चतुर्थः सर्गः अथैष सल्लोकदयासुधार्द्रया सदागमस्तेननिरासकामया । रमावरावासभुवा विशारदो विशालयाऽचिंतयदात्मनो धिया ॥ १ ॥ अनन्यसंगाद्गुणसंगिता हरे- र्जनस्य मानं तु विशिष्टचेष्टितम् । असंगमस्मात् प्रकटीकरोम्यहं निजं भजन् पारमहंस्यमाश्रमम् ॥ २ ॥ मम प्रभोर्नापरथा हि शोभते द्विषत्सु विष्णुं यददंडधारणम् । हरिस्वसा नन्वचिरादसद्भिदे भवेदतो नास्मि च दंडधारकः ॥ ३ ॥ विचिंतयन्नित्थमनंतचिंतकः समस्तसंन्यासनिबद्धनिश्चयः । असावनुज्ञार्थमथानमद्धरिं समस्तसंव्यापिनमात्मदायगम् ॥ ४ ॥ निजे जने किं नमसीति पृच्छति ब्रुवन् स्ववस्तुप्रणतिं व्यधामिति । गुरोः किलान्वेषणवान् जगद्गुरुः तदा जगामाखिललोकशिक्षकः ॥ ५ ॥ यतिर्यतात्मा भुवि कश्चनाभव- द्विभूषणो भूरिविरक्तिभूषणः । न नाममात्राच्छुचिमर्थतोऽपि यं जनोऽच्युतप्रेक्षमुदाहरत् स्फुटम् ॥ ६ ॥ पुरैष कृष्णाकरसिद्धशुद्धिमद्- वरान्नभुक्त्या किल पांडवालये । विशोधितात्मा मधुकृत्प्रवृत्तिमान् चचार कांश्चित् परिवत्सरान् मुदा ॥ ७ ॥ अभूत्कुशास्त्राभ्यसनं न पातकं क्रमागताद्विप्रतिसारतो यतेः । यथा कुशस्त्राध्यसनं मुरद्विषः पदांबुजे व्याधवरस्य गर्हितम् ॥ ८ ॥ विनीतमाम्नायशिरोविशारदं सदैव तत्त्वं प्रबुभुत्सुमादरात् । गुरुर्विदित्वोपगतां निजां मृतिं कदाचिदूचे तमुपह्वरे गिरम् ॥ ९ ॥ अहं स्वयं ब्रह्म न किंचिदस्ति मत्- परं विजृंभेत यदा स्फुटं चितिः । इतीह मायासमयोपपादितं निरन्वयं सुव्रत मा स्म विश्वसीः ॥ १० ॥ यदेतदात्मैक्यमुपास्तिचोदितं न मे गुरोरप्यपरोक्षतां गतम् । पुरातनानामपि सौम्य कुत्रचित् ततो मुकुंदं भज संविदे मुदा ॥ ११ ॥ इतीदमादिश्य वचो वचस्विनि स्वके गुरौ लोकमथान्यमीयुषि । असेवताऽऽलोच्य मुहुर्गुरोर्गिरं स रूप्यपीठालयमिंदिरावरम् ॥ १२ ॥ सुभक्तिना तेन स भक्तवत्सलो निषेवितस्तत्र परं बुभुत्सुना । भविष्यतः शिष्यवराद्धि विद्धि माम् इति प्रविष्टः पुरुषं तमभ्यधात् ॥ १३ ॥ प्रतीक्षमाणं तमनुग्रहं मुदा निषेवमाणं पुनरंबुजेक्षणम् । सतां गुरुः कारणमानुषाकृतिः यतिं प्रशांतं तमुपाससाद सः ॥ १४ ॥ सुतं यतींद्रानुचरं विरागिणं निशम्य संन्यासनिबद्धमानसम् । सुवत्सलौ रूप्यतलालयस्थितं वियोगतांतौ पितरौ समीयतुः ॥ १५ ॥ वराश्रमस्ते जरतोरनाथयोः न जीवतोः स्यादयि नंदनावयोः । सयाचनं वाक्यमुदीर्य ताविदं परीत्य पुत्राय नतिं वितेनतुः ॥ १६ ॥ नतिर्न शुश्रूषुजनाय शस्यते नतं भवद्भ्यां स्फुटमत्र सांप्रतम् । अहो विधात्रा स्वयमेव दापिता तदभ्यनुज्ञेति जगाद स प्रभुः ॥ १७ ॥ अनुत्तरज्ञः स तमर्थयन् पुन- र्यतींद्रमानम्य गतः प्रियायुतः । गृहे वसन् कल्पसमान् क्षणान् नयन् सुताननेंदोरनिशं ततोऽस्मरत् ॥ १८ ॥ स चिंतयन् पुत्रमनोरथं शुचा पुनश्च तीर्त्वोपगतो महानदीम् । यतीश्वरानुव्रतमात्मनंदनं तमैक्षत ग्रामवरे मठांतरे ॥ १९ ॥ स जातकोपाकुलितो धरासुरो महात्मनां लंघनभीरुरप्यलम् । सुतस्य कौपीनधृतौ हि साहस- प्रतिश्रवो मे दृढ इत्यभाषत ॥ २० ॥ क्षणेन कौपीनधरो निजं पटं विदार्य हे तात कुरुष्व साहसम् । इतीममुक्त्वा प्रभुरब्रवीत् पुनः शुभांतरायं न भवांश्चरेदिति ॥ २१ ॥ न पुत्र पित्रोरवनं विना शुभं वदंति संतो ननु तौ सुतौ मृतौ । निवर्तमाने न हि पालकोऽस्ति नौ त्वयीति वक्तारममुं सुतोऽब्रवीत् ॥ २२ ॥ यदा विरक्तः पुरुषः प्रजायते तदैव संन्यासविधिः श्रुतौ श्रुतः । न संगहीनोऽपि परिव्रजामि वाम् अहं तु शुश्रूषुमकल्पयन्निति ॥ २३ ॥ बहुश्रुतत्वाद्यदि तत्सहे बलात् न सा सवित्री विरहं सहेत ते । इति द्विजेनाभिहितेऽनमत् स तं भवाननुज्ञां प्रददात्विति ब्रुवन् ॥ २४ ॥ विचिंत्य विद्वान् स निरुत्तरीकृत- स्तथाऽस्तु माताऽनुवदेद्यदीति तम् । उदीर्य कृच्छ्रादुपगम्य मंदिरं प्रियासकाशे तमुदंतमब्रवीत् ॥ २५ ॥ निशाचरारेरिव लक्ष्मणः पुरा वृकोदरस्येव सुरेंद्रनंदनः । गदोऽथ शौरेरिव कर्मकृत्प्रियः सुभक्तिमान् विश्वविदोऽनुजोऽभवत् ॥ २६ ॥ कदाचिदाप्यालयबुद्धिरालयं निवेदयन् पालकमेनमेतयोः । दृढस्वसंन्यासनिषेधनिश्चयां धवानुमत्येदमुवाच मातरम् ॥ २७ ॥ वराश्रमाप्तिं मम संवदस्व मां कदाचिदप्यंब यदीच्छसीक्षितुम् । यदन्यथा देशमिमं परित्यजन् न जातु दृष्टेर्विषयो भवामि वः ॥ २८ ॥ इति ब्रुवाणे तनये कदाचिद- प्यदर्शनं तस्य मृतेर्निदर्शनम् । विचिंत्य पर्याकुलिता चिकीर्षितं सुतस्य कृच्छ्रान्न्यरुणन्न सा शुभा ॥ २९ ॥ अथोपगम्यैष गुरुं जगद्गुरुः प्रसाद्य तं देववरप्रसादितः । सदा समस्ताश्रमभाक् सुरेश्वरो विशेषतः खल्वभजद्वराश्रमम् ॥ ३० ॥ क्रियाकलापं सकलं स कालविद् विधानमार्गेण विधाय केवलम् । सदा प्रसन्नस्य हरेः प्रसत्तये मुहुः समस्तन्यसनं समभ्यधात् ॥ ३१ ॥ अनंतमात्रांतमुदाहरंति यं त्रिमात्रपूर्वं प्रणवोच्चयं बुधाः । तदाऽभवद्भाविचतुर्मुखाकृतिः जपाधिकारी यतिरस्य सूचितः ॥ ३२ ॥ गुणानुरूपोन्नति पूर्णबोध इ- त्यमुष्य नाम द्विजवृंदवंदितः । उदाहरद्भूरियशा हि केवलं न मंत्रवर्णः स च मंत्रवर्णकः ॥ ३३ ॥ निरंगरागं मुखरागवर्जितं विभूषणं विष्टपभूषणायितम् । अमुं धृताषाढमवेक्ष्य मेनिरे स्वभावशोभाऽनुपमेति जंतवः ॥ ३४ ॥ भुजंगभूतेशविहंगपादिकैः प्रवंदितः सावसरप्रतीक्षणैः । ननाम सोऽयं गुरुपूर्वकान् यतीन् अहो महीयो महतां विडंबनम् ॥ ३५ ॥ वराश्रमाचारविशेषशिक्षणं विधित्सुरस्याचरितं निशामयन् । विशेषशिक्षां स्वयमाप्य धीरधीः यतीश्वरो विस्मयमायतांतरम् ॥ ३६ ॥ स रूप्यपीठालयवासिने यदा ननाम नाथाय महामतिर्मुदा । तदाऽमुनाऽग्राहि नरप्रवेशिना भुजे भुजेनाशु भुजंगशायिना ॥ ३७ ॥ चिरात् सुतत्त्वं प्रबुभुत्सना त्वया निषेवणं मे यदकारि तत्फलम् । इमं ददामीत्यभिधाय सोऽमुना तदा प्रणीय प्रददेऽच्युतात्मने ॥ ३८ ॥ अनुग्रहं तं प्रतिगृह्य सादरं मुदाऽऽत्मनाऽऽप्तां कृतकृत्यतां स्मरन् । अभूदसंगोऽपि स तत्सुसंगवान् असंगभूषा ननु साधुसंगिता ॥ ३९ ॥ यियासति स्वस्तटिनीं मुहुर्मुहुः नमत्यनुज्ञार्थिनि भूरिचेतसि । तमस्मरत् स्वामिनमेव दूनधीः गुरुर्भविष्यद्विरहाग्निशंकया ॥ ४० ॥ इतस्तृतिये दिवसे द्युनिम्नगा त्वदर्थमास्माकतटाकमाव्रजेत् । अतो न याया इति तं तदाऽवदत् प्रविश्य कंचित् करुणाकरो हरिः ॥ ४१ ॥ तदाज्ञयोपागतजाह्नवीजले जनोऽत्र सस्नौ सह पूर्णबुद्धिना । ततः परं द्वादशवत्सरांतरे सदाऽऽव्रजेत् सा तदनुग्रहांकिनी ॥ ४२ ॥ गते दिनानां दशके समासके वराश्रमं प्राप्य सपत्रलंबनम् । जिगाय जैत्रान्बहुतर्ककर्कशान् स वासुदेवाह्वयपंडितादिकान् ॥ ४३ ॥ गुरोः स्वशिष्यं चतुरं चिकीर्षतः प्रचोदनाच्छ्रोतुमिहोपचक्रमे । अथेष्टसिद्धिश्छलजातिवारिधिः निरादरेणापि महात्मनाऽमुना ॥ ४४ ॥ तदाद्यपद्यस्थमवद्यमंडलं यदाऽवदत् षोडशकद्वयात्मकम् । उपर्यपास्तं तदिति ब्रुवत्यसौ गुरौ तमूचे प्रणिगद्यतामिति ॥ ४५ ॥ भवत्प्रवक्तृत्वसमर्थता न मे सकोपमित्थं ब्रुवति व्रतीश्वरे । अपीह मायासमये पटौ नृणां बभूव तद्दूषणसंशयांकुरः ॥ ४६ ॥ बुधोऽभिधानं श्रवणं बुधेतरो ध्रुवं विदध्याद् विमुमुक्षुरात्मनः । यतिर्विशेषादिति लोकचोदनात् प्रवक्ति मायासमयं स्म पूर्णधीः ॥ ४७ ॥ अखंडितोपन्यसनं विसंशयं ससंप्रदायं प्रवचो दृढोत्तरम् । समागमन् श्रोतुममुष्य साग्रहाः जनाः श्रुताढ्याश्चतुरा बुभूषवः ॥ ४८ ॥ गुरोरुपांते श्रवणे रतैर्द्विजैः स पंचषैर्भागवते कदाचन । बहुप्रकारे लिखितेऽपि वाचिते प्रकारमेकं प्रभुरभ्यधाद्दढम् ॥ ४९ ॥ परप्रकारेष्वपि संभवत्सु ते विनिर्णयोऽस्मिन् कथमित्युदीरिते । मुकुंदबोधेन महाहृदब्रवीत् प्रकारमेनं भगवत्कृतं स्फुटम् ॥ ५० ॥ निगद्यतां गद्यमिहैव पंचमे जगद्गुरोर्वेत्थ कृतिस्थितिं यदि । इति ब्रुवाणे यतिसत्तमे स्वयं तदुक्तमार्गेण जगाद भूरिहृत् ॥ ५१ ॥ अशेषशिष्यैश्च तदाज्ञया तदा परीक्षणायैक्षि समस्तपुस्तकम् । स तत्र हंतैकतमे स्थितं त्यजन् न तावदध्यायनिकायमभ्यधात् ॥ ५२ ॥ अत्र जन्मनि न यत्पठितं ते जैत्र भाति कथमित्यमुनोक्ते । पूर्वजन्मसु हि वेद पुरेदं सर्वमित्यमितबुद्धिरुवाच ॥ ५३ ॥ इति बहुविधविश्वाश्चर्यचित्तप्रवृत्तेः जगति विततिमापन्नूतनाऽप्यस्य कीर्तिः । क्षपिततततमस्का भास्करीव प्रभाऽलं सुजनकुमुदवृंदानंददा चंद्रिकेव ॥ ५४ ॥ ॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपंडिताचार्यसुत श्रीनारायणपंडिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनंदांके चतुर्थः सर्गः ॥