अथ प्रथमः सर्गः कांताय कल्याणगुणैकधाम्ने नवद्युनाथप्रतिमप्रभाय । नारायणायाखिलकारणाय श्रीप्राणनाथाय नमस्करोमि ॥१॥ अनाकुलं गोकुलमुल्ललास यत्पालितं नित्यमनाविलात्म । तस्मै नमो नीरदनीलभासे कृष्णाय कृष्णारमणप्रियाय ॥२॥ अपि त्रिलोक्या बहिरुल्लसंती तमो हरंती मुहुरांतरं च । दिश्शाद्दशं नो विशदां जयंती मध्वस्य कीर्तिर्दिननाथदीप्तिम् ॥३॥ तमोनुदाऽऽनंदमवाप लोकः तत्त्वप्रदीपाकृतिगोगणेन । यदास्यशीतांशुभुवा गुरूंस्तान् त्रिविक्रमार्यान् प्रणमामि वर्यान् ॥४॥ मुकुंदभक्त्यै गुरुभक्तिजायै सतां प्रसत्त्यैच निरंतरायै । गरीयसीं विश्वगुरोर्विशुद्धां वक्ष्यामि वायोरवतारलीलाम् ॥५॥ तां मंत्रवर्णैरनुवर्णनीयां शर्वेंद्रपूर्वैरपि वक्तुकामे । संक्षिