अथैष सल्लोकदयासुधार्द्रया सदागमस्तेननिरासकामया ।
रमावरावासभुवा विशारदो विशालयाऽचिंतयदात्मनो धिया ॥ १ ॥


अनन्यसंगाद्गुणसंगिता हरे-
र्जनस्य मानं तु विशिष्टचेष्टितम् ।
असंगमस्मात् प्रकटीकरोम्यहं
निजं भजन् पारमहंस्यमाश्रमम् ॥ २ ॥


मम प्रभोर्नापरथा हि शोभते
द्विषत्सु विष्णुं यददंडधारणम् ।
हरिस्वसा नन्वचिरादसद्भिदे
भवेदतो नास्मि च दंडधारकः ॥ ३ ॥


विचिंतयन्नित्थमनंतचिंतकः
समस्तसंन्यासनिबद्धनिश्चयः ।
असावनुज्ञार्थमथानमद्धरिं समस्तसंव्यापिनमात्मदायगम् ॥ ४ ॥


निजे जने किं नमसीति पृच्छति
ब्रुवन् स्ववस्तुप्रणतिं व्यधामिति ।
गुरोः किलान्वेषणवान् जगद्गुरुः
तदा जगामाखिललोकशिक्षकः ॥ ५ ॥


यतिर्यतात्मा भुवि कश्चनाभव-
द्विभूषणो भूरिविरक्तिभूषणः ।
न नाममात्राच्छुचिमर्थतोऽपि यं
जनोऽच्युतप्रेक्षमुदाहरत् स्फुटम् ॥ ६ ॥


पुरैष कृष्णाकरसिद्धशुद्धिमद्-
वरान्नभुक्त्या किल पांडवालये ।
विशोधितात्मा मधुकृत्प्रवृत्तिमान्
चचार कांश्चित् परिवत्सरान् मुदा ॥ ७ ॥


अभूत्कुशास्त्राभ्यसनं न पातकं
क्रमागताद्विप्रतिसारतो यतेः ।
यथा कुशस्त्राध्यसनं मुरद्विषः
पदांबुजे व्याधवरस्य गर्हितम् ॥ ८ ॥


विनीतमाम्नायशिरोविशारदं
सदैव तत्त्वं प्रबुभुत्सुमादरात् ।
गुरुर्विदित्वोपगतां निजां मृतिं
कदाचिदूचे तमुपह्वरे गिरम् ॥ ९ ॥


अहं स्वयं ब्रह्म न किंचिदस्ति मत्-
परं विजृंभेत यदा स्फुटं चितिः ।
इतीह मायासमयोपपादितं
निरन्वयं सुव्रत मा स्म विश्वसीः ॥ १० ॥


यदेतदात्मैक्यमुपास्तिचोदितं
न मे गुरोरप्यपरोक्षतां गतम् ।
पुरातनानामपि सौम्य कुत्रचित्
ततो मुकुंदं भज संविदे मुदा ॥ ११ ॥


इतीदमादिश्य वचो वचस्विनि
स्वके गुरौ लोकमथान्यमीयुषि ।
असेवताऽऽलोच्य मुहुर्गुरोर्गिरं
स रूप्यपीठालयमिंदिरावरम् ॥ १२ ॥


सुभक्तिना तेन स भक्तवत्सलो
निषेवितस्तत्र परं बुभुत्सुना ।
भविष्यतः शिष्यवराद्धि विद्धि माम्
इति प्रविष्टः पुरुषं तमभ्यधात् ॥ १३ ॥


प्रतीक्षमाणं तमनुग्रहं मुदा
निषेवमाणं पुनरंबुजेक्षणम् ।
सतां गुरुः कारणमानुषाकृतिः
यतिं प्रशांतं तमुपाससाद सः ॥ १४ ॥


सुतं यतींद्रानुचरं विरागिणं
निशम्य संन्यासनिबद्धमानसम् ।
सुवत्सलौ रूप्यतलालयस्थितं
वियोगतांतौ पितरौ समीयतुः ॥ १५ ॥


वराश्रमस्ते जरतोरनाथयोः
न जीवतोः स्यादयि नंदनावयोः ।
सयाचनं वाक्यमुदीर्य ताविदं
परीत्य पुत्राय नतिं वितेनतुः ॥ १६ ॥


नतिर्न शुश्रूषुजनाय शस्यते
नतं भवद्भ्यां स्फुटमत्र सांप्रतम् ।
अहो विधात्रा स्वयमेव दापिता
तदभ्यनुज्ञेति जगाद स प्रभुः ॥ १७ ॥


अनुत्तरज्ञः स तमर्थयन् पुन-
र्यतींद्रमानम्य गतः प्रियायुतः ।
गृहे वसन् कल्पसमान् क्षणान् नयन्
सुताननेंदोरनिशं ततोऽस्मरत् ॥ १८ ॥


स चिंतयन् पुत्रमनोरथं शुचा
पुनश्च तीर्त्वोपगतो महानदीम् ।
यतीश्वरानुव्रतमात्मनंदनं
तमैक्षत ग्रामवरे मठांतरे ॥ १९ ॥


स जातकोपाकुलितो धरासुरो
महात्मनां लंघनभीरुरप्यलम् ।
सुतस्य कौपीनधृतौ हि साहस-
प्रतिश्रवो मे दृढ इत्यभाषत ॥ २० ॥


क्षणेन कौपीनधरो निजं पटं
विदार्य हे तात कुरुष्व साहसम् ।
इतीममुक्त्वा प्रभुरब्रवीत् पुनः
शुभांतरायं न भवांश्चरेदिति ॥ २१ ॥


न पुत्र पित्रोरवनं विना शुभं
वदंति संतो ननु तौ सुतौ मृतौ ।
निवर्तमाने न हि पालकोऽस्ति नौ
त्वयीति वक्तारममुं सुतोऽब्रवीत् ॥ २२ ॥


यदा विरक्तः पुरुषः प्रजायते
तदैव संन्यासविधिः श्रुतौ श्रुतः ।
न संगहीनोऽपि परिव्रजामि वाम्
अहं तु शुश्रूषुमकल्पयन्निति ॥ २३ ॥


बहुश्रुतत्वाद्यदि तत्सहे बलात्
न सा सवित्री विरहं सहेत ते ।
इति द्विजेनाभिहितेऽनमत् स तं
भवाननुज्ञां प्रददात्विति ब्रुवन् ॥ २४ ॥


विचिंत्य विद्वान् स निरुत्तरीकृत-
स्तथाऽस्तु माताऽनुवदेद्यदीति तम् ।
उदीर्य कृच्छ्रादुपगम्य मंदिरं
प्रियासकाशे तमुदंतमब्रवीत् ॥ २५ ॥


निशाचरारेरिव लक्ष्मणः पुरा
वृकोदरस्येव सुरेंद्रनंदनः ।
गदोऽथ शौरेरिव कर्मकृत्प्रियः
सुभक्तिमान् विश्वविदोऽनुजोऽभवत् ॥ २६ ॥


कदाचिदाप्यालयबुद्धिरालयं
निवेदयन् पालकमेनमेतयोः ।
दृढस्वसंन्यासनिषेधनिश्चयां
धवानुमत्येदमुवाच मातरम् ॥ २७ ॥


वराश्रमाप्तिं मम संवदस्व मां
कदाचिदप्यंब यदीच्छसीक्षितुम् ।
यदन्यथा देशमिमं परित्यजन्
न जातु दृष्टेर्विषयो भवामि वः ॥ २८ ॥


इति ब्रुवाणे तनये कदाचिद-
प्यदर्शनं तस्य मृतेर्निदर्शनम् ।
विचिंत्य पर्याकुलिता चिकीर्षितं
सुतस्य कृच्छ्रान्न्यरुणन्न सा शुभा ॥ २९ ॥


अथोपगम्यैष गुरुं जगद्गुरुः
प्रसाद्य तं देववरप्रसादितः ।
सदा समस्ताश्रमभाक् सुरेश्वरो
विशेषतः खल्वभजद्वराश्रमम् ॥ ३० ॥


क्रियाकलापं सकलं स कालविद्
विधानमार्गेण विधाय केवलम् ।
सदा प्रसन्नस्य हरेः प्रसत्तये
मुहुः समस्तन्यसनं समभ्यधात् ॥ ३१ ॥


अनंतमात्रांतमुदाहरंति यं
त्रिमात्रपूर्वं प्रणवोच्चयं बुधाः ।
तदाऽभवद्भाविचतुर्मुखाकृतिः
जपाधिकारी यतिरस्य सूचितः ॥ ३२ ॥


गुणानुरूपोन्नति पूर्णबोध इ-
त्यमुष्य नाम द्विजवृंदवंदितः ।
उदाहरद्भूरियशा हि केवलं
न मंत्रवर्णः स च मंत्रवर्णकः ॥ ३३ ॥


निरंगरागं मुखरागवर्जितं
विभूषणं विष्टपभूषणायितम् ।
अमुं धृताषाढमवेक्ष्य मेनिरे स्वभावशोभाऽनुपमेति जंतवः ॥ ३४ ॥


भुजंगभूतेशविहंगपादिकैः
प्रवंदितः सावसरप्रतीक्षणैः ।
ननाम सोऽयं गुरुपूर्वकान् यतीन्
अहो महीयो महतां विडंबनम् ॥ ३५ ॥


वराश्रमाचारविशेषशिक्षणं
विधित्सुरस्याचरितं निशामयन् ।
विशेषशिक्षां स्वयमाप्य धीरधीः
यतीश्वरो विस्मयमायतांतरम् ॥ ३६ ॥


स रूप्यपीठालयवासिने यदा
ननाम नाथाय महामतिर्मुदा ।
तदाऽमुनाऽग्राहि नरप्रवेशिना
भुजे भुजेनाशु भुजंगशायिना ॥ ३७ ॥


चिरात् सुतत्त्वं प्रबुभुत्सना त्वया
निषेवणं मे यदकारि तत्फलम् ।
इमं ददामीत्यभिधाय सोऽमुना
तदा प्रणीय प्रददेऽच्युतात्मने ॥ ३८ ॥


अनुग्रहं तं प्रतिगृह्य सादरं
मुदाऽऽत्मनाऽऽप्तां कृतकृत्यतां स्मरन् ।
अभूदसंगोऽपि स तत्सुसंगवान्
असंगभूषा ननु साधुसंगिता ॥ ३९ ॥


यियासति स्वस्तटिनीं मुहुर्मुहुः
नमत्यनुज्ञार्थिनि भूरिचेतसि ।
तमस्मरत् स्वामिनमेव दूनधीः
गुरुर्भविष्यद्विरहाग्निशंकया ॥ ४० ॥


इतस्तृतिये दिवसे द्युनिम्नगा त्वदर्थमास्माकतटाकमाव्रजेत् ।
अतो न याया इति तं तदाऽवदत्
प्रविश्य कंचित् करुणाकरो हरिः ॥ ४१ ॥


तदाज्ञयोपागतजाह्नवीजले
जनोऽत्र सस्नौ सह पूर्णबुद्धिना ।
ततः परं द्वादशवत्सरांतरे
सदाऽऽव्रजेत् सा तदनुग्रहांकिनी ॥ ४२ ॥


गते दिनानां दशके समासके
वराश्रमं प्राप्य सपत्रलंबनम् ।
जिगाय जैत्रान्बहुतर्ककर्कशान्
स वासुदेवाह्वयपंडितादिकान् ॥ ४३ ॥


गुरोः स्वशिष्यं चतुरं चिकीर्षतः प्रचोदनाच्छ्रोतुमिहोपचक्रमे ।
अथेष्टसिद्धिश्छलजातिवारिधिः
निरादरेणापि महात्मनाऽमुना ॥ ४४ ॥


तदाद्यपद्यस्थमवद्यमंडलं
यदाऽवदत् षोडशकद्वयात्मकम् ।
उपर्यपास्तं तदिति ब्रुवत्यसौ
गुरौ तमूचे प्रणिगद्यतामिति ॥ ४५ ॥


भवत्प्रवक्तृत्वसमर्थता न मे
सकोपमित्थं ब्रुवति व्रतीश्वरे ।
अपीह मायासमये पटौ नृणां
बभूव तद्दूषणसंशयांकुरः ॥ ४६ ॥


बुधोऽभिधानं श्रवणं बुधेतरो
ध्रुवं विदध्याद् विमुमुक्षुरात्मनः ।
यतिर्विशेषादिति लोकचोदनात्
प्रवक्ति मायासमयं स्म पूर्णधीः ॥ ४७ ॥


अखंडितोपन्यसनं विसंशयं
ससंप्रदायं प्रवचो दृढोत्तरम् ।
समागमन् श्रोतुममुष्य साग्रहाः
जनाः श्रुताढ्याश्चतुरा बुभूषवः ॥ ४८ ॥


गुरोरुपांते श्रवणे रतैर्द्विजैः
स पंचषैर्भागवते कदाचन ।
बहुप्रकारे लिखितेऽपि वाचिते
प्रकारमेकं प्रभुरभ्यधाद्दढम् ॥ ४९ ॥


परप्रकारेष्वपि संभवत्सु ते
विनिर्णयोऽस्मिन् कथमित्युदीरिते ।
मुकुंदबोधेन महाहृदब्रवीत्
प्रकारमेनं भगवत्कृतं स्फुटम् ॥ ५० ॥


निगद्यतां गद्यमिहैव पंचमे
जगद्गुरोर्वेत्थ कृतिस्थितिं यदि ।
इति ब्रुवाणे यतिसत्तमे स्वयं
तदुक्तमार्गेण जगाद भूरिहृत् ॥ ५१ ॥


अशेषशिष्यैश्च तदाज्ञया तदा
परीक्षणायैक्षि समस्तपुस्तकम् ।
स तत्र हंतैकतमे स्थितं त्यजन्
न तावदध्यायनिकायमभ्यधात् ॥ ५२ ॥


अत्र जन्मनि न यत्पठितं ते
जैत्र भाति कथमित्यमुनोक्ते ।
पूर्वजन्मसु हि वेद पुरेदं
सर्वमित्यमितबुद्धिरुवाच ॥ ५३ ॥


इति बहुविधविश्वाश्चर्यचित्तप्रवृत्तेः
जगति विततिमापन्नूतनाऽप्यस्य कीर्तिः ।
क्षपिततततमस्का भास्करीव प्रभाऽलं
सुजनकुमुदवृंदानंददा चंद्रिकेव ॥ ५४ ॥


॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपंडिताचार्यसुत श्रीनारायणपंडिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनंदांके चतुर्थः सर्गः ॥