अथ कदाचन सुंदरनंदन-
स्मितमुखेंदुदृशां दयितौ नृणाम् ।
महमितो निजबंधुमुदे मुदा
प्रययतुः स्वजनैः सह दंपती ॥ १ ॥


स्वजनतापगमागमसंगम-
प्रतिसभाजितपूर्वकसंभ्रमे ।
अविदुषी जननीति स बालकः
शरणतो रणतो निरगान्नृभिः ॥ २ ॥


क्व नु यियाससि तात न सांप्रतं
स्वजनसंत्यजनं तव सांप्रतम् ।
इति विभुः पथिकैरुदितो व्रजन्
स्मितमनाकुलमुत्तरमातनोत् ॥ ३ ॥


त्वरितमेत्य स काननदेवता-
सदनमत्र ननाम रमापतिम् ।
अपि ततः प्रगतो लघु नारिके-
ल्युपपदांतरसद्मगतं च तम् ॥ ४ ॥


नलिननाभनिभालनसंमदा-
गमविकस्वरभास्वरलोचनः ।
जनमनोनयनांबुजभास्करो
रजतपीठपुरं प्रययावसौ ॥ ५ ॥


सुहयमेधगणातिशयालवो
हरिनमस्कृतयः सुकृता इमाः ।
इति सुरैरपि भूसुरमंडलैः
समनमत् स सविस्मयमीक्षितः ॥ ६ ॥


न हि हरिं सततं न नमत्यसौ
न च न पश्यति नापि न वंदते ।
अपि तथेति विधाय विशेषतः
स ननु साधुजनान् समशिक्षयत् ॥ ७ ॥


अनवलोक्य सुतं सुतवत्सलो
मृगयति स्म महीसुरपुंगवः ।
मुहुरपृच्छदमुष्य गतिं नरान्
पथि पथि प्रगतोऽनुपदं द्रुतम् ॥ ८ ॥


जनसदागतिसूचितवर्त्मना
प्रतिपदं व्रजता परया तृषा ।
द्विजमहामधुपेन मनोहरं
स्मितमलाभि सुताननवारिजम् ॥ ९ ॥


विरहदूनतयोद्गमनोन्मुखं
न्यरुणदश्रु पुरा स ययोर्दृशोः ।
अथ तयोः प्रमदोत्थितमप्यदः
प्रतिनिरुध्य गिरं गुरुरब्रवीत् ॥ १० ॥


अयि सुतेदमुदाहर तत्त्वतो
ननु समागतवानसि सांप्रतम् ।
स्वजनतारहितस्य तु कोऽत्र ते
सहचरोऽर्भक दीर्घतमे पथि ॥ ११ ॥


जनकवाचमिमामवधारयन्
कलमुदाहरदंबुरुहेक्षणः ।
स्वपदमाव्रजतो व्रजतोऽप्यतो
ननु सखा मम काननगो विभुः ॥ १२ ॥


तदितरायतनात्तु यदाऽगमं
कृतनतिः खलु तत्र हरिः सखा ।
अहमिहापि महेंद्रदिगालयं
प्रणतवानुत यावदधीश्वरम् ॥ १३ ॥


अपि ततोऽहमुपेत्य सहामुना
भगवतेऽत्र सते प्रणतिं व्यधाम् ।
इति निगद्य विभाति शिशुः स्म वि-
स्मितसभाजनचीर्णसभाजनः ॥ १४ ॥


विरहितस्वजनं चरणप्रियं
विविधभूतभयंकरवर्त्मनि ।
अयि कृपालय पालय बालकं
लघुशुभस्य ममेत्यनमद् द्विजः ॥ १५ ॥


तमुपगृह्य सुतं सुतपोनिधिः
गृहमसौ गृहीणीसहितो ययौ ।
उदयतीति हि बालदिवाकरे
स्मितमभूत् सुजनाननवारिजम् ॥ १६ ॥


वरविमानगिरावपि चंडिका
शिशुमहो जननी तमलालयत् ।
अपरथा परितुष्टमनाः कथं
चिरमिहैष वसेद्विसहायकः ॥ १७ ॥


सकलशब्दमयी च सरस्वती
सततमानमति स्वयमेव यम् ।
द्विजवरोऽथ कदाचन मातृकाः
किल सुतं परिचाययति स्म तम् ॥ १८ ॥


लिपिकुलं ननु तात गते दिने
लिखितमेव पुनर्लिखितं कुतः ।
इति निजप्रतिभागुणभावितं
हरिपदस्य वचस्तमनंदयत् ॥ १९ ॥


शिशुरसौ प्रतिभांबुधिरित्यलं
जनमनोवचनग्रहपीडना ।
न भवतादिति तं विजनस्थले
स्वतनयं समशिक्षयदेषकः ॥ २० ॥


महवता स्वजनेन समीरित-
स्वजननीसहितेन कदाचन ।
रुचिरवाचनयाऽर्चितवाक्छ्रिया
प्रतियये प्रभुणा घृतवल्ल्यपि ॥ २१ ॥


परिषदा नितरां परिवारितः
शिवपदः किल धौतपटोद्भवः ।
इह कथां कथयन् ददृशे ततः
पृथुधिया पृथुकाकृतिनाऽमुना ॥२२ ॥


इदमुवाच विचारविचक्षणः
शुचि वचः शनकैः स जनांतरे ।
अपरथा कथितं कथक त्वया
ननु मतान्महतामिति सस्मितम् ॥ २३ ॥


अगणयन्न शिवं जनता तदा
सवचने वसुदेवसुताह्वये ।
मुखरमिच्छति को मृगधूर्तकं
प्रकृतहुंकृतसिंहशिशौ सति ॥ २४ ॥


अथ कथां कथयेति तदा जने
गदितवत्युचितार्थमुदाहरत् ।
स समलाल्यत विस्मयिर्भिर्नरै-
रपि सुरैर्विजयांकुरपूजकैः ॥ २५ ॥


स जननीसहितो जनकं गृहे
प्रगतवांस्तमुदंतमवेदयत् ।
निगद तात शिवः कथकः स किं
वितथगीरथवाऽहमितीरयन् ॥ २६ ॥


ननु सुतावितथं कथितं त्वये-
त्यमुमुदीर्य सविस्मयमस्मरत् ।
प्रकृतितः कृतिता खलु मे शिशोः
मदधिनाथदयोदयजेत्यसौ ॥ २७ ॥


कथयतां प्रथमे कथयत्यलं
स्वजनके जनसंघवृते कथाम् ।
सकललोकमनोनयनोत्सवः
चतुरधीः स कदाचिदवाचयत् ॥ २८ ॥


विविधशाखिपदार्थनिवेदने
लिकुचनाम्नि तदाऽनुदितार्थके ।
किमिति तात तदर्थमवर्णयन्
कथयसीति शनैरयमब्रवीत् ॥ २९ ॥


अवदतीति पितर्यपि चोदिते
प्रतिबुभुत्सुषु तत्र जनेष्वपि ।
अयमुदीर्य तदर्थमवाप्तवान्
परिषदो ह्यसमानसुमाननाम् ॥ ३० ॥


बहुविधैश्चरितैरिति चारुभिः
सकललोककुतूहलकारिणम् ।
द्विजवरेण वयस्युचिते स्थितं
तमुपनेतुमनेन दधे मनः ॥ ३१ ॥


समुचितग्रहयोगगुणान्वितं
समवधार्य मुहूर्तमदूषणं ।
प्रणयबंधुरबांधववानसौ
द्विजकुलाकुलमुत्सवमातनोत् ॥ ३२ ॥


विविधवेदतया विजिहीर्षवो
वदनरंगपदेऽस्य चिराय याः ।
सुरवरप्रमदा अपि सप्रिया
अभिननंदुरहो वियतो महम् ॥ ३३ ॥


विहितसाधनसाधितसत्क्रियो
ज्वलनमुज्ज्वलधीर्ज्वलयन्नयम् ।
उपनिनाय सुतं समलंकृतं
कुशलिनं कुशलीकृतशीर्षकम् ॥ ३४ ॥


परिचराग्निगुरू चरितव्रतः
सुचरणः पठ साधु सदागमान् ।
इति गुरोसिजगद्गुरुशिक्षणे
स्फुटमहासि सुरैः कृतसाक्षिभिः ॥ ३५ ॥


जितकुमारगुणं सुकुमारकं
निजकुमारमवेक्ष्य निरंतरम् ।
समुचिताचरणे चतुरं स्वतः
क्षितिसुरो मुदमायत शिक्षयन् ॥ ३६ ॥


सपटखंडमकिंचनवत् क्वचित्
स्वविभवानुचितं चरणादिकम् ।
भुवनभर्तुरहो स्वनिगूहनं
सुरसभासु कुतूहलमातनोत् ॥ ३७ ॥


अविरलैर्गरलोष्मभिराकुली-
कृतसमस्तजनो विचचार यः ।
क्वचिदमुं निजिघांसुरशांतिमान्
उपससर्प स सर्पमयोऽसुरः ॥ ३८ ॥


त्वरितमुद्यतविस्तृतमस्तकः
प्रतिददंश यदैनमविक्षतम् ।
प्रभुपदारुणचारुतरांगुली-
विहृतिपिष्टतनुः प्रतताम सः ॥ ३९ ॥


गरुडतुंडमिव प्रतिपन्नवान्
द्विजकुमारपदं स ममार च ।
समुचितं चरितं महतामिदं
सुमनसो मनसेष्टमपूजयन् ॥ ४० ॥


गिरिशगुर्वमरेंद्रमुखैश्च य-
च्चरणरेणुरधारि सुराधिपैः ।
क्षितिसुरांघ्र्यभिवंदनपूर्वकं
स विदधेऽध्ययनं छलमानुषः ॥ ४१ ॥


करतले खलु कंदुकवत् सदा
सकलया कलया सह विद्यया ।
अरिधरेण समं स्फुरितं गुरोः
मनसि तस्य विडंबयतो जनान् ॥ ४२ ॥


अनधिकैरधिकैश्च वयस्यथो
बहुभिरध्ययनोपरमांतरे ।
अनिकटे वटुभिः पटुभिर्गुरोः
स विजहार सुखी सखिभिः समम् ॥ ४३ ॥


पदमुदीर्य जवेन यियासितं
द्रुतसखेष्वभवत् स पुरःसरः ।
अयमयत्नतयेति न विस्मयो
ननु मनोजवजित् पवनो ह्यसौ ॥ ४४ ॥


प्लवनतेजसि हंत न केवलं
विजितवान् स तदा सकलान् जनान् ।
प्रभुनिदेशकरो हनुमत्तनौ
ननु जिगाय स वालिसुतादिकान् ॥ ४५ ॥


जलविहारपराजयिभिः स्पृधा
सखिभिरीरितवारिपरिश्रितम् ।
वदनमाकुललोचनमादधे
स्मितममुष्य हि कंचन विभ्रमम् ॥ ४६ ॥


स शनकैर्बलिनोऽयुगपद्गतान्
प्रविहृतेषु सखीन् निरपातयत् ।
अशनकैर्युगपत्प्रकृताहवान्
सहसितो द्विजसूनुरयत्नवान् ॥ ४७ ॥


ग्रहणनिग्रहणे ग्रहणे धृढे
गुरुभरोद्धरणादिविधौ पटौ ।
इह विभावुपचारधिया नृणां
ऋतमयं ननु भीम इतीरितम् ॥ ४८ ॥


विहरतीति पठत्यपि न स्फुटं
स्वगृहगामिनि चाद्रुतमायति ।
परितुतोष न तत्र जगद्गुरौ
स किल पूगवनान्वयजो द्विजः ॥ ४९ ॥


अथ कदाचन सोऽध्ययनांतरे
तमवदत् कुपितोऽन्यमनस्विनम् ।
पठसि नो शठ ते सखिभिः समं
किमिति नित्यमुदासितधीरिति ॥ ५० ॥


गुणनिका चरणादिकगोचरा
न मम हृद्दयितेत्युदितेऽमुना ।
वद विशारदवाद यथेप्सितं
त्वमुपरीत्यवदद्धरणीसुरः ॥ ५१ ॥


सकललक्षणशिक्षणमूलभूः
श्रुतिसमामननं स्खलनोज्झितम् ।
न खलु केवलमस्य गुरोर्व्यधात्
सुमनसामपि तत्र कुतूहलम् ॥ ५२ ॥


प्रियवयस्यशिरोगुरुवेदनाम्
अशमयत्सहजामपि दुस्सहाम् ।
स विपिने विजने मुखवायुना
श्रवणगोचरितेन कदाचन ॥ ५३ ॥


अधिगतोपनिषच्च सकृच्छ्रुता
प्रकटभागवतीति न विस्मयः ।
अधिगता ननु जात्वपि न श्रुताः
प्रतिभया श्रुतयः शतशोऽमुना ॥ ५४ ॥


साक्षादथोपनिषदो विभुरैतरेय्याः
पाठच्छलेन विजनेऽर्थरसान् ब्रुवाणः ।
अध्यापकाय विततार विमोक्षबीजं
गोविंदभक्तिमुचितां गुरुदक्षिणां सः ॥ ५५ ॥


अयि स्वामिन् दुष्टान् दमयदमय व्यक्तमचिराद्
गुणान् गूढान् विष्णोः कथयकथय स्वान् प्रमदयन् ।
तदानंदं तन्वन्निति सुमनसां सोऽनुसरतां
अनुज्ञामादत्त त्रिभुवनगुरुर्ब्राह्मणगुरोः ॥ ५६ ॥


॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपंडिताचार्यसुत श्रीनारायणपंडिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनंदांके तृतीयः सर्गः ॥