अथ द्वितीयः सर्गः विज्ञानभानुमति कालबलेन लीने दुर्भाष्यसंतमससंततितो जनेंऽधे । मार्गात् सतां स्खलति खिन्नहृदो मुकुंदं देवाश्चतुर्मुखमुखाः शरणं प्रजग्मुः ॥ १ ॥ नाथः कलौ त्रियुगहूतिरनुद्‍बुभूषुः ब्रह्माणमप्यनवतारमनादिदिक्षुः । सर्वज्ञमन्यमनवेक्ष सकार्यवीर्यं स्मेराननो भुवनजीवनमाबभाषे ॥ २ ॥ वेदांतमार्गपरिमार्गणदीनदूना दैवीः प्रजा विशरणाः करुणापदं नः । आनंदयेः सुमुख भूषितभूमिभागो रूपांतरेण मम सद्गुणनिर्णयेन ॥ ३ ॥ आदेशवौलिमणिमुज्ज्वलवर्णमेनं बद्धांजलिर्मरुदनर्घ(र्घ्य)मधत्त मूर्ध्ना । हारावलीमिव हृदा विबुधेंद्रयाञ्चां बिभ्रन् निजाननुजिघृक्षुरवातितीर्षत् ॥ ४ ॥ कालः स एव समवर्तत नाम यावत् चिंताकुलं विविधसाधुकुलं बभूव । वेदांतसंततकृतांतरसं न विद्मः श्रेयो लभेमहि कथं नु वयं बतेति ॥ ५ ॥ तत्प्रीतये रजतपीठपुराधिवासी देवो विवेश पुरुषं शुभसूचनाय । प्राप्ते महाय महिताय महाजनौघे कोलाहलेन स(सु)कुतूहलिनि प्रवृत्ते ॥ ६ ॥ आविष्टवानकुशलं पुरुषं प्रकृत्या प्रत्याययन् निजजनान् नितरामनृत्यत् । उत्तुंगकेतुशिखरे स कृतांगहारो रंगांतरे नट इवाखिलविस्मयात्‍मा ॥ ७ ॥ आभाष्य सोऽत्र जनतां शपथानुविद्धं उच्चैरिदं वचनमुद्धृतदोर्बभाषे । उत्पत्स्यते जगति विश्वजनीनवृत्तिः विश्वज्ञ एव भगवानचिरादिहेति ॥ ८ ॥ सद्वीपवारिनिधिसप्तकभूतधात्र्या मध्येऽपि कर्मभुवि भारतनामखंडे । काले कलौ सुविमलान्वयलब्धजन्मा सन्मध्यगेहकुलवौलिमणिर्द्विजोऽभूत् ॥ ९ ॥ वेदाद्रिसद्रजतपीठपुरेश्वराभ्यां ग्रामो विभूषिततरः शिवरूप्यनामा । हेमाद्रिराजविभुराजदिलावृताभः तस्याभवद्गुरुगुणः खलु मूलभूमिः ॥ १० ॥ रामाधिवेशितहरिस्वसृवौलिमाला- राजद्विमानगिरिशोभितमध्युवास । क्षेत्रं स पाजकपदं त्रिकुलैककेतुः कं यद्दधाति सततं खलु विश्वपाजात् ॥ ११ ॥ अर्थं कमप्यनवमं पुरुषार्थहेतुं पुंसां प्रदातुमुचितामुचितस्वरूपाम् । कन्यां सुवर्णलसितामिव वेदविद्यां जग्राह विप्रवृषभप्रतिपादितां सः ॥ १२ ॥ रेमेऽच्छयोपनिषदेव महाविवेको भक्त्येव शुद्धकरणः परमश्रिताऽलम् । मिथ्याभिमानरहितः परयेव मुक्त्या स्वानंदसंततिकृता स तया द्विजेंद्रः ॥ १३ ॥ तस्य प्रभोश्चरणयोः कुलदेवताया भक्तिं बबंध निजधर्मरतः स धीरः । विज्ञातभारतपुराणमहारहस्यं यं भट्ट इत्यभिवदंति जना विनीतम् ॥ १४ ॥ गोविंदसुंदरकथासुधया स नृाणां आनंदयन्न किल केवलमिंद्रियाणि । किंतु प्रभो रजतपीठपुरे पदाब्जं श्रीवल्लभस्य भजतामपि दैवतानाम् ॥ १५ ॥ इत्थं हरेर्गुणकथासुधया सुतृप्तो नैर्गुण्यवादिषु जनेष्वपि साग्रहेषु । तत्त्वे स कालचलधीरतिसंशयालुः धीमान् धिया श्रवणशोधितया प्रदध्यौ ॥ १६ ॥ त्राता य एव नरकात् स हि पुत्रनामा मुख्यावनं न सुलभं पुरुषादपूर्णात् । तस्मात् समस्तविदपत्‍यमवद्यहीनं विद्याकराकृति लभेमहि कैरुपायैः ॥ १७ ॥ पूर्वेऽपि कर्दमपराशरपांडुमुख्या यत्सेवया गुणगणाढ्यमपत्यमापुः । तं पूर्णसद्गुणतनुं करुणामृताब्धिं नारायणं कुलपतिं शरणं व्रजेम ॥ १८ ॥ इत्थं विचिंत्य स विचिंत्यमनन्यबंधुः प्रेष्ठप्रदं रजतपीठपुराधिवासम् । भक्त्या भवाब्धिभयभंगदया शुभात्मा भेजे भुजंगशयनं द्विषडब्दकालम् ॥ १९ ॥ पत्न्या समं भगवतः स भजन् पदाब्जं भोगान् लघूनपि पुनर्लघयांचकार । दांतं स्वयं च हृदयं दमयांचकार स्वच्छं च देहमधिकं विमलीचकार ॥ २० ॥ तीव्रैः पयोव्रतमुखैर्विविधैर्व्रताग्रैः जायापती गुणगणार्णवपुत्रकामौ । संपूर्णपूरुषमतोषयतां नितांतं देवेरिताविव पुराऽदितिकश्यपौ तौ ॥ २१ ॥ नाथस्य भूरिकरुणासुधयाऽभिषिक्तौ श्रीश्रीधरप्रततिसारशरीरयष्टी । भूरिव्रतप्रभवदिव्यसुकांतिमंतौ तौ देहशुद्धिमतिमात्रमथालभेताम् ॥ २२ ॥ कांतादृतौ समुचितेऽथ बभार गर्भं सा भूसुरेंद्रदुहिता जगतां सुखाय । अच्छांबरेव रजनी परिपूरिताशा भाविन्यपास्ततमसं विधुमाद्यपक्षात् ॥ २३ ॥ तं पूर्वपक्षसितबिंबमिव प्रवृद्धं यावद् द्विजेंद्रवनिता सुषुवेऽत्र तावत् । अंशेन वायुरवतीर्य स रूप्यपीठे विष्णुं प्रणम्य भवनं प्रययौ तदीयम् ॥ २४ ॥ संपूर्णलक्षणचणं नवराजमान- द्वारांतरं परमसुंदरमंदिरं तत् । राजेव सत्पुरवरं भुवनाधिराजो निष्कासयन् परमसौ भगवान् विवेश ॥ २५ ॥ संतुष्यतां सकलसन्निकरैरसद्भिः खिद्येत वायुरयमाविरभूत् पृथिव्याम् । आख्यानितीव सुरदुंदुभिमंद्रनादः प्राश्रावि कौतुकवशैरिह मानवैश्च ॥ २६ ॥ नाथं निषेव्य भवनानतिदूरमाप्तः प्राज्ञो महप्रकृतदुंदुभिनादपूर्वात् । पुत्रोद्भवश्रवणतो महदाप्य सौख्यं ज्ञानं परोक्षपदमप्‍यमतेष्टहेतुम् ॥ २७ ॥ आविश्य वेश्म निजनंदनमिंदुवक्त्रं भूयोऽभिनंद्य स मुकुंददयां प्रवंद्य । जातस्य तस्य गुणजातवहस्य जात- कर्मादिकर्मनिवहं विदधे सुकर्मा ॥ २८ ॥ ज्ञानार्थमेव यदभूदसुदेव एष यद्वासुदेवपदभक्तिरतः सदाऽसौ । तद्वासुदेवपदमन्ववदन् सुरेंद्राः तातेन यन्निगदितं सुतनामकर्त्‍रा ॥ २९ ॥ पातुं पयांसि शिशवे किल गोप्रदोऽस्मै पूर्वालयः स्वसुतसूनुतया प्रजातः । निर्वाणहेतुमलभिष्ट परात्मविद्यां दानं ध्रुवं फलति पात्रगुणानुकूल्‍यात् ॥ ३० ॥ अत्रस्तमेव सततं परिुल्लचक्षुः कांत्या विडंबितनवेंदु जगत्यनर्घम् । तत् पुत्ररत्नमुपगृह्य कदाचिदाप्तः स्वस्वामिने बुध उपायनमार्पयत् सः ॥ ३१ ॥ नत्वा हरिं रजतपीठपुराधिवासं बालस्य संपदमनापदमर्थयित्‍वा । साकं सुतेन परिवारजनान्‍वितोऽसौ प्रायान्निशीथसमये निजमेव धाम ॥ ३२ ॥ दोषेयुषां सममनेन वनेऽतिभीमे तत्क्रीडितग्रह इहैकतमं तुतोद । उद्वांतरक्‍तमवलोक्य तमभ्यधायि केनाप्यहो न शिशुतुत् कथमेष इत्थम् ॥ ३३ ॥ आविश्य पूरुषमुवाच महाग्रहोऽसौ अस्मद्विहारसमयोपगतान् समस्तान् । यच्छक्तिगुप्तिरहितानलमस्मि हंतुं लोकेश्वरः स बत बालतमः किलेति ॥ ३४ ॥ स्तन्येन बालमनुतोष्य मुहुः स्वधाम्नो माता कदाचन ययौ विरहासहाऽपि । विश्वस्य विश्वपरिपालकपालनाय कन्यां निजामनुगुणां किल भीरुरेषा ॥ ३५ ॥ सा बालकं प्ररुदितं परिसांत्वयंती मुग्धाक्षरेण वचसाऽनुनिनाय मुग्धा । मा ताततात सुमुखेति पुनः प्ररोदीः माता तनोति रुचितं त्वरितं तवेति ॥ ३६ ॥ रोदे क्रियासमभिहारत एव वृत्तेः पोतस्य मातरि चिरादपि नाऽऽगतायाम् । जग्राह बालमथ चैक्षत मातृमार्गं साऽपि क्रियासमभिहारत एव बाला ॥ ३७ ॥ कर्तव्यमौढ्यमभिपद्य निरूप्य सा तं प्राभोजयत् खलु कुलित्थकुलं प्रपक्वम् । शीतं पयोऽपि सततं परिपाययंती यस्योष्णरोगमतिवेलमशंकतांबा ॥ ३८ ॥ नूनं पिपासुरतिरोदिति हंत बालो धिङ् मां दयाविरहितां परकृत्यसक्ताम् । इत्याकुला गृहमुपेत्य तदा प्रसन्नं पूर्णोदरं सुतमवैक्षत विप्रपत्नी ॥ ३९ ॥ पृष्ट्वाऽवगम्य सकलं च ततः प्रवृत्तं यूनां च दुःसहमिदं शिशुनोपभुक्‍तम् । इत्थं विचिंत्य तनयां बहु भर्त्सयंत्या भीतं तयोत कुपितं मनसाऽनुतप्‍तम् ॥ ४० ॥ आरोग्यशालिनि तदाऽपि पुरेव पुत्रे विस्मेरतामुपजगाम जनन्यमुष्य । यस्य त्रिलोकजननी जननी विषेऽपि पीते न विस्मयमवाप समस्तशक्तेः ॥ ४१ ॥ स्तन्यं मुहुः किल ददौ जननी गृहीत्वा क्षेमाय तं किल दधज्जनको जजाप । अन्यो जनोऽपि किल लालयति स्म किंतु सर्वोऽपि तन्मुखसुहासरसायनोत्कः ॥ ४२ ॥ देवादिसद्भिरनुपालितयाऽऽदरेण देव्यात्मनेव विलसत्पदया नितांतम् । अव्यक्तया प्रथमतो वदनेऽस्य वाण्या शालीनयेव भुवनार्चितया विजह्रे ॥ ४३ ॥ पाग्रिंखणं स्वयमथ स्थितमेष चक्रे पश्चाद्गतिं परिचयेन किल क्रमेण । विश्वस्य चेष्टितमहो यदनुग्रहेण सर्वं तदस्य पवनस्य विडंबनं हि ॥ ४४ ॥ पुच्छांतमच्छमवलंब्य कदाचिदेषः प्रातर्व्रजाद्‍व्रजत एव निजर्षभस्य । प्रायात् प्रियस्य सहसा स्वजनैरदृष्टो नानावनेषु चरतश्चरतस्तृणानि ॥ ४५ ॥ उत्तुंगशृंगलसितस्य महिष्ठमूर्तेः पादावृतावनितलस्य सुरंध्रकस्य । आश्रित्य तस्य शुशुभेऽवयवैकदेशं बालो दिवाकर इवोदयपर्वतस्य ॥ ४६ ॥ लीलां करोति नु गृहांतरगो नु बालः कूपांतरे नु पतितः प्रकृतिस्वतंत्रः । इत्थं विचिंत्य स मुहुः स्वजनो विमृग्य हंतानवेक्ष्य तनयं हृदि तापमाप ॥ ४७ ॥ बालस्य बालपरिलंबनगोचरं तत् व्यश्वस्यतापि वचनं वनगोचरोक्तम् । यत् सायमैक्षत जनः शिशुमाव्रजंतम् एकाब्दकं वृषभबालकृतावलंबम् ॥ ४८ ॥ चिंतामणींद्रमिव चिंतितदं दरिद्रो विज्ञानमार्गमिव विष्णुपरं मुमुक्षुः । नष्टं च नंदनमिति स्वजनोऽस्य लब्ध्वा नाथस्य तस्य तमनुग्रहमेव मेने ॥ ४९ ॥ लीलावसानसमये सहसा कदाचित् आर्योऽमुनाऽभ्यवहृतिं प्रति चोद्यमानः । रोद्धैष नोऽस्ति धनिको वृषविक्रयीति प्रोवाच नंदनमुखेंदुमवेक्ष्य मंदम् ॥ ५० ॥ लीलाकरेण स करेण सुकोमलेन बीजांतराणि किल कानिचिदाशु तस्मै । स्मित्वाऽर्भकोऽभिमतनिष्कपदे यदाऽदात् आदत्त तानि धनिको बहुमानपूर्वम् ॥ ५१ ॥ लब्धं सुतादिति वदन् द्विजपुंगवेन कालांतरे निजधने प्रतिदित्सितेऽपि । साक्षादमानवनवाकृतितः स लेभे बीजच्छलेन पुरुषार्थमहो विशिष्टम् ॥ ५२ ॥ वासुदेवमिह वासुदेवता- सत्कलामभिननंद तं जनः । वासुदेवमिति वासुदेवसन्- नामकं विविधलीलमर्भकम् ॥ ५३ ॥ इति विहरति मह्यां विष्णुदासेऽपि गूढे समजनि सुजनानां चित्तमानंदपूर्णम् । उदयति घनमालालीनभानौ च भानौ ननु जननयनाब्जैर्लभ्यतेऽलं विकासः ॥ ५४ ॥ ॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपंडिताचार्यसुत- श्रीनारायणपंडिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनंदांके द्वितीयः सर्गः ॥