುತಮವಪುಷೋ: ಶ್ರೀಮದಾನಂದತೀರ್ಥ
ಕ್ರೀಡಾಮಾತ್ರಂ ತದೇತತ್ಪ್ರಮದದ ಸುಧಿಯಾಂ ಮೋಹಕ ದ್ವೇಷಭಾಜಾಮ್ ॥೨೭॥

ಬಹ್ವೀ: ಕೋಟೀರಟೀಕ: ಕುಟಿಲಕಟುಮತೀನುತ್ಕಟಾಟೋಪಕೋಪಾನ್
ದ್ರಾಕ್ ಚ ತ್ವಂ ಸತ್ವರತ್ವಾಚ್ಛರಣದ ಗದಯಾ ಪೋಥಯಾಮಾಸಿಥಾರೀನ್ ।
ಉನ್ಮಥ್ಯಾತಥ್ಯಮಿಥ್ಯಾತ್ವವಚನವಚನಾನುತ್ಪಥಸ್ಥಾಂಸ್ತಥಾಽನ್ಯಾನ್
ಪ್ರಾಯಚ್ಛ: ಸ್ವಪ್ರಿಯಾಯೈ ಪ್ರಿಯತಮ ಕುಸುಮಂ ಪ್ರಾಣ ತಸ್ಮೈ ನಮಸ್ತೇ ॥೨೮॥

ದೇಹಾದುತ್ಕ್ರಾಮಿತಾನಾಮಧಿಪತಿರಸತಾಮಕ್ರಮಾದ್ವಕ್ರಬುದ್ಧಿ:
ಕ್ರುದ್ಧ: ಕ್ರೋಧೈಕವಶ್ಯ: ಕೃಮಿರಿವ ಮಣಿಮಾನ್ ದುಷ್ಕೃತೀ ನಿಷ್ಕ್ರಿಯಾರ್ಥಮ್ ।
ಚಕ್ರೇ ಭೂಚಕ್ರಮೇತ್ಯ ಕ್ರಕಚಮಿವ ಸತಾಂ ಚೇತಸ: ಕಷ್ಟಶಾಸ್ತ್ರಂ
ದುಸ್ತರ್ಕಂ ಚಕ್ರಪಾಣೇರ್ಗುಣಗಣವಿರಹಂ ಜೀವತಾಂ ಚಾಧಿಕೃತ್ಯ ॥೨೯॥

ತದ್ದುಷ್ಪ್ರೇಕ್ಷಾನುಸಾರಾತ್ ಕತಿಪಯಕುನರೈರಾದೃತೋಽನ್ಯೈರ್ವಿಸೃಷ್ಟೋ
ಬ್ರಹ್ಮಾಽಹಂ ನಿರ್ಗುಣೋಽಹಂ ವಿತಥಮಿದಮಿತಿ ಹ್ಯೇಷ ಪಾಷಂಡವಾದ: ।
ತದ್ಯುಕ್ತ್ಯಾಭಾಸಜಾಲಪ್ರಸರವಿಷತರೂದ್ದಾಹದಕ್ಷಪ್ರಮಾಣ-
ಜ್ವಾಲಾಮಾಲಾಧರೋಽಗ್ನಿ: ಪವನ ವಿಜಯತೇ ತೇಽವತಾರಸ್ತೃತೀಯ: ॥೩೦॥

ಆಕ್ರೋಶಂತೋ ನಿರಾಶಾ ಭಯಭರವಿವಶಸ್ವಾಶಯಾಶ್ಛಿನ್ನದರ್ಪಾ
ವಾಶಂತೋ ದೇಶನಾಶಸ್ತ್ವಿತಿ ಬತ ಕುಧಿಯಾಂ ನಾಶಮಾಶಾದಶಾಶು ।
ಧಾವಂತೋಽಶ್ಲೀಲಶೀಲಾ ವಿತಥಶಪಥಶಾಪಾಶಿವಾ: ಶಾಂತಶೌರ್ಯಾಃ
ತ್ವದ್ವ್ಯಾಖ್ಯಾಸಿಂಹನಾದೇ ಸಪದಿ ದದೃಶಿರೇ ಮಾಯಿಗೋಮಾಯವಸ್ತೇ ॥೩೧॥

ತ್ರಿಷ್ವಪ್ಯೇವಾವತಾರೇಷ್ವರಿಭಿರಪಘೃಣಂ ಹಿಂಸಿತೋ ನಿರ್ವಿಕಾರ:
ಸರ್ವಜ್ಞ: ಸರ್ವಶಕ್ತಿ: ಸಕಲಗುಣಗಣಾಪೂರ್ಣರೂಪಪ್ರಗಲ್ಭ: ।
ಸ್ವಚ್ಛ: ಸ್ವಚ್ಛಂದಮೃತ್ಯು: ಸುಖಯಸಿ ಸುಜನಂ ದೇವ ಕಿಂ ಚಿತ್ರಮತ್ರ
ತ್ರಾತಾ ಯಸ್ಯ ತ್ರಿಧಾಮಾ ಜಗದುತ ವಶಗಂ ಕಿಂಕರಾ: ಶಂಕರಾದ್ಯಾ: ॥೩೨॥

ಉದ್ಯನ್ಮಂದಸ್ಮಿತಶ್ರೀಮೃದುಮಧುಮಧುರಾಲಾಪಪೀಯೂಷಧಾರಾ-
ಪೂರಾಸೇಕೋಪಶಾಂತಾಸುಖಸುಜನಮನೋಲೋಚನಾಪೀಯಮಾನಮ್ ।
ಸಂದ್ರಕ್ಷ್ಯೇ ಸುಂದರಂ ಸಂದುಹದಿಹ ಮಹದಾನಂದಮಾನಂದತೀರ್ಥ
ಶ್ರೀಮದ್ವಕ್ತ್ರೇಂದುಬಿಂಬಂ ದುರಿತನುದುದಿತಂ ನಿತ್ಯದಾಽಹಂ ಕದಾ ನು ॥೩೩॥

ಪ್ರಾಚೀನಾಚೀರ್ಣಪುಣ್ಯೋಚ್ಚಯಚತುರತರಾಚಾರತಶ್ಚಾರುಚಿತ್ತಾನ್
ಅತ್ಯುಚ್ಚಾಂ ರೋಚಯಂತೀಂ ಶ್ರುತಿಚಿತವಚನಾಂಛ್ರಾವಕಾಂಶ್ಚೋದ್ಯಚಂಚೂನ್ ।
ವ್ಯಾಖ್ಯಾಮುತ್ಖಾತದು:ಖಾಂ ಚಿರಮುಚಿತಮಹಾಚಾರ್ಯ ಚಿಂತಾರತಾಂಸ್ತೇ
ಚಿತ್ರಾಂ ಸಚ್ಛಾಸ್ತ್ರಕರ್ತಶ್ಚರಣಪರಿಚರಾನ್ ಶ್ರಾವಯಾಸ್ಮಾಂಶ್ಚ ಕಿಂಚಿತ್ ॥೩೪॥

ಪೀಠೇ ರತ್ನೋಪಕ್ಲೃಪ್ತೇ ರುಚಿರರುಚಿಮಣಿಜ್ಯೋತಿಷಾ ಸನ್ನಿಷಣ್ಣಂ
ಬ್ರಹ್ಮಾಣಂ ಭಾವಿನಂ ತ್ವಾಂ ಜ್ವಲತಿ ನಿಜಪದೇ ವೈದಿಕಾದ್ಯಾ ಹಿ ವಿದ್ಯಾ: ।
ಸೇವಂತೇ ಮೂರ್ತಿಮತ್ಯ: ಸುಚರಿತ ಚರಿತಂ ಭಾತಿ ಗಂಧರ್ವಗೀತಂ
ಪ್ರತ್ಯೇಕಂ ದೇವಸಂಸತ್ಸ್ವಪಿ ತವ ಭಗವನ್ ನರ್ತಿತದ್ಯೋವಧೂಷು ॥೩೫॥

ಸಾನುಕ್ರೋಶೈರಜಸ್ರಂ ಜನಿಮೃತಿನಿರಯಾದ್ಯೂರ್ಮಿಮಾಲಾವಿಲೇಽಸ್ಮಿನ್
ಸಂಸಾರಾಬ್ಧೌ ನಿಮಗ್ನಾನ್ ಶರಣಮಶರಣಾನಿಚ್ಛತೋ ವೀಕ್ಷ್ಯ ಜಂತೂನ್ ।
ಯುಷ್ಮಾಭಿ: ಪ್ರಾರ್ಥಿತ: ಸನ್ ಜಲನಿಧಿಶಯನ: ಸತ್ಯವತ್ಯಾಂ ಮಹರ್ಷೇಃ
ವ್ಯಕ್ತಶ್ಚಿನ್ಮಾತ್ರಮೂರ್ತಿರ್ನ ಖಲು ಭಗವತ: ಪ್ರಾಕೃತೋ ಜಾತು ದೇಹ: ॥೩೬॥

ಅಸ್ತವ್ಯಸ್ತಂ ಸಮಸ್ತಶ್ರುತಿಗತಮಧಮೈ ರತ್ನಪೂಗಂ ಯಥಾಂಽಧೈಃ
ಅರ್ಥಂ ಲೋಕೋಪಕೃತ್ಯೈ ಗುಣಗಣಣನಿಲಯ: ಸೂತ್ರಯಾಮಾಸ ಕೃತ್ಸ್ನಮ್ ।
ಯೋಽಸೌ ವ್ಯಾಸಾಭಿಧಾನಸ್ತಮಹಮಹರಹರ್ಭಕ್ತಿತಸ್ತ್ವತ್ಪ್ರಸಾದಾತ್
ಸದ್ಯೋ ವಿದ್ಯೋಪಲಬ್ಧ್ಯೈ ಗುರುತಮಮಗುರುಂ ದೇವದೇವಂ ನಮಾಮಿ ॥೩೭॥

ಆಜ್ಞಾಮನ್ಯೈರಧಾರ್ಯಾಂ ಶಿರಸಿ ಪರಿಸರದ್ರಶ್ಮಿಕೋಟೀರಕೋಟೌ
ಕೃಷ್ಣಸ್ಯಾಕ್ಲಿಷ್ಟಕರ್ಮಾ ದಧದನುಸರಣಾದರ್ಥಿತೋ ದೇವಸಂಘೈ: ।
ಭೂಮಾವಾಗತ್ಯ ಭೂಮನ್ನಸುಕರಮಕರೋಬ್ರಹ್ಮಸೂತ್ರಸ್ಯ ಭಾಷ್ಯಂ
ದುರ್ಭಾಷ್ಯಂ ವ್ಯಸ್ಯ ದಸ್ಯೋರ್ಮಣಿಮತ ಉದಿತಂ ವೇದ ಸದ್ಯುಕ್ತಿಭಿಸ್ತ್ವಮ್ ॥೩೮॥

