तृतीयः सर्गः अथ कदाचन सुंदरनंदन- स्मितमुखेंदुदृशां दयितौ नृणाम् । महमितो निजबंधुमुदे मुदा प्रययतुः स्वजनैः सह दंपती ॥ १ ॥ स्वजनतापगमागमसंगम- प्रतिसभाजितपूर्वकसंभ्रमे । अविदुषी जननीति स बालकः शरणतो रणतो निरगान्नृभिः ॥ २ ॥ क्व नु यियाससि तात न सांप्रतं स्वजनसंत्यजनं तव सांप्रतम् । इति विभुः पथिकैरुदितो व्रजन् स्मितमनाकुलमुत्तरमातनोत् ॥ ३ ॥ त्वरितमेत्य स काननदेवता- सदनमत्र ननाम रमापतिम् । अपि ततः प्रगतो लघु नारिके- ल्युपपदांतरसद्मगतं च तम् ॥ ४ ॥ नलिननाभनिभालनसंमदा- गमविकस्वरभास्वरलोचनः । जनमनोनयनांबुजभास्करो रजतपीठपुरं प्रययावसौ ॥ ५ ॥ सुहयमेधगणातिशयालवो हरिनमस्कृतयः सुकृता इमाः । इति सुरैरपि भूसुरमंडलैः समनमत् स सविस्मयमीक्षितः ॥ ६ ॥ न हि हरिं सततं न नमत्यसौ न च न पश्यति नापि न वंदते । अपि तथेति विधाय विशेषतः स ननु साधुजनान् समशिक्षयत् ॥ ७ ॥ अनवलोक्य सुतं सुतवत्सलो मृगयति स्म महीसुरपुंगवः । मुहुरपृच्छदमुष्य गतिं नरान् पथि पथि प्रगतोऽनुपदं द्रुतम् ॥ ८ ॥ जनसदागतिसूचितवर्त्मना प्रतिपदं व्रजता परया तृषा । द्विजमहामधुपेन मनोहरं स्मितमलाभि सुताननवारिजम् ॥ ९ ॥ विरहदूनतयोद्गमनोन्मुखं न्यरुणदश्रु पुरा स ययोर्दृशोः । अथ तयोः प्रमदोत्थितमप्यदः प्रतिनिरुध्य गिरं गुरुरब्रवीत् ॥ १० ॥ अयि सुतेदमुदाहर तत्त्वतो ननु समागतवानसि सांप्रतम् । स्वजनतारहितस्य तु कोऽत्र ते सहचरोऽर्भक दीर्घतमे पथि ॥ ११ ॥ जनकवाचमिमामवधारयन् कलमुदाहरदंबुरुहेक्षणः । स्वपदमाव्रजतो व्रजतोऽप्यतो ननु सखा मम काननगो विभुः ॥ १२ ॥ तदितरायतनात्तु यदाऽगमं कृतनतिः खलु तत्र हरिः सखा । अहमिहापि महेंद्रदिगालयं प्रणतवानुत यावदधीश्वरम् ॥ १३ ॥ अपि ततोऽहमुपेत्य सहामुना भगवतेऽत्र सते प्रणतिं व्यधाम् । इति निगद्य विभाति शिशुः स्म वि- स्मितसभाजनचीर्णसभाजनः ॥ १४ ॥ विरहितस्वजनं चरणप्रियं विविधभूतभयंकरवर्त्मनि । अयि कृपालय पालय बालकं लघुशुभस्य ममेत्यनमद् द्विजः ॥ १५ ॥ तमुपगृह्य सुतं सुतपोनिधिः गृहमसौ गृहीणीसहितो ययौ । उदयतीति हि बालदिवाकरे स्मितमभूत् सुजनाननवारिजम् ॥ १६ ॥ वरविमानगिरावपि चंडिका शिशुमहो जननी तमलालयत् । अपरथा परितुष्टमनाः कथं चिरमिहैष वसेद्विसहायकः ॥ १७ ॥ सकलशब्दमयी च सरस्वती सततमानमति स्वयमेव यम् । द्विजवरोऽथ कदाचन मातृकाः किल सुतं परिचाययति स्म तम् ॥ १८ ॥ लिपिकुलं ननु तात गते दिने लिखितमेव पुनर्लिखितं कुतः । इति निजप्रतिभागुणभावितं हरिपदस्य वचस्तमनंदयत् ॥ १९ ॥ शिशुरसौ प्रतिभांबुधिरित्यलं जनमनोवचनग्रहपीडना । न भवतादिति तं विजनस्थले स्वतनयं समशिक्षयदेषकः ॥ २० ॥ महवता स्वजनेन समीरित- स्वजननीसहितेन कदाचन । रुचिरवाचनयाऽर्चितवाक्छ्रिया प्रतियये प्रभुणा घृतवल्ल्यपि ॥ २१ ॥ परिषदा नितरां परिवारितः शिवपदः किल धौतपटोद्भवः । इह कथां कथयन् ददृशे ततः पृथुधिया पृथुकाकृतिनाऽमुना ॥२२ ॥ इदमुवाच विचारविचक्षणः शुचि वचः शनकैः स जनांतरे । अपरथा कथितं कथक त्वया ननु मतान्महतामिति सस्मितम् ॥ २३ ॥ अगणयन्न शिवं जनता तदा सवचने वसुदेवसुताह्वये । मुखरमिच्छति को मृगधूर्तकं प्रकृतहुंकृतसिंहशिशौ सति ॥ २४ ॥ अथ कथां कथयेति तदा जने गदितवत्युचितार्थमुदाहरत् । स समलाल्यत विस्मयिर्भिर्नरै- रपि सुरैर्विजयांकुरपूजकैः ॥ २५ ॥ स जननीसहितो जनकं गृहे प्रगतवांस्तमुदंतमवेदयत् । निगद तात शिवः कथकः स किं वितथगीरथवाऽहमितीरयन् ॥ २६ ॥ ननु सुतावितथं कथितं त्वये- त्यमुमुदीर्य सविस्मयमस्मरत् । प्रकृतितः कृतिता खलु मे शिशोः मदधिनाथदयोदयजेत्यसौ ॥ २७ ॥ कथयतां प्रथमे कथयत्यलं स्वजनके जनसंघवृते कथाम् । सकललोकमनोनयनोत्सवः चतुरधीः स कदाचिदवाचयत् ॥ २८ ॥ विविधशाखिपदार्थनिवेदने लिकुचनाम्नि तदाऽनुदितार्थके । किमिति तात तदर्थमवर्णयन् कथयसीति शनैरयमब्रवीत् ॥ २९ ॥ अवदतीति पितर्यपि चोदिते प्रतिबुभुत्सुषु तत्र जनेष्वपि । अयमुदीर्य तदर्थमवाप्तवान् परिषदो ह्यसमानसुमाननाम् ॥ ३० ॥ बहुविधैश्चरितैरिति चारुभिः सकललोककुतूहलकारिणम् । द्विजवरेण वयस्युचिते स्थितं तमुपनेतुमनेन दधे मनः ॥ ३१ ॥ समुचितग्रहयोगगुणान्वितं समवधार्य मुहूर्तमदूषणं । प्रणयबंधुरबांधववानसौ द्विजकुलाकुलमुत्सवमातनोत् ॥ ३२ ॥ विविधवेदतया विजिहीर्षवो वदनरंगपदेऽस्य चिराय याः । सुरवरप्रमदा अपि सप्रिया अभिननंदुरहो वियतो महम् ॥ ३३ ॥ विहितसाधनसाधितसत्क्रियो ज्वलनमुज्ज्वलधीर्ज्वलयन्नयम् । उपनिनाय सुतं समलंकृतं कुशलिनं कुशलीकृतशीर्षकम् ॥ ३४ ॥ परिचराग्निगुरू चरितव्रतः सुचरणः पठ साधु सदागमान् । इति गुरोसिजगद्गुरुशिक्षणे स्फुटमहासि सुरैः कृतसाक्षिभिः ॥ ३५ ॥ जितकुमारगुणं सुकुमारकं निजकुमारमवेक्ष्य निरंतरम् । समुचिताचरणे चतुरं स्वतः क्षितिसुरो मुदमायत शिक्षयन् ॥ ३६ ॥ सपटखंडमकिंचनवत् क्वचित् स्वविभवानुचितं चरणादिकम् । भुवनभर्तुरहो स्वनिगूहनं सुरसभासु कुतूहलमातनोत् ॥ ३७ ॥ अविरलैर्गरलोष्मभिराकुली- कृतसमस्तजनो विचचार यः । क्वचिदमुं निजिघांसुरशांतिमान् उपससर्प स सर्पमयोऽसुरः ॥ ३८ ॥ त्वरितमुद्यतविस्तृतमस्तकः प्रतिददंश यदैनमविक्षतम् । प्रभुपदारुणचारुतरांगुली- विहृतिपिष्टतनुः प्रतताम सः ॥ ३९ ॥ गरुडतुंडमिव प्रतिपन्नवान् द्विजकुमारपदं स ममार च । समुचितं चरितं महतामिदं सुमनसो मनसेष्टमपूजयन् ॥ ४० ॥ गिरिशगुर्वमरेंद्रमुखैश्च य- च्चरणरेणुरधारि सुराधिपैः । क्षितिसुरांघ्र्यभिवंदनपूर्वकं स विदधेऽध्ययनं छलमानुषः ॥ ४१ ॥ करतले खलु कंदुकवत् सदा सकलया कलया सह विद्यया । अरिधरेण समं स्फुरितं गुरोः मनसि तस्य विडंबयतो जनान् ॥ ४२ ॥ अनधिकैरधिकैश्च वयस्यथो बहुभिरध्ययनोपरमांतरे । अनिकटे वटुभिः पटुभिर्गुरोः स विजहार सुखी सखिभिः समम् ॥ ४३ ॥ पदमुदीर्य जवेन यियासितं द्रुतसखेष्वभवत् स पुरःसरः । अयमयत्नतयेति न विस्मयो ननु मनोजवजित् पवनो ह्यसौ ॥ ४४ ॥ प्लवनतेजसि हंत न केवलं विजितवान् स तदा सकलान् जनान् । प्रभुनिदेशकरो हनुमत्तनौ ननु जिगाय स वालिसुतादिकान् ॥ ४५ ॥ जलविहारपराजयिभिः स्पृधा सखिभिरीरितवारिपरिश्रितम् । वदनमाकुललोचनमादधे स्मितममुष्य हि कंचन विभ्रमम् ॥ ४६ ॥ स शनकैर्बलिनोऽयुगपद्गतान् प्रविहृतेषु सखीन् निरपातयत् । अशनकैर्युगपत्प्रकृताहवान् सहसितो द्विजसूनुरयत्नवान् ॥ ४७ ॥ ग्रहणनिग्रहणे ग्रहणे धृढे गुरुभरोद्धरणादिविधौ पटौ । इह विभावुपचारधिया नृणां ऋतमयं ननु भीम इतीरितम् ॥ ४८ ॥ विहरतीति पठत्यपि न स्फुटं स्वगृहगामिनि चाद्रुतमायति । परितुतोष न तत्र जगद्गुरौ स किल पूगवनान्वयजो द्विजः ॥ ४९ ॥ अथ कदाचन सोऽध्ययनांतरे तमवदत् कुपितोऽन्यमनस्विनम् । पठसि नो शठ ते सखिभिः समं किमिति नित्यमुदासितधीरिति ॥ ५० ॥ गुणनिका चरणादिकगोचरा न मम हृद्दयितेत्युदितेऽमुना । वद विशारदवाद यथेप्सितं त्वमुपरीत्यवदद्धरणीसुरः ॥ ५१ ॥ सकललक्षणशिक्षणमूलभूः श्रुतिसमामननं स्खलनोज्झितम् । न खलु केवलमस्य गुरोर्व्यधात् सुमनसामपि तत्र कुतूहलम् ॥ ५२ ॥ प्रियवयस्यशिरोगुरुवेदनाम् अशमयत्सहजामपि दुस्सहाम् । स विपिने विजने मुखवायुना श्रवणगोचरितेन कदाचन ॥ ५३ ॥ अधिगतोपनिषच्च सकृच्छ्रुता प्रकटभागवतीति न विस्मयः । अधिगता ननु जात्वपि न श्रुताः प्रतिभया श्रुतयः शतशोऽमुना ॥ ५४ ॥ साक्षादथोपनिषदो विभुरैतरेय्याः पाठच्छलेन विजनेऽर्थरसान् ब्रुवाणः । अध्यापकाय विततार विमोक्षबीजं गोविंदभक्तिमुचितां गुरुदक्षिणां सः ॥ ५५ ॥ अयि स्वामिन् दुष्टान् दमयदमय व्यक्तमचिराद् गुणान् गूढान् विष्णोः कथयकथय स्वान् प्रमदयन् । तदानंदं तन्वन्निति सुमनसां सोऽनुसरतां अनुज्ञामादत्त त्रिभुवनगुरुर्ब्राह्मणगुरोः ॥ ५६ ॥ ॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपंडिताचार्यसुत श्रीनारायणपंडिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनंदांके तृतीयः सर्गः ॥