ಭೂತ್ವಾ ಕ್ಷೇತ್ರೇ ವಿಶುದ್ಧೇ ದ್ವಿಜಗಣನಿಲಯೇ ರೂಪ್ಯಪೀಠಾಭಿಧಾನೇ
ತತ್ರಾಪಿ ಬ್ರಹ್ಮಜಾತಿಸ್ತ್ರಿಭುವನವಿಶದೇ ಮಧ್ಯಗೇಹಾಖ್ಯಗೇಹೇ ।
ಪಾರಿವ್ರಾಜ್ಯಾಧಿರಾಜ: ಪುನರಪಿ ಬದರೀಂ ಪ್ರಾಪ್ಯ ಕೃಷ್ಣಂ ಚ ನತ್ವಾ
ಕೃತ್ವಾ ಭಾಷ್ಯಾಣಿ ಸಮ್ಯಗ್ ವ್ಯತನುತ ಚ ಭವಾನ್ ಭಾರತಾರ್ಥಪ್ರಕಾಶಮ್
॥೩೯॥

ವಂದೇ ತಂ ತ್ವಾ ಸುಪೂರ್ಣಪ್ರಮತಿಮನುದಿನಾಸೇವಿತಂ ದೇವವೃಂದೈಃ
ವಂದೇ ವಂದಾರುಮೀಶೇ ಶ್ರಿಯ ಉತ ನಿಯತಂ ಶ್ರೀಮದಾನಂದತೀರ್ಥಮ್ ।
ವಂದೇ ಮಂದಾಕಿನೀಸತ್ಸರಿದಮಲಜಲಾಸೇಕಸಾಧಿಕ್ಯಸಂಗಂ
ವಂದೇಽಹಂ ದೇವ ಭಕ್ತ್ಯಾ ಭವಭಯದಹನಂ ಸಜ್ಜನಾನ್ಮೋದಯಂತಮ್ ॥೪೦॥

ಸುಬ್ರಹ್ಮಣ್ಯಾಖ್ಯಸೂರೇ: ಸುತ ಇತಿ ಸುಭೃಶಂ ಕೇಶವಾನಂದತೀರ್ಥ-
ಶ್ರೀಮತ್ಪಾದಾಬ್ಜಭಕ್ತ: ಸ್ತುತಿಮಕೃತ ಹರೇರ್ವಾಯುದೇವಸ್ಯ ಚಾಸ್ಯ ।
ತತ್ಪಾದಾರ್ಚಾದರೇಣ ಗ್ರಥಿತಪದಲಸನ್ಮಾಲಯಾ ತ್ವೇತಯಾ ಯೇ
ಸಂರಾಧ್ಯಾಮೂ ನಮಂತಿ ಪ್ರತತಮತಿಗುಣಾ ಮುಕ್ತಿಮೇತೇ ವ್ರಜಂತಿ ॥೪೧॥

ಪಾಂತ್ವಸ್ಮಾನ್ ಪುರುಹೂತವೈರಿಬಲವನ್ಮಾತಂಗಮಾದ್ಯದ್ಘಟಾ-
ಕುಂಭೋಚ್ಚಾದ್ರಿವಿಪಾಟನಾಧಿಕಪಟುಪ್ರತ್ಯೇಕವಜ್ರಾಯಿತಾ: ।
ಶ್ರೀಮತ್ಕಂಠೀರವಾಸ್ಯ ಪ್ರತತಸುನಖರಾ ದಾರಿತಾರಾತಿದೂರ-
ಪ್ರಧ್ವಸ್ತಧ್ವಾಂತಶಾಂತಪ್ರವಿತತಮನಸಾ ಭಾವಿತಾ ನಾಕಿವೃಂದೈ: ॥೧॥

ಲಕ್ಷ್ಮೀಕಾಂತ ಸಮಂತತೋ ವಿಕಲಯನ್ನೈವೇಶಿತುಸ್ತೇ ಸಮಂ
ಪಶ್ಯಾಮ್ಯುತ್ತಮವಸ್ತು ದೂರತರತೋಽಪಾಸ್ತಂ ರಸೋ ಯೋಽಷ್ಟಮ: ।
ಯದ್ರೋಷೋತ್ಕರದಕ್ಷನೇತ್ರಕುಟಿಲಪ್ರಾಂತೋತ್ಥಿತಾಗ್ನಿಸ್ಫುರತ್-
ಖದ್ಯೋತೋಪಮವಿಸ್ಫುಲಿಂಗಭಸಿತಾ ಬ್ರಹ್ಮೇಶಶಕ್ರೋತ್ಕರಾ: ॥೨॥

॥ ಇತಿ ಶ್ರೀತ್ರಿವಿಕ್ರಮಪಂಡಿತಾಚಾರ್ಯವಿರಚಿತಾ ಶ್ರೀಹರಿವಾಯುಸ್ತುತಿ: ॥

॥ అథ నరసింహనఖస్తుతి: ॥

పాంత్వస్మాన్ పురుహూతవైరిబలవన్మాతంగమాద్యద్ఘటా-
కుంభోచ్చాద్రివిపాటనాధికపటుప్రత్యేకవజ్రాయితా: ।
శ్రీమత్కంఠీరవాస్య ప్రతతసునఖరా దారితారాతిదూర-
ప్రధ్వస్తధ్వాంతశాంతప్రవితతమనసా భావితా నాకివృందై: ॥౧॥

లక్ష్మీకాంత సమంతతో వికలయన్నైవేశితుస్తే సమం
పశ్యామ్యుత్తమవస్తు దూరతరతోఽపాస్తం రసో యోఽష్టమ: ।
యద్రోషోత్కరదక్షనేత్రకుటిలప్రాంతోత్థితాగ్నిస్ఫురత్-
ఖద్యోతోపమవిస్ఫులింగభసితా బ్రహ్మేశశక్రోత్కరా: ॥౨॥

॥ ఇతి శ్రీమదానందతీర్థభగవత్పాదాచార్యవిరచితా శ్రీనరసింహనఖస్తుతి:॥

॥ అథ శ్రీహరివాయుస్తుతి: ॥

శ్రీమద్విష్ణ్వంఘ్రినిష్ఠాతిగుణగురుతమశ్రీమదానందతీర్థ-
త్రైలోక్యాచార్యపాదోజ్జ్వలజలజలసత్పాంసవోఽస్మాన్ పునంతు ।
వాచాం యత్ర ప్రణేత్రీ త్రిభువనమహితా శారదా శారదేందు-
జ్యోత్స్నాభద్రస్మితశ్రీధలితకకుభా ప్రేమభారం బభార ॥౧॥

ఉత్కంఠాకుంఠకోలాహలజవవిదితాజస్రసేవానువృద్ధ-
ప్రాజ్ఞాత్మజ్ఞానధూతాంధతమససుమనోమౌలిరత్నావలీనామ్ ।
భక్త్యుద్రేకావగాఢప్రఘటనసఘటాత్కారసంఘృష్యమాణ-
ప్రాంతప్రాగ్ర్యాంఘ్రిపీఠోత్థితకనకరజ:పింజరారంజితాశా: ॥౨॥

జన్మాధివ్యాధ్యుపాధిప్రతిహతివిరహప్రాపకాణాం గుణానాం
అగ్ర్యాణామర్పకాణాం చిరముదితచిదానందసందోహదానామ్ ।
ఏతేషామేష దోషప్రముషితమనసాం ద్వేషిణాం దూషకాణాం
దైత్యానామార్తిమంధే తమసి విదధతాం సంస్తవే నాస్మి శక్త: ॥౩॥

అస్యావిష్కర్తుకామం కలిమలకలుషేఽస్మిన్ జనే జ్ఞానమార్గం
వంద్యం చంద్రేంద్రరుద్రద్యుమణిఫణివయోనాయకాద్యైరిహాద్య ।
మధ్వాఖ్యం మంత్రసిద్ధం కిముత కృతవతో మారుతస్యావతారం
పాతారం పారమేష్ఠ్యం పదమపవిపద: ప్రాప్తురాపన్నపుంసామ్ ॥౪॥

ఉద్యద్విద్యుత్ప్రచండాం నిజరుచినికరవ్యాప్తలోకావకాశో
బిభ్రద్భీమో భుజే యోఽభ్యుదితదినకరాభాంగదాఢ్యప్రకాండే ।
వీర్యోద్ధార్యాం గదాగ్ర్యామయమిహ సుమతిం వాయుదేవో విదధ్యాత్
అధ్యాత్మజ్ఞాననేతా యతివరమహితో భూమిభూషామణిర్మే ॥౫॥

సంసారోత్తాపనిత్యోపశమదసదయస్నేహహాసాంబుపూర-
ప్రోద్యద్విద్యానవద్యద్యుతిమణికిరణశ్రేణిసంపూరితాశ: ।
శ్రీవత్సాంకాధివాసోచితతరసరల: శ్రీమదానందతీర్థ-
క్షీరాంభోధిర్విభింద్యాద్భవదనభిమతం భూరి మే భూతిహేతు: ॥౬॥

మూర్ధన్యేషోంఽజలిర్మే దృఢతరమిహ తే బధ్యతే బంధపాశ-
చ్ఛేత్రే దాత్రే సుఖానాం భజతి భువి భవిష్యద్విధాత్రే ద్యుభర్త్రే ।
అత్యంతం సంతతం త్వం ప్రదిశ పదయుగే హంత సంతాపభాజాం
అస్మాకం భక్తిమేకాం భగవత ఉత తే మాధవస్యాథ వాయో: ॥౭॥

సాభ్రోష్ణాభీశుశుభ్రప్రభమభయ నభో భూరిభూభృద్విభూతి-
భ్రాజిష్ణుర్భూర్ఋభూణాం భవనమపి విభోఽభేది బభ్రే బభూవే ।
యేన భ్రూవిభ్రమస్తే భ్రమయతు సుభృశం బభ్రువద్దుర్భృతాశాన్
భ్రాంతిర్భేదావభాసస్త్వితి భయమభిభూర్భోక్ష్యతో మాయిభిక్షూన్ ॥౮॥

యేఽముం భావం భజంతే సురముఖసుజనారాధితం తే తృతీయం
భాసంతే భాసురైస్తే సహచరచలితైశ్చామరైశ్చారువేషా: ।
వైకుంఠే కంఠలగ్నాస్థిరశుచివిలసత్కాంతితారుణ్యలీలా-
లావణ్యాపూర్ణకాంతాకుచభరసులభాశ్లేషసంమోదసాంద్రా: ॥౯॥

ఆనందాన్ మందమందా దదతి హి మరుత: కుందమందారనంద్యా-
వర్తామోదాన్ దధానా మృదుపదముదితోద్గీతకై: సుందరీణామ్ ।
వృందైరావంద్యముక్తేంద్వహిమగుమదనాహీంద్రదేవేంద్రసేవ్యే
మౌకుందే మందిరేఽస్మిన్నవిరతముదయన్ మోదినాం దేవదేవ ॥౧౦॥

ఉత్తప్తాత్యుత్కటత్విట్ప్రకటకటకటధ్వానసంఘట్టనోద్యత్-
విద్యుద్వ్యూఢస్ఫులింగప్రకరవికిరణోత్క్వాథితే బాధితాంగాన్ ।
ఉద్గాఢం పాత్యమానా తమసి తత ఇత: కింకరై: పంకిలే తే
పంక్తిర్గ్రావ్ణాం గరిమ్ణా గ్లపయతి హి భవద్ద్వేషిణో విద్వదాద్య ॥౧౧॥

అస్మిన్నస్మద్గురూణాం హరిచరణచిరధ్యానసన్మంగలానాం
యుష్మాకం పార్శ్వభూమిం ధృతరణరణిక: స్వర్గిసేవ్యాం ప్రపన్న: ।
యస్తూదాస్తే స ఆస్తేఽధిభవమసులభక్లేశనిర్మోకమస్త-
ప్రాయానందం కథంచిన్న వసతి సతతం పంచకష్టేఽతికష్టే ॥౧౨॥

క్షుత్క్షామాన్ రూక్షరక్షోరదఖరనఖరక్షుణ్ణవిక్షోభితాక్షాన్
ఆమగ్నానంధకూపే క్షురముఖముఖరై: పక్షిభిర్విక్షతాంగాన్ ।
పూయాసృఙ్మూత్రవిష్ఠాకృమికులకలిలే తత్క్షణాక్షిప్తశక్త్యా-
ద్యస్త్రవ్రాతార్దితాంస్త్వద్ద్విష ఉపజిహతే వజ్రకల్పా జలూకా: ॥౧౩॥

మాతర్మే మాతరిశ్వన్ పితరతులగురో భ్రాతరిష్టాప్తబంధో
స్వామిన్ సర్వాంతరాత్మన్నజర జరయితర్జన్మమృత్యామయానామ్ ।
గోవిందే దేహి భక్తిం భవతి చ భగవన్నూర్జితాం నిర్నిమిత్తాం
నిర్వ్యాజాం నిశ్చలాం సద్గుణగణబృహతీం శాశ్వతీమాశు దేవ ॥౧౪॥

విష్ణోరత్యుత్తమత్వాదఖిలగుణగణైస్తత్ర భక్తిం గరిష్ఠాం
సంశ్లిష్టే శ్రీధరాభ్యామముమథ పరివారాత్మనా సేవకేషు ।
య: సంధత్తే విరించిశ్వసనవిహగపానంతరుద్రేంద్రపూర్వే-
ష్వాధ్యాయంస్తారతమ్యం స్ఫుటమవతి సదా వాయురస్మద్గురుస్తమ్ ॥౧౫॥

తత్త్వజ్ఞాన్ ముక్తిభాజ: సుఖయసి హి గురో యోగ్యతాతారతమ్యా-
దాధత్సే మిశ్రబుద్ధీంస్త్రిదివనిరయభూగోచరాన్ నిత్యబద్ధాన్ ।
తామిస్రాంధాదికాఖ్యే తమసి సుబహులం దు:ఖయస్యన్యథాజ్ఞాన్
విష్ణోరాజ్ఞాభిరిత్థం శ్రుతిశతమితిహాసాది చాఽకర్ణయామ: ॥౧౬॥

వందేఽహం తం హనూమానితి మహితమహాపౌరుషో బాహుశాలీ
ఖ్యాతస్తేఽగ్ర్యోఽవతార: సహిత ఇహ బహుబ్రహ్మచర్యాదిధర్మై: ।
సస్నేహానాం సహస్వానహరహరహితం నిర్దహన్ దేహభాజాం
అంహోమోహాపహో య: స్పృహయతి మహతీం భక్తిమద్యాపి రామే ॥౧౭॥

ప్రాక్పంచాశత్సహస్రైర్వ్యవహితమమితం యోజనై: పర్వతం త్వం
యావత్సంజీవనాద్యౌషధనిధిమధిక ప్రాణ లంకామనైషీ: ।
అద్రాక్షీదుత్పతంతం తత ఉత గిరిముత్పాటయంతం గృహీత్వాఽఽ-
యాంతం ఖే రాఘవాంఘ్రౌ ప్రణతమపి తదైకక్షణే త్వాం హి లోక: ॥౧౮॥

క్షిప్త: పశ్చాత్ సలీలం శతమతులమతే యోజనానాం స ఉచ్చః
తావద్విస్తారవాంశ్చాప్యుపలలవ ఇవ వ్యగ్రబుధ్ద్యా త్వయాఽత: ।
స్వస్వస్థానస్థితాతిస్థిరశకలశిలాజాలసంశ్లేషనష్ట-
చ్ఛేదాంక: ప్రాగివాభూత్ కపివరవపుషస్తే నమ: కౌశలాయ ॥౧౯॥

దృష్ట్వా దుష్టాధిపోర: స్ఫుటితకనకసద్వర్మఘృష్టాస్థికూటం
నిష్పిష్టం హాటకాద్రిప్రకటతటతటాకాతిశంకో జనోఽభూత్ ।
యేనాఽజౌ రావణారిప్రియనటనపటుర్ముష్టిరిష్టం ప్రదేష్టుం
కిం నేష్టే మే స తేఽష్టాపదకటకతటిత్కోటిభామృష్టకాష్ఠ: ॥౨౦॥

దేవ్యాదేశప్రణీతిద్రుహిణహరవరావధ్యరక్షోవిఘాతా-
ద్యాసేవ్యోద్యద్దయార్ద్ర: సహభుజమకరోద్రామనామా ముకుంద: ।
దుష్ప్రాపే పారమేష్ఠ్యే కరతలమతులం మూర్ధ్ని విన్యస్య ధన్యం
తన్వన్ భూయ: ప్రభూతప్రణయవికసితాబ్జేక్షణస్త్వేక్షమాణ: ॥౨౧॥

జఘ్నే నిఘ్నేన విఘ్నో బహులబలబకధ్వంసనాద్యేన శోచత్
విప్రానుక్రోశపాశైరసువిధృతిసుఖస్యైకచక్రాజనానామ్ ।
తస్మై తే దేవ కుర్మ: కురుకులపతయే కర్మణా చ ప్రణామాన్
కిర్మీరం దుర్మతీనాం ప్రథమమథ చ యో నర్మణా నిర్మమాథ ॥౨౨॥

నిర్మృద్నన్నత్యయత్నం విజరవర జరాసంధకాయాస్థిసంధీన్
యుద్ధే త్వం స్వధ్వరే వా పశుమివ దమయన్ విష్ణుపక్షద్విడీశమ్ ।
యావత్ ప్రత్యక్షభూతం నిఖిలమఖభుజం తర్పయామాసిథాసౌ
తావత్యాఽయోజి తృప్త్యా కిము వద భగవన్ రాజసూయాశ్వమేధే ॥౨౩॥

క్ష్వేలాక్షీణాట్టహాసం తవ రణమరిహన్నుద్గదోద్దామబాహో
బహ్వక్షౌహిణ్యనీకక్షపణసునిపుణం యస్య సర్వోత్తమస్య ।
శుశ్రూషార్థం చకర్థ స్వయమయమథ సంవక్తుమానందతీర్థ-
శ్రీమన్నామన్ సమర్థస్త్వమపి హి యువయో: పాదపద్మం ప్రపద్యే ॥౨౪॥

ద్రుహ్యంతీం హృద్రుహం మాం ద్రుతమనిలబలాద్ద్రావయంతీమవిద్యా-
నిద్రాం విద్రావ్య సద్యోరచనపటుమథాఽపాద్య విద్యాసముద్ర ।
వాగ్దేవీ సా సువిద్యాద్రవిణదవిదితా ద్రౌపదీ రుద్రపత్న్యాత్
ద్యుద్రిక్తా ద్రాగభద్రాద్రహయతు దయితా పూర్వభీమాజ్ఞయా తే ॥౨౫॥

యాభ్యాం శుశ్రూషురాసీ: కురుకులజననే క్షత్రవిప్రోదితాభ్యాం
బ్రహ్మభ్యాం బృంహితాభ్యాం చితిసుఖవపుషా కృష్ణనామాస్పదాభ్యామ్ ।
నిర్భేదాభ్యాం విశేషాద్ద్వివచనవిషయాభ్యాముభాభ్యామమూభ్యాం
తుభ్యం చ క్షేమదేభ్య: సరసిజవిలసల్లోచనేభ్యో నమోఽస్తు ॥౨౬॥

గచ్ఛన్ సౌగంధికార్థం పథి స హనుమత: పుచ్ఛమచ్ఛస్య భీమ:
ప్రోద్ధర్తుం నాశకత్ స త్వముమురువపుషా భీషయామాస చేతి ।
పూర్ణజ్ఞానౌజసోస్తే గురుతమవపుషో: శ్రీమదానందతీర్థ
క్రీడామాత్రం తదేతత్ప్రమదద సుధియాం మోహక ద్వేషభాజామ్ ॥౨౭॥

బహ్వీ: కోటీరటీక: కుటిలకటుమతీనుత్కటాటోపకోపాన్
ద్రాక్ చ త్వం సత్వరత్వాచ్ఛరణద గదయా పోథయామాసిథారీన్ ।
ఉన్మథ్యాతథ్యమిథ్యాత్వవచనవచనానుత్పథస్థాంస్తథాఽన్యాన్
ప్రాయచ్ఛ: స్వప్రియాయై ప్రియతమ కుసుమం ప్రాణ తస్మై నమస్తే ॥౨౮॥

దేహాదుత్క్రామితానామధిపతిరసతామక్రమాద్వక్రబుద్ధి:
క్రుద్ధ: క్రోధైకవశ్య: కృమిరివ మణిమాన్ దుష్కృతీ నిష్క్రియార్థమ్ ।
చక్రే భూచక్రమేత్య క్రకచమివ సతాం చేతస: కష్టశాస్త్రం
దుస్తర్కం చక్రపాణేర్గుణగణవిరహం జీవతాం చాధికృత్య ॥౨౯॥

తద్దుష్ప్రేక్షానుసారాత్ కతిపయకునరైరాదృతోఽన్యైర్విసృష్టో
బ్రహ్మాఽహం నిర్గుణోఽహం వితథమిదమితి హ్యేష పాషండవాద: ।
తద్యుక్త్యాభాసజాలప్రసరవిషతరూద్దాహదక్షప్రమాణ-
జ్వాలామాలాధరోఽగ్ని: పవన విజయతే తేఽవతారస్తృతీయ: ॥౩౦॥

ఆక్రోశంతో నిరాశా భయభరవివశస్వాశయాశ్ఛిన్నదర్పా
వాశంతో దేశనాశస్త్వితి బత కుధియాం నాశమాశాదశాశు ।
ధావంతోఽశ్లీలశీలా వితథశపథశాపాశివా: శాంతశౌర్యాః
త్వద్వ్యాఖ్యాసింహనాదే సపది దదృశిరే మాయిగోమాయవస్తే ॥౩౧॥

త్రిష్వప్యేవావతారేష్వరిభిరపఘృణం హింసితో నిర్వికార:
సర్వజ్ఞ: సర్వశక్తి: సకలగుణగణాపూర్ణరూపప్రగల్భ: ।
స్వచ్ఛ: స్వచ్ఛందమృత్యు: సుఖయసి సుజనం దేవ కిం చిత్రమత్ర
త్రాతా యస్య త్రిధామా జగదుత వశగం కింకరా: శంకరాద్యా: ॥౩౨॥

ఉద్యన్మందస్మితశ్రీమృదుమధుమధురాలాపపీయూషధారా-
పూరాసేకోపశాంతాసుఖసుజనమనోలోచనాపీయమానమ్ ।
సంద్రక్ష్యే సుందరం సందుహదిహ మహదానందమానందతీర్థ
శ్రీమద్వక్త్రేందుబింబం దురితనుదుదితం నిత్యదాఽహం కదా ను ॥౩౩॥

ప్రాచీనాచీర్ణపుణ్యోచ్చయచతురతరాచారతశ్చారుచిత్తాన్
అత్యుచ్చాం రోచయంతీం శ్రుతిచితవచనాంఛ్రావకాంశ్చోద్యచంచూన్ ।
వ్యాఖ్యాముత్ఖాతదు:ఖాం చిరముచితమహాచార్య చింతారతాంస్తే
చిత్రాం సచ్ఛాస్త్రకర్తశ్చరణపరిచరాన్ శ్రావయాస్మాంశ్చ కించిత్ ॥౩౪॥

పీఠే రత్నోపక్లృప్తే రుచిరరుచిమణిజ్యోతిషా సన్నిషణ్ణం
బ్రహ్మాణం భావినం త్వాం జ్వలతి నిజపదే వైదికాద్యా హి విద్యా: ।
సేవంతే మూర్తిమత్య: సుచరిత చరితం భాతి గంధర్వగీతం
ప్రత్యేకం దేవసంసత్స్వపి తవ భగవన్ నర్తితద్యోవధూషు ॥౩౫॥

సానుక్రోశైరజస్రం జనిమృతినిరయాద్యూర్మిమాలావిలేఽస్మిన్
సంసారాబ్ధౌ నిమగ్నాన్ శరణమశరణానిచ్ఛతో వీక్ష్య జంతూన్ ।
యుష్మాభి: ప్రార్థిత: సన్ జలనిధిశయన: సత్యవత్యాం మహర్షేః
వ్యక్తశ్చిన్మాత్రమూర్తిర్న ఖలు భగవత: ప్రాకృతో జాతు దేహ: ॥౩౬॥

అస్తవ్యస్తం సమస్తశ్రుతిగతమధమై రత్నపూగం యథాంఽధైః
అర్థం లోకోపకృత్యై గుణగణణనిలయ: సూత్రయామాస కృత్స్నమ్ ।
యోఽసౌ వ్యాసాభిధానస్తమహమహరహర్భక్తితస్త్వత్ప్రసాదాత్
సద్యో విద్యోపలబ్ధ్యై గురుతమమగురుం దేవదేవం నమామి ॥౩౭॥

ఆజ్ఞామన్యైరధార్యాం శిరసి పరిసరద్రశ్మికోటీరకోటౌ
కృష్ణస్యాక్లిష్టకర్మా దధదనుసరణాదర్థితో దేవసంఘై: ।
భూమావాగత్య భూమన్నసుకరమకరోబ్రహ్మసూత్రస్య భాష్యం
దుర్భాష్యం వ్యస్య దస్యోర్మణిమత ఉదితం వేద సద్యుక్తిభిస్త్వమ్ ॥౩౮॥

భూత్వా క్షేత్రే విశుద్ధే ద్విజగణనిలయే రూప్యపీఠాభిధానే
తత్రాపి బ్రహ్మజాతిస్త్రిభువనవిశదే మధ్యగేహాఖ్యగేహే ।
పారివ్రాజ్యాధిరాజ: పునరపి బదరీం ప్రాప్య కృష్ణం చ నత్వా
కృత్వా భాష్యాణి సమ్యగ్ వ్యతనుత చ భవాన్ భారతార్థప్రకాశమ్
॥౩౯॥

వందే తం త్వా సుపూర్ణప్రమతిమనుదినాసేవితం దేవవృందైః
వందే వందారుమీశే శ్రియ ఉత నియతం శ్రీమదానందతీర్థమ్ ।
వందే మందాకినీసత్సరిదమలజలాసేకసాధిక్యసంగం
వందేఽహం దేవ భక్త్యా భవభయదహనం సజ్జనాన్మోదయంతమ్ ॥౪౦॥

సుబ్రహ్మణ్యాఖ్యసూరే: సుత ఇతి సుభృశం కేశవానందతీర్థ-
శ్రీమత్పాదాబ్జభక్త: స్తుతిమకృత హరేర్వాయుదేవస్య చాస్య ।
తత్పాదార్చాదరేణ గ్రథితపదలసన్మాలయా త్వేతయా యే
సంరాధ్యామూ నమంతి ప్రతతమతిగుణా ముక్తిమేతే వ్రజంతి ॥౪౧॥

పాంత్వస్మాన్ పురుహూతవైరిబలవన్మాతంగమాద్యద్ఘటా-
కుంభోచ్చాద్రివిపాటనాధికపటుప్రత్యేకవజ్రాయితా: ।
శ్రీమత్కంఠీరవాస్య ప్రతతసునఖరా దారితారాతిదూర-
ప్రధ్వస్తధ్వాంతశాంతప్రవితతమనసా భావితా నాకివృందై: ॥౧॥

లక్ష్మీకాంత సమంతతో వికలయన్నైవేశితుస్తే సమం
పశ్యామ్యుత్తమవస్తు దూరతరతోఽపాస్తం రసో యోఽష్టమ: ।
యద్రోషోత్కరదక్షనేత్రకుటిలప్రాంతోత్థితాగ్నిస్ఫురత్-
ఖద్యోతోపమవిస్ఫులింగభసితా బ్రహ్మేశశక్రోత్కరా: ॥౨॥

॥ ఇతి శ్రీత్రివిక్రమపండితాచార్యవిరచితా శ్రీహరివాయుస్తుతి: ॥

|| atha narasiMhanakhastuti: ||

pAMtvasmAn puruhUtavairibalavanmAtaMgamAdyadghaTA-
kuMbhochchAdrivipATanAdhikapaTupratyekavajrAyitA: |
shrImatkaMThIravAsya pratatasunakharA dAritArAtidUra-
pradhvastadhvAMtashAMtapravitatamanasA bhAvitA nAkivRRiMdai: ||1||

lakShmIkAMta samaMtato vikalayannaiveshituste samaM
pashyAmyuttamavastu dUratarato.apAstaM raso yo.aShTama: |
yadroShotkaradakShanetrakuTilaprAMtotthitAgnisphurat-
khadyotopamavisphuliMgabhasitA brahmeshashakrotkarA: ||2||

|| iti shrImadAnaMdatIrthabhagavatpAdAchAryavirachitA shrInarasiMhanakhastuti:||

|| atha shrIharivAyustuti: ||

shrImadviShNvaMghriniShThAtiguNagurutamashrImadAnaMdatIrtha-
trailokyAchAryapAdojjvalajalajalasatpAMsavo.asmAn punaMtu |
vAchAM yatra praNetrI tribhuvanamahitA shAradA shAradeMdu-
jyotsnAbhadrasmitashrIdhalitakakubhA premabhAraM babhAra ||1||

utkaMThAkuMThakolAhalajavaviditAjasrasevAnuvRRiddha-
prAj~nAtmaj~nAnadhUtAMdhatamasasumanomauliratnAvalInAm |
bhaktyudrekAvagADhapraghaTanasaghaTAtkArasaMghRRiShyamANa-
prAMtaprAgryAMghripIThotthitakanakaraja:piMjarAraMjitAshA: ||2||

janmAdhivyAdhyupAdhipratihativirahaprApakANAM guNAnAM
agryANAmarpakANAM chiramuditachidAnaMdasaMdohadAnAm |
eteShAmeSha doShapramuShitamanasAM dveShiNAM dUShakANAM
daityAnAmArtimaMdhe tamasi vidadhatAM saMstave nAsmi shakta: ||3||

asyAviShkartukAmaM kalimalakaluShe.asmin jane j~nAnamArgaM
vaMdyaM chaMdreMdrarudradyumaNiphaNivayonAyakAdyairihAdya |
madhvAkhyaM maMtrasiddhaM kimuta kRRitavato mArutasyAvatAraM
pAtAraM pArameShThyaM padamapavipada: prApturApannapuMsAm ||4||

udyadvidyutprachaMDAM nijaruchinikaravyAptalokAvakAsho
bibhradbhImo bhuje yo.abhyuditadinakarAbhAMgadADhyaprakAMDe |
vIryoddhAryAM gadAgryAmayamiha sumatiM vAyudevo vidadhyAt
adhyAtmaj~nAnanetA yativaramahito bhUmibhUShAmaNirme ||5||

saMsArottApanityopashamadasadayasnehahAsAMbupUra-
prodyadvidyAnavadyadyutimaNikiraNashreNisaMpUritAsha: |
shrIvatsAMkAdhivAsochitatarasarala: shrImadAnaMdatIrtha-
kShIrAMbhodhirvibhiMdyAdbhavadanabhimataM bhUri me bhUtihetu: ||6||

mUrdhanyeShoM.ajalirme dRRiDhataramiha te badhyate baMdhapAsha-
chChetre dAtre sukhAnAM bhajati bhuvi bhaviShyadvidhAtre dyubhartre |
atyaMtaM saMtataM tvaM pradisha padayuge haMta saMtApabhAjAM
asmAkaM bhaktimekAM bhagavata uta te mAdhavasyAtha vAyo: ||7||

sAbhroShNAbhIshushubhraprabhamabhaya nabho bhUribhUbhRRidvibhUti-
bhrAjiShNurbhUrRRibhUNAM bhavanamapi vibho.abhedi babhre babhUve |
yena bhrUvibhramaste bhramayatu subhRRishaM babhruvaddurbhRRitAshAn
bhrAMtirbhedAvabhAsastviti bhayamabhibhUrbhokShyato mAyibhikShUn ||8||

ye.amuM bhAvaM bhajaMte suramukhasujanArAdhitaM te tRRitIyaM
bhAsaMte bhAsuraiste sahacharachalitaishchAmaraishchAruveShA: |
vaikuMThe kaMThalagnAsthirashuchivilasatkAMtitAruNyalIlA-
lAvaNyApUrNakAMtAkuchabharasulabhAshleShasaMmodasAMdrA: ||9||

AnaMdAn maMdamaMdA dadati hi maruta: kuMdamaMdAranaMdyA-
vartAmodAn dadhAnA mRRidupadamuditodgItakai: suMdarINAm |
vRRiMdairAvaMdyamukteMdvahimagumadanAhIMdradeveMdrasevye
maukuMde maMdire.asminnaviratamudayan modinAM devadeva ||10||

uttaptAtyutkaTatviTprakaTakaTakaTadhvAnasaMghaTTanodyat-
vidyudvyUDhasphuliMgaprakaravikiraNotkvAthite bAdhitAMgAn |
udgADhaM pAtyamAnA tamasi tata ita: kiMkarai: paMkile te
paMktirgrAvNAM garimNA glapayati hi bhavaddveShiNo vidvadAdya ||11||

asminnasmadgurUNAM haricharaNachiradhyAnasanmaMgalAnAM
yuShmAkaM pArshvabhUmiM dhRRitaraNaraNika: svargisevyAM prapanna: |
yastUdAste sa Aste.adhibhavamasulabhakleshanirmokamasta-
prAyAnaMdaM kathaMchinna vasati satataM paMchakaShTe.atikaShTe ||12||

kShutkShAmAn rUkSharakShoradakharanakharakShuNNavikShobhitAkShAn
AmagnAnaMdhakUpe kShuramukhamukharai: pakShibhirvikShatAMgAn |
pUyAsRRi~NmUtraviShThAkRRimikulakalile tatkShaNAkShiptashaktyA-
dyastravrAtArditAMstvaddviSha upajihate vajrakalpA jalUkA: ||13||

mAtarme mAtarishvan pitaratulaguro bhrAtariShTAptabaMdho
svAmin sarvAMtarAtmannajara jarayitarjanmamRRityAmayAnAm |
goviMde dehi bhaktiM bhavati cha bhagavannUrjitAM nirnimittAM
nirvyAjAM nishchalAM sadguNagaNabRRihatIM shAshvatImAshu deva ||14||

viShNoratyuttamatvAdakhilaguNagaNaistatra bhaktiM gariShThAM
saMshliShTe shrIdharAbhyAmamumatha parivArAtmanA sevakeShu |
ya: saMdhatte viriMchishvasanavihagapAnaMtarudreMdrapUrve-
ShvAdhyAyaMstAratamyaM sphuTamavati sadA vAyurasmadgurustam ||15||

tattvaj~nAn muktibhAja: sukhayasi hi guro yogyatAtAratamyA-
dAdhatse mishrabuddhIMstridivanirayabhUgocharAn nityabaddhAn |
tAmisrAMdhAdikAkhye tamasi subahulaM du:khayasyanyathAj~nAn
viShNorAj~nAbhiritthaM shrutishatamitihAsAdi chA.akarNayAma: ||16||

vaMde.ahaM taM hanUmAniti mahitamahApauruSho bAhushAlI
khyAtaste.agryo.avatAra: sahita iha bahubrahmacharyAdidharmai: |
sasnehAnAM sahasvAnaharaharahitaM nirdahan dehabhAjAM
aMhomohApaho ya: spRRihayati mahatIM bhaktimadyApi rAme ||17||

prAkpaMchAshatsahasrairvyavahitamamitaM yojanai: parvataM tvaM
yAvatsaMjIvanAdyauShadhanidhimadhika prANa laMkAmanaiShI: |
adrAkShIdutpataMtaM tata uta girimutpATayaMtaM gRRihItvA.a.a-
yAMtaM khe rAghavAMghrau praNatamapi tadaikakShaNe tvAM hi loka: ||18||

kShipta: pashchAt salIlaM shatamatulamate yojanAnAM sa uchchaH
tAvadvistAravAMshchApyupalalava iva vyagrabudhdyA tvayA.ata: |
svasvasthAnasthitAtisthirashakalashilAjAlasaMshleShanaShTa-
chChedAMka: prAgivAbhUt kapivaravapuShaste nama: kaushalAya ||19||

dRRiShTvA duShTAdhipora: sphuTitakanakasadvarmaghRRiShTAsthikUTaM
niShpiShTaM hATakAdriprakaTataTataTAkAtishaMko jano.abhUt |
yenA.ajau rAvaNAripriyanaTanapaTurmuShTiriShTaM pradeShTuM
kiM neShTe me sa te.aShTApadakaTakataTitkoTibhAmRRiShTakAShTha: ||20||

devyAdeshapraNItidruhiNaharavarAvadhyarakShovighAtA-
dyAsevyodyaddayArdra: sahabhujamakarodrAmanAmA mukuMda: |
duShprApe pArameShThye karatalamatulaM mUrdhni vinyasya dhanyaM
tanvan bhUya: prabhUtapraNayavikasitAbjekShaNastvekShamANa: ||21||

jaghne nighnena vighno bahulabalabakadhvaMsanAdyena shochat
viprAnukroshapAshairasuvidhRRitisukhasyaikachakrAjanAnAm |
tasmai te deva kurma: kurukulapataye karmaNA cha praNAmAn
kirmIraM durmatInAM prathamamatha cha yo narmaNA nirmamAtha ||22||

nirmRRidnannatyayatnaM vijaravara jarAsaMdhakAyAsthisaMdhIn
yuddhe tvaM svadhvare vA pashumiva damayan viShNupakShadviDIsham |
yAvat pratyakShabhUtaM nikhilamakhabhujaM tarpayAmAsithAsau
tAvatyA.ayoji tRRiptyA kimu vada bhagavan rAjasUyAshvamedhe ||23||

kShvelAkShINATTahAsaM tava raNamarihannudgadoddAmabAho
bahvakShauhiNyanIkakShapaNasunipuNaM yasya sarvottamasya |
shushrUShArthaM chakartha svayamayamatha saMvaktumAnaMdatIrtha-
shrImannAman samarthastvamapi hi yuvayo: pAdapadmaM prapadye ||24||

druhyaMtIM hRRidruhaM mAM drutamanilabalAddrAvayaMtImavidyA-
nidrAM vidrAvya sadyorachanapaTumathA.apAdya vidyAsamudra |
vAgdevI sA suvidyAdraviNadaviditA draupadI rudrapatnyAt
dyudriktA drAgabhadrAdrahayatu dayitA pUrvabhImAj~nayA te ||25||

yAbhyAM shushrUShurAsI: kurukulajanane kShatraviproditAbhyAM
brahmabhyAM bRRiMhitAbhyAM chitisukhavapuShA kRRiShNanAmAspadAbhyAm |
nirbhedAbhyAM visheShAddvivachanaviShayAbhyAmubhAbhyAmamUbhyAM
tubhyaM cha kShemadebhya: sarasijavilasallochanebhyo namo.astu ||26||

gachChan saugaMdhikArthaM pathi sa hanumata: puchChamachChasya bhIma:
proddhartuM nAshakat sa tvamumuruvapuShA bhIShayAmAsa cheti |
pUrNaj~nAnaujasoste gurutamavapuSho: shrImadAnaMdatIrtha
krIDAmAtraM tadetatpramadada sudhiyAM mohaka dveShabhAjAm ||27||

bahvI: koTIraTIka: kuTilakaTumatInutkaTATopakopAn
drAk cha tvaM satvaratvAchCharaNada gadayA pothayAmAsithArIn |
unmathyAtathyamithyAtvavachanavachanAnutpathasthAMstathA.anyAn
prAyachCha: svapriyAyai priyatama kusumaM prANa tasmai namaste ||28||

dehAdutkrAmitAnAmadhipatirasatAmakramAdvakrabuddhi:
kruddha: krodhaikavashya: kRRimiriva maNimAn duShkRRitI niShkriyArtham |
chakre bhUchakrametya krakachamiva satAM chetasa: kaShTashAstraM
dustarkaM chakrapANerguNagaNavirahaM jIvatAM chAdhikRRitya ||29||

tadduShprekShAnusArAt katipayakunarairAdRRito.anyairvisRRiShTo
brahmA.ahaM nirguNo.ahaM vitathamidamiti hyeSha pAShaMDavAda: |
tadyuktyAbhAsajAlaprasaraviShatarUddAhadakShapramANa-
jvAlAmAlAdharo.agni: pavana vijayate te.avatArastRRitIya: ||30||

AkroshaMto nirAshA bhayabharavivashasvAshayAshChinnadarpA
vAshaMto deshanAshastviti bata kudhiyAM nAshamAshAdashAshu |
dhAvaMto.ashlIlashIlA vitathashapathashApAshivA: shAMtashauryAH
tvadvyAkhyAsiMhanAde sapadi dadRRishire mAyigomAyavaste ||31||

triShvapyevAvatAreShvaribhirapaghRRiNaM hiMsito nirvikAra:
sarvaj~na: sarvashakti: sakalaguNagaNApUrNarUpapragalbha: |
svachCha: svachChaMdamRRityu: sukhayasi sujanaM deva kiM chitramatra
trAtA yasya tridhAmA jagaduta vashagaM kiMkarA: shaMkarAdyA: ||32||

udyanmaMdasmitashrImRRidumadhumadhurAlApapIyUShadhArA-
pUrAsekopashAMtAsukhasujanamanolochanApIyamAnam |
saMdrakShye suMdaraM saMduhadiha mahadAnaMdamAnaMdatIrtha
shrImadvaktreMdubiMbaM duritanududitaM nityadA.ahaM kadA nu ||33||

prAchInAchIrNapuNyochchayachaturatarAchAratashchAruchittAn
atyuchchAM rochayaMtIM shrutichitavachanAMChrAvakAMshchodyachaMchUn |
vyAkhyAmutkhAtadu:khAM chiramuchitamahAchArya chiMtAratAMste
chitrAM sachChAstrakartashcharaNaparicharAn shrAvayAsmAMshcha kiMchit ||34||

pIThe ratnopaklRRipte ruchiraruchimaNijyotiShA sanniShaNNaM
brahmANaM bhAvinaM tvAM jvalati nijapade vaidikAdyA hi vidyA: |
sevaMte mUrtimatya: sucharita charitaM bhAti gaMdharvagItaM
pratyekaM devasaMsatsvapi tava bhagavan nartitadyovadhUShu ||35||

sAnukroshairajasraM janimRRitinirayAdyUrmimAlAvile.asmin
saMsArAbdhau nimagnAn sharaNamasharaNAnichChato vIkShya jaMtUn |
yuShmAbhi: prArthita: san jalanidhishayana: satyavatyAM maharSheH
vyaktashchinmAtramUrtirna khalu bhagavata: prAkRRito jAtu deha: ||36||

astavyastaM samastashrutigatamadhamai ratnapUgaM yathAM.adhaiH
arthaM lokopakRRityai guNagaNaNanilaya: sUtrayAmAsa kRRitsnam |
yo.asau vyAsAbhidhAnastamahamaharaharbhaktitastvatprasAdAt
sadyo vidyopalabdhyai gurutamamaguruM devadevaM namAmi ||37||

Aj~nAmanyairadhAryAM shirasi parisaradrashmikoTIrakoTau
kRRiShNasyAkliShTakarmA dadhadanusaraNAdarthito devasaMghai: |
bhUmAvAgatya bhUmannasukaramakarobrahmasUtrasya bhAShyaM
durbhAShyaM vyasya dasyormaNimata uditaM veda sadyuktibhistvam ||38||

bhUtvA kShetre vishuddhe dvijagaNanilaye rUpyapIThAbhidhAne
tatrApi brahmajAtistribhuvanavishade madhyagehAkhyagehe |
pArivrAjyAdhirAja: punarapi badarIM prApya kRRiShNaM cha natvA
kRRitvA bhAShyANi samyag vyatanuta cha bhavAn bhAratArthaprakAsham
||39||

vaMde taM tvA supUrNapramatimanudinAsevitaM devavRRiMdaiH
vaMde vaMdArumIshe shriya uta niyataM shrImadAnaMdatIrtham |
vaMde maMdAkinIsatsaridamalajalAsekasAdhikyasaMgaM
vaMde.ahaM deva bhaktyA bhavabhayadahanaM sajjanAnmodayaMtam ||40||

subrahmaNyAkhyasUre: suta iti subhRRishaM keshavAnaMdatIrtha-
shrImatpAdAbjabhakta: stutimakRRita harervAyudevasya chAsya |
tatpAdArchAdareNa grathitapadalasanmAlayA tvetayA ye
saMrAdhyAmU namaMti pratatamatiguNA muktimete vrajaMti ||41||

pAMtvasmAn puruhUtavairibalavanmAtaMgamAdyadghaTA-
kuMbhochchAdrivipATanAdhikapaTupratyekavajrAyitA: |
shrImatkaMThIravAsya pratatasunakharA dAritArAtidUra-
pradhvastadhvAMtashAMtapravitatamanasA bhAvitA nAkivRRiMdai: ||1||

lakShmIkAMta samaMtato vikalayannaiveshituste samaM
pashyAmyuttamavastu dUratarato.apAstaM raso yo.aShTama: |
yadroShotkaradakShanetrakuTilaprAMtotthitAgnisphurat-
khadyotopamavisphuliMgabhasitA brahmeshashakrotkarA: ||2||

|| iti shrItrivikramapaMDitAchAryavirachitA shrIharivAyustuti: ||

பாந்த்வஸ்மான் புருஹூதவைரிப³லவன்மாதங்க³மாத்³யத்³க⁴டா-

கும்போ⁴ச்சாத்³ரிவிபாடனாதி⁴கபடுப்ரத்யேகவஜ்ராயிதா: |
ஶ்ரீமத்கண்டீ²ரவாஸ்ய ப்ரததஸுநக²ரா தா³ரிதாராதிதூ³ர-
ப்ரத்⁴வஸ்தத்⁴வாந்தஶாந்தப்ரவிததமனஸா பா⁴விதா நாகிவ்ருʼந்தை³: || 1||

லக்ஷ்மீகாந்த ஸமந்ததோ விகலயன்னைவேஶிதுஸ்தே ஸமம்ʼ
பஶ்யாம்யுத்தமவஸ்து தூ³ரதரதோऽபாஸ்தம்ʼ ரஸோ யோऽஷ்டம: |
யத்³ரோஷோத்கரத³க்ஷநேத்ரகுடிலப்ராந்தோத்தி²தாக்³னிஸ்பு²ரத்-
க²த்³யோதோபமவிஸ்பு²லிங்க³ப⁴ஸிதா ப்³ரஹ்மேஶஶக்ரோத்கரா: || 2||

|| இதி ஶ்ரீமதா³னந்த³தீர்த²ப⁴க³வத்பாதா³சார்யவிரசிதா ஶ்ரீநரஸிம்ʼஹநக²ஸ்துதி: ||

ஶ்ரீமத்³விஷ்ண்வங்க்⁴ரிநிஷ்டா²திகு³ணகு³ருதமஶ்ரீமதா³னந்த³தீர்த²-

த்ரைலோக்யாசார்யபாதோ³ஜ்ஜ்வலஜலஜலஸத்பாம் ̐ஸவோऽஸ்மான் புனந்து |
வாசாம்ʼ யத்ர ப்ரணேத்ரீ த்ரிபு⁴வனமஹிதா ஶாரதா³ ஶாரதே³ந்து³-
ஜ்யோத்ஸ்னாப⁴த்³ரஸ்மிதஶ்ரீத⁴வலிதககுபா⁴ ப்ரேமபா⁴ரம்ʼ ப³பா⁴ர || 1||

உத்கண்டா²குண்ட²கோலாஹலஜவவிதி³தாஜஸ்ரஸேவானுவ்ருʼத்³த⁴-
ப்ராக்ஞாத்மக்ஞானதூ⁴தாந்த⁴தமஸஸுமனோமௌலிரத்னவலீனாம் |
ப⁴க்த்யுத்³ரேகாவகா³ட⁴ப்ரக⁴டனஸக⁴டாத்காரஸங்க்⁴ருʼஷ்யமாண-
ப்ராந்தப்ராக்³ரயாங்க்⁴ரிபீடோ²த்தி²தகனகரஜ:பிஞ்ஜராரஞ்ஜிதாஶா: || 2||

ஜன்மாதி⁴வ்யாத்⁴யுபாதி⁴ப்ரதிஹதிவிரஹப்ராபகாணாம்ʼ கு³ணானா-
மக்³ரயாணாமர்பகாணாம்ʼ சிரமுதி³தசிதா³னந்த³ஸந்தோ³ஹதா³னாம் |
ஏதேஷாமேஷ தோ³ஷப்ரமுஷிதமனஸாம்ʼ த்³வேஷிணாம்ʼ தூ³ஷகாணாம்ʼ
தை³த்யானாமார்திமந்தே⁴ தமஸி வித³த⁴தாம்ʼ ஸம் ̐ஸ்தவே நாஸ்மி ஶக்த: || 3||

அஸ்யாவிஷ்கர்துகாமம்ʼ கலிமலகலுஷேऽஸ்மின் ஜனே க்ஞானமார்க³ம்ʼ
வந்த்³யம்ʼ சந்த்³ரேந்த்³ரருத்³ரத்³யுமணிப²ணிவயோனாயகாத்³யைரிஹாத்³ய |
மத்⁴வாக்²யம்ʼ மந்த்ரஸித்³த⁴ம்ʼ கிமுத க்ருʼதவதோ மாருதஸ்யாவதாரம்ʼ
பாதாரம்ʼ பாரமேஷ்ட்²யம்ʼ பத³மபவிபத³: ப்ராப்துராபன்னபும்ʼஸாம் || 4 ||

உத்³யத்³வித்³யுத்ப்ரசண்டா³ம்ʼ நிஜருசினிகரவ்யாப்தலோகாவகாஶோ
பி³ப்⁴ரத்³பீ⁴மோ பு⁴ஜே யோऽப்⁴யுதி³ததி³னகராபா⁴ங்க³தா³ட்⁴யப்ரகாண்டே³ |
வீர்யோத்³தா⁴ர்யாம்ʼ க³தா³க்³ர்யாமயமிஹ ஸுமதிம்ʼ வாயுதே³வோ வித³த்⁴யா-
த³த்⁴யாத்மக்ஞானனேதா யதிவரமஹிதோ பூ⁴மிபூ⁴ஷாமணிர்மே || 5||

ஸம்ʼஸாரோத்தாபநித்யோபஶமத³ஸத³யஸ்நேஹஹாஸாம்பு³பூர-
ப்ரோத்³யத்³வித்³யானவத்³யத்³யுதிமணிகிரணஶ்ரேணிஸம்பூரிதாஶ: |
ஶ்ரீவத்ஸாங்காதி⁴வாஸோசிததரஸரல: ஶ்ரீமதா³னந்த³தீர்த²-
க்ஷீராம்போ⁴தி⁴ர்விபி⁴ந்த்³யாத்³ப⁴வத³னபி⁴மதம்ʼ பூ⁴ரி மே பூ⁴திஹேது: || 6||

மூர்த⁴ன்யேஷோऽஞ்ஜலிர்மே த்³ருʼட⁴தரமிஹ தே ப³த்⁴யதே ப³ந்த⁴பாஶ-
ச்சே²த்ரே தா³த்ரே ஸுகா²னாம்ʼ ப⁴ஜதி பு⁴வி ப⁴விஷ்யத்³விதா⁴த்ரே த்³யுப⁴ர்த்ரே |
அத்யந்தம்ʼ ஸந்ததம்ʼ த்வம்ʼ ப்ரதி³ஶ பத³யுகே³ ஹந்த ஸந்தாபபா⁴ஜா-
மஸ்மாகம்ʼ ப⁴க்திமேகாம்ʼ ப⁴க³வத உத தே மாத⁴வஸ்யாத² வாயோ: || 7||

ஸாப்⁴ரோஷ்ணாபீ⁴ஶுஶுப்⁴ரப்ரப⁴மப⁴ய நபோ⁴ பூ⁴ரிபூ⁴ப்⁴ருʼத்³விபூ⁴தி-
ப்⁴ராஜிஷ்ணுர்பூ⁴ர்ருʼபூ⁴ணாம்ʼ ப⁴வனமபி விபோ⁴ऽபே⁴தி³ ப³ப்⁴ரே ப³பூ⁴வே |
யேன ப்⁴ரூவிப்⁴ரமஸ்தே ப்⁴ரமயது ஸுப்⁴ருʼஶம்ʼ ப³ப்⁴ருவத்³து³ர்ப்⁴ருʼதாஶான்
ப்⁴ராந்திர்பே⁴தா³வபா⁴ஸஸ்த்விதி ப⁴யமபி⁴பூ⁴ர்போ⁴க்ஷ்யதோ மாயிபி⁴க்ஷூன் || 8||

யேऽமும்ʼ பா⁴வம்ʼ ப⁴ஜந்தே ஸுரமுக²ஸுஜனாராதி⁴தம்ʼ தே த்ருʼதீயம்ʼ
பா⁴ஸந்தே பா⁴ஸுரைஸ்தே ஸஹசரசலிதைஶ்சாமரைஶ்சாருவேஷா: |
வைகுண்டே² கண்ட²லக்³னஸ்தி²ரஶுசிவிலஸத்காந்திதாருண்யலீலா-
லாவண்யாபூர்ணகாந்தாகுசப⁴ரஸுலபா⁴ஶ்லேஷஸம்மோத³ஸாந்த்³ரா: || 9||

ஆனந்தா³ன் மந்த³மந்தா³ த³த³தி ஹி மருத: குந்த³மந்தா³ரநந்த்³யா-
வர்தாமோதா³ன் த³தா⁴னா ம்ருʼது³பத³முதி³தோத்³கீ³தகை: ஸுந்த³ரீணாம் |
வ்ருʼந்தை³ராவந்த்³யமுக்தேந்த்³வஹிமகு³மத³னாஹீந்த்³ரதே³வேந்த்³ரஸேவ்யே
மௌகுந்தே³ மந்தி³ரேऽஸ்மின்னவிரதமுத³யன் மோதி³னாம்ʼ தே³வதே³வ || 10||

உத்தப்தாத்யுத்கடத்விட்ப்ரகடகடகடத்⁴வானஸங்க⁴ட்டனோத்³யத்-
வித்³யுத்³வ்யூட⁴ஸ்பு²லிங்க³ப்ரகரவிகிரணோத்க்வாதி²தே பா³தி⁴தாங்கா³ன் |
உத்³கா³ட⁴ம்ʼ பாத்யமானா தமஸி தத இத: கிங்கரை: பங்கிலே தே
பங்கி्தர்க்³ராவ்ணாம்ʼ க³ரிம்ணா க்³லபயதி ஹி ப⁴வத்³த்³வேஷிணோ வித்³வதா³த்³ய | 11|
அஸ்மின்னஸ்மத்³கு³ரூணாம்ʼ ஹரிசரணசிரத்⁴யானஸன்மங்க³லானாம்ʼ
யுஷ்மாகம்ʼ பார்ஶ்வபூ⁴மிம்ʼ த்⁴ருʼதரணரணிக: ஸ்வர்கி³ஸேவ்யாம்ʼ ப்ரபன்ன: |
யஸ்தூதா³ஸ்தே ஸ ஆஸ்தேऽதி⁴ப⁴வமஸுலப⁴க்லேஶநிர்மோகமஸ்த-
ப்ராயானந்த³ம்ʼ கத²ஞ்சிந்ந வஸதி ஸததம்ʼ பஞ்சகஷ்டேऽதிகஷ்டே || 12||

க்ஷுத்க்ஷாமான் ரூக்ஷரக்ஷோரத³க²ரநக²ரக்ஷுண்ணவிக்ஷோபி⁴தாக்ஷா-
நாமக்³னனந்த⁴கூபே க்ஷுரமுக²முக²ரை: பக்ஷிபி⁴ர்விக்ஷதாங்கா³ன் |
பூயாஸ்ருʼங்மூத்ரவிஷ்டா²க்ருʼமிகுலகலிலே தத்க்ஷணாக்ஷிப்தஶக்த்யா-
த்³யஸ்த்ரவ்ராதார்தி³தாம்ʼஸ்த்வத்³த்³விஷ உபஜிஹதே வஜ்ரகல்பா ஜலூகா: || 13||

மாதர்மே மாதரிஶ்வன் பிதரதுலகு³ரோ ப்⁴ராதரிஷ்டாப்தப³ந்தோ⁴
ஸ்வாமின் ஸர்வாந்தராத்மன்னஜர ஜரயிதர்ஜன்மம்ருʼத்யாமயானாம் |
கோ³விந்தே³ தே³ஹி ப⁴க்திம்ʼ ப⁴வதி ச ப⁴க³வன்னூர்ஜிதாம்ʼ நிர்நிமித்தாம்ʼ
நிர்வ்யாஜாம்ʼ நிஶ்சலாம்ʼ ஸத்³கு³ணக³ணப்³ருʼஹதீம்ʼ ஶாஶ்வதீமாஶு தே³வ || 14||

விஷ்ணோரத்யுத்தமத்வாத³கி²லகு³ணக³ணைஸ்தத்ர ப⁴க்திம்ʼ க³ரிஷ்டா²ம்ʼ
ஸம்ʼஶ்லிஷ்டே ஶ்ரீத⁴ராப்⁴யாமமுமத² பரிவாராத்மனா ஸேவகேஷு |
ய: ஸந்த⁴த்தே விரிஞ்சிஶ்வஸனவிஹக³பானந்தருத்³ரேந்த்³ரபூர்வே-
ஷ்வாத்⁴யாயம் ̐ஸ்தாரதம்யம்ʼ ஸ்பு²டமவதி ஸதா³ வாயுரஸ்மத்³கு³ருஸ்தம் || 15||

தத்த்வக்ஞான் முக்திபா⁴ஜ: ஸுக²யஸி ஹி கு³ரோ யோக்³யதாதாரதம்யா-
தா³த⁴த்ஸே மிஶ்ரபு³த்³தீ⁴ம் ̐ஸ்த்ரிதி³வநிரயபூ⁴கோ³சரான் நித்யப³த்³தா⁴ன் |
தாமிஸ்ராந்தா⁴தி³காக்²யே தமஸி ஸுப³ஹுலம்ʼ து³:க²யஸ்யன்யதா²க்ஞான்
விஷ்ணோராக்ஞாபி⁴ரித்த²ம்ʼ ஶ்ருதிஶதமிதிஹாஸாதி³ சாऽகர்ணயாம: || 16||

வந்தே³ऽஹம்ʼ தம்ʼ ஹனூமானிதி மஹிதமஹாபௌருஷோ பா³ஹுஶாலீ
க்²யாதஸ்தேऽக்³ரயோऽவதார: ஸஹித இஹ ப³ஹுப்³ரஹ்மசர்யாதி³த⁴ர்மை: |
ஸஸ்நேஹானாம்ʼ ஸஹஸ்வானஹரஹரஹிதம்ʼ நிர்த³ஹன் தே³ஹபா⁴ஜா-
மம்ʼஹோமோஹாபஹோ ய: ஸ்ப்ருʼஹயதி மஹதீம்ʼ ப⁴க்திமத்³யாபி ராமே || 17||

ப்ராக்பஞ்சாஶத்ஸஹஸ்ரைர்வ்யவஹிதமமிதம்ʼ யோஜனை: பர்வதம்ʼ த்வம்ʼ
யாவத்ஸஞ்ஜீவனாத்³யௌஷத⁴நிதி⁴மதி⁴க ப்ராண லங்காமனைஷீ: |
அத்³ராக்ஷீது³த்பதந்தம்ʼ தத உத கி³ரிமுத்பாடயந்தம்ʼ க்³ருʼஹீத்வாऽऽ-
யாந்தம்ʼ கே² ராக⁴வாங்க்⁴ரௌ ப்ரணதமபி ததை³கக்ஷணே த்வாம்ʼ ஹி லோக: || 18||

க்ஷிப்த: பஶ்சாத் ஸலீலம்ʼ ஶதமதுலமதே யோஜனானாம்ʼ ஸ உச்ச-
ஸ்தாவத்³விஸ்தாரவாம்ʼஶ்சாப்யுபலலவ இவ வ்யக்³ரபு³த்³த்⁴யா த்வயாऽத: |
ஸ்வஸ்வஸ்தா²னஸ்தி²தாதிஸ்தி²ரஶகலஶிலாஜாலஸம்ʼஶ்லேஷநஷ்ட-
ச்சே²தா³ங்க: ப்ராகி³வாபூ⁴த் கபிவரவபுஷஸ்தே நம: கௌஶலாய || 19||

த்³ருʼஷ்ட்வா து³ஷ்டாதி⁴போர: ஸ்பு²டிதகனகஸத்³வர்மக்⁴ருʼஷ்டாஸ்தி²கூடம்ʼ
நிஷ்பிஷ்டம்ʼ ஹாடகாத்³ரிப்ரகடதடதடாகாதிஶங்கோ ஜனோऽபூ⁴த் |
யேனாऽஜௌ ராவணாரிப்ரியநடனபடுர்முஷ்டிரிஷ்டம்ʼ ப்ரதே³ஷ்டும்ʼ
கிம்ʼ நேஷ்டே மே ஸ தேऽஷ்டாபத³கடகதடித்கோடிபா⁴ம்ருʼஷ்டகாஷ்ட²: || 20||

தே³வ்யாதே³ஶப்ரணீதித்³ருஹிணஹரவராவத்⁴யரக்ஷோவிகா⁴தா-
த்³யாஸேவ்யோத்³யத்³த³யார்த்³ர: ஸஹபு⁴ஜமகரோத்³ராமநாமா முகுந்த³: |
து³ஷ்ப்ராபே பாரமேஷ்ட்²யே கரதலமதுலம்ʼ மூர்த்⁴னி வின்யஸ்ய த⁴ன்யம்ʼ
தன்வன் பூ⁴ய: ப்ரபூ⁴தப்ரணயவிகஸிதாப்³ஜேக்ஷணஸ்த்வேக்ஷமாண: || 21||

ஜக்⁴னே நிக்⁴னேன விக்⁴னோ ப³ஹுலப³லப³கத்⁴வம்ʼஸனாத்³யேன ஶோச-
த்³விப்ரானுக்ரோஶபாஶைரஸுவித்⁴ருʼதிஸுக²ஸ்யைகசக்ராஜனானாம் |
தஸ்மை தே தே³வ குர்ம: குருகுலபதயே கர்மணா ச ப்ரணாமான்
கிர்மீரம்ʼ து³ர்மதீனாம்ʼ ப்ரத²மமத² ச யோ நர்மணா நிர்மமாத² || 22||

நிர்ம்ருʼத்³னன்னத்யயத்னம்ʼ விஜரவர ஜராஸந்த⁴காயாஸ்தி²ஸந்தீ⁴ன்
யுத்³தே⁴ த்வம்ʼ ஸ்வத்⁴வரே வா பஶுமிவ த³மயன் விஷ்ணுபக்ஷத்³விடீ³ஶம் |
யாவத் ப்ரத்யக்ஷபூ⁴தம்ʼ நிகி²லமக²பு⁴ஜம்ʼ தர்பயாமாஸிதா²ஸௌ
தாவத்யாऽயோஜி த்ருʼப்த்யா கிமு வத³ ப⁴க³வன் ராஜஸூயாஶ்வமேதே⁴ || 23||

க்ஷ்வேலாக்ஷீணாட்டஹாஸம்ʼ தவ ரணமரிஹன்னுத்³க³தோ³த்³தா³மபா³ஹோ
ப³ஹ்வக்ஷௌஹிண்யனீகக்ஷபணஸுநிபுணம்ʼ யஸ்ய ஸர்வோத்தமஸ்ய |
ஶுஶ்ரூஷார்த²ம்ʼ சகர்த² ஸ்வயமயமத² ஸம்ʼவக்துமானந்த³தீர்த²-
ஶ்ரீமந்நாமன் ஸமர்த²ஸ்த்வமபி ஹி யுவயோ: பாத³பத்³மம்ʼ ப்ரபத்³யே || 24||

த்³ருஹ்யந்தீம்ʼ ஹ்ருʼத்³ருஹம்ʼ மாம்ʼ த்³ருதமனிலப³லாத்³த்³ராவயந்தீமவித்³யா-
நித்³ராம்ʼ வித்³ராவ்ய ஸத்³யோரசனபடுமதா²ऽபாத்³ய வித்³யாஸமுத்³ர |
வாக்³தே³வீ ஸா ஸுவித்³யாத்³ரவிணத³விதி³தா த்³ரௌபதீ³ ருத்³ரபத்ன்ன்யா-
த்³யுத்³ரிக்தா த்³ராக³ப⁴த்³ராத்³ரஹயது த³யிதா பூர்வபீ⁴மாக்ஞயா தே || 25||

யாப்⁴யாம்ʼ ஶுஶ்ரூஷுராஸீ: குருகுலஜனனே க்ஷத்ரவிப்ரோதி³தாப்⁴யாம்ʼ
ப்³ரஹ்மப்⁴யாம்ʼ ப்³ரும்ʼʼஹிதாப்⁴யாம்ʼ சிதிஸுக²வபுஷா க்ருʼஷ்ணநாமாஸ்பதா³ப்⁴யாம்|
நிர்பே⁴தா³ப்⁴யாம்ʼ விஶேஷாத்³த்³விவசனவிஷயாப்⁴யாமுபா⁴ப்⁴யாமமூப்⁴யாம்ʼ
துப்⁴யம்ʼ ச க்ஷேமதே³ப்⁴ய: ஸரஸிஜவிலஸல்லோசனேப்⁴யோ நமோऽஸ்து || 26||

க³ச்ச²ன் ஸௌக³ந்தி⁴கார்த²ம்ʼ பதி² ஸ ஹனுமத: புச்ச²மச்ச²ஸ்ய பீ⁴ம:
ப்ரோத்³த⁴ர்தும்ʼ நாஶகத் ஸ த்வமுமுருவபுஷா பீ⁴ஷயாமாஸ சேதி |
பூர்ணக்ஞானௌஜஸோஸ்தே கு³ருதமவபுஷோ: ஶ்ரீமதா³னந்த³தீர்த²
க்ரீடா³மாத்ரம்ʼ ததே³தத்ப்ரமத³த³ ஸுதி⁴யாம்ʼ மோஹக த்³வேஷபா⁴ஜாம் || 27||

ப³ஹ்வீ: கோடீரடீக: குடிலகடுமதீனுத்கடாடோபகோபான்
த்³ராக் ச த்வம்ʼ ஸத்வரத்வாச்ச²ரணத³ க³த³யா போத²யாமாஸிதா²ரீன் |
உன்மத்²யாதத்²யமித்²யாத்வவசனவசனானுத்பத²ஸ்தா²ம்ʼஸ்ததா²ऽன்யான்
ப்ராயச்ச²: ஸ்வப்ரியாயை ப்ரியதம குஸுமம்ʼ ப்ராண தஸ்மை நமஸ்தே || 28||

தே³ஹாது³த்க்ராமிதானாமதி⁴பதிரஸதாமக்ரமாத்³வக்ரபு³த்³தி⁴:
க்ருத்³த⁴: க்ரோதை⁴கவஶ்ய: க்ருʼமிரிவ மணிமான் து³ஷ்க்ருʼதீ நிஷ்க்ரியார்த²ம் |
சக்ரே பூ⁴சக்ரமேத்ய க்ரகசமிவ ஸதாம்ʼ சேதஸ: கஷ்டஶாஸ்த்ரம்ʼ
து³ஸ்தர்க்கம்ʼ சக்ரபாணேர்கு³ணக³ணவிரஹம்ʼ ஜீவதாம்ʼ சாதி⁴க்ருʼத்ய || 29||

தத்³து³ஷ்ப்ரேக்ஷானுஸாராத் கதிபயகுநரைராத்³ருʼதோऽன்யைர்விஸ்ருʼஷ்டோ
ப்³ரஹ்மாऽஹம்ʼ நிர்கு³ணோऽஹம்ʼ விதத²மித³மிதி ஹ்யேஷ பாஷண்ட³வாத³: |
தத்³யுக்த்யாபா⁴ஸஜாலப்ரஸரவிஷதரூத்³தா³ஹத³க்ஷப்ரமாண-
ஜ்வாலாமாலாத⁴ரோऽக்³னி: பவன விஜயதே தேऽவதாரஸ்த்ருʼதீய: || 30||

ஆக்ரோஶந்தோ நிராஶா ப⁴யப⁴ரவிவஶஸ்வாஶயாஶ்சி²ன்னத³ர்பா
வாஶந்தோ தே³ஶநாஶஸ்த்விதி ப³த குதி⁴யாம்ʼ நாஶமாஶாத³ஶாஶு |
தா⁴வந்தோऽஶ்லீலஶீலா விதத²ஶபத²ஶாபாஶிவா: ஶாந்தஶௌர்யா-
ஸ்த்வத்³வ்யாக்²யாஸிம்ʼஹனாதே³ ஸபதி³ த³த்³ருʼஶிரே மாயிகோ³மாயவஸ்தே|| 31||

த்ரிஷ்வப்யேவாவதாரேஷ்வரிபி⁴ரபக்⁴ருʼணம்ʼ ஹிம்ʼஸிதோ நிர்விகார:
ஸர்வக்ஞ: ஸர்வஶக்தி: ஸகலகு³ணக³ணாபூர்ணரூபப்ரக³ல்ப⁴: |
ஸ்வச்ச²: ஸ்வச்ச²ந்த³ம்ருʼத்யு: ஸுக²யஸி ஸுஜனம்ʼ தே³வ கிம்ʼ சித்ரமத்ர
த்ராதா யஸ்ய த்ரிதா⁴மா ஜக³து³த வஶக³ம்ʼ கிங்கரா: ஶங்கராத்³யா: || 32||

உத்³யன்மந்த³ஸ்மிதஶ்ரீம்ருʼது³மது⁴மது⁴ராலாபபீயூஷதா⁴ரா-
பூராஸேகோபஶாந்தாஸுக²ஸுஜனமனோலோசனாபீயமானம் |
ஸந்த்³ரக்ஷ்யே ஸுந்த³ரம்ʼ ஸந்து³ஹதி³ஹ மஹதா³னந்த³மானந்த³தீர்த²
ஶ்ரீமத்³வக்த்ரேந்து³பி³ம்ப³ம்ʼ து³ரிதனுது³தி³தம்ʼ நித்யதா³ऽஹம்ʼ கதா³ நு || 33||

ப்ராசீனாசீர்ணபுண்யோச்சயசதுரதராசாரதஶ்சாருசித்தா-
நத்யுச்சாம்ʼ ரோசயந்தீம்ʼ ஶ்ருதிசிதவசனாஞ்ச்²ராவகாம் ̐ஶ்சோத்³யசஞ்சூன் |
வ்யாக்²யாமுத்கா²தது³:கா²ம்ʼ சிரமுசிதமஹாசார்ய சிந்தாரதாம் ̐ஸ்தே
சித்ராம்ʼ ஸச்சா²ஸ்த்ரகர்தஶ்சரணபரிசரான் ஶ்ராவயாஸ்மாம் ̐ஶ்ச கிஞ்சித் || 34||

பீடே² ரத்னேபக்ல்ருʼப்தே ருசிரருசிமணிஜ்யோதிஷா ஸன்நிஷண்ணம்ʼ
ப்³ரஹ்மாணம்ʼ பா⁴வினம்ʼ த்வாம்ʼ ஜ்வலதி நிஜபதே³ வைதி³காத்³யா ஹி வித்³யா: |
ஸேவந்தே மூர்திமத்ய: ஸுசரித சரிதம்ʼ பா⁴தி க³ந்த⁴ர்வகீ³தம்ʼ
ப்ரத்யேகம்ʼ தே³வஸம்ʼஸத்ஸ்வபி தவ ப⁴க³வன் நர்திதத்³யோவதூ⁴ஷு || 35||

ஸானுக்ரோஶைரஜஸ்ரம்ʼ ஜனிம்ருʼதிநிரயாத்³யூர்மிமாலாவிலேऽஸ்மின்
ஸம்ʼஸாராப்³தௌ⁴ நிமக்³னான் ஶரணமஶரணானிச்ச²தோ வீக்ஷ்ய ஜந்தூன் |
யுஷ்மாபி⁴: ப்ரார்தி²த: ஸன் ஜலநிதி⁴ஶயன: ஸத்யவத்யாம்ʼ மஹர்ஷே-
ர்வ்யக்தஶ்சின்மாத்ரமூர்திர்ந க²லு ப⁴க³வத: ப்ராக்ருʼதோ ஜாது தே³ஹ: || 36||

அஸ்தவ்யஸ்தம்ʼ ஸமஸ்தஶ்ருதிக³தமத⁴மை ரத்னபூக³ம்ʼ யதா²ऽந்தை⁴-
ரர்த²ம்ʼ லோகோபக்ருʼத்யை கு³ணக³ணணநிலய: ஸூத்ரயாமாஸ க்ருʼத்ஸ்னம் |
யோऽஸௌ வ்யாஸாபி⁴தா⁴னஸ்தமஹமஹரஹர்ப⁴க்திதஸ்த்வத்ப்ரஸாதா³த்
ஸத்³யோ வித்³யோபலப்³த்⁴யை கு³ருதமமகு³ரும்ʼ தே³வதே³வம்ʼ நமாமி || 37||

ஆக்ஞாமன்யைரதா⁴ர்யாம்ʼ ஶிரஸி பரிஸரத்³ரஶ்மிகோடீரகோடௌ
க்ருʼஷ்ணஸ்யாக்லிஷ்டகர்மா த³த⁴த³னுஸரணாத³ர்தி²தோ தே³வஸங்கை⁴: |
பூ⁴மாவாக³த்ய பூ⁴மன்னஸுகரமகரோர்ப்³ரஹ்மஸூத்ரஸ்ய பா⁴ஷ்யம்ʼ
து³ர்பா⁴ஷ்யம்ʼ வ்யஸ்ய த³ஸ்யோர்மணிமத உதி³தம்ʼ வேத³ ஸத்³யுக்திபி⁴ஸ்த்வம்| 38|
பூ⁴த்வா க்ஷேத்ரே விஶுத்³தே⁴ த்³விஜக³ணநிலயே ரூப்யபீடா²பி⁴தா⁴னே
தத்ராபி ப்³ரஹ்மஜாதிஸ்த்ரிபு⁴வனவிஶதே³ மத்⁴யகே³ஹாக்²யகே³ஹே |
பாரிவ்ராஜ்யாதி⁴ராஜ: புனரபி ப³த³ரீம்ʼ ப்ராப்ய க்ருʼஷ்ணம்ʼ ச நத்வா
க்ருʼத்வா பா⁴ஷ்யாணி ஸம்யக்³ வ்யதனுத ச ப⁴வான் பா⁴ரதார்த²ப்ரகாஶம் | 39|
வந்தே³ தம்ʼ த்வா ஸுபூர்ணப்ரமதிமனுதி³னாஸேவிதம்ʼ தே³வவ்ருʼந்தை³-
ர்வந்தே³ வந்தா³ருமீஶே ஶ்ரிய உத நியதம்ʼ ஶ்ரீமதா³னந்த³தீர்த²ம் |
வந்தே³ மந்தா³கினீஸத்ஸரித³மலஜலாஸேகஸாதி⁴க்யஸங்க³ம்ʼ
வந்தே³ऽஹம்ʼ தே³வ ப⁴க்த்யா ப⁴வப⁴யத³ஹனம்ʼ ஸஜ்ஜனான்மோத³யந்தம் || 40||

ஸுப்³ரஹ்மண்யாக்²யஸூரே: ஸுத இதி ஸுப்⁴ருʼஶம்ʼ கேஶவானந்த³தீர்த²-
ஶ்ரீமத்பாதா³ப்³ஜப⁴க்த: ஸ்துதிமக்ருʼத ஹரேர்வாயுதே³வஸ்ய சாஸ்ய |
தத்பாதா³ர்சாத³ரேண க்³ரதி²தபத³லஸன்மாலயா த்வேதயா யே
ஸம்ʼராத்⁴யாமூ நமந்தி ப்ரததமதிகு³ணா முக்திமேதே வ்ரஜந்தி || 41||

|| இதி ஶ்ரீத்ரிவிக்ரமபண்டி³தாசார்யவிரசிதா ஶ்ரீஹரிவாயுஸ்துதி:||

updating: Vaayustuthi/ (stored 0%) updating: Vaayustuthi/kan.html (deflated 75%) updating: Vaayustuthi/tel.html (deflated 75%) updating: Vaayustuthi/eng.html (deflated 56%) updating: Vaayustuthi/Vayustuthi.wav (deflated 7%) updating: Vaayustuthi/stotra_meta_data.js (deflated 60%) updating: Vaayustuthi/dev.html (deflated 75%) updating: Vaayustuthi/tamil.html (deflated 76%) updating: Vaayustuthi/stotra.html (deflated 78%) Vaayustuthi processing file kan.html processing file tel.html processing file eng.html processing file Vayustuthi.wav processing file stotra_meta_data.js processing file dev.html processing file tamil.html processing file stotra.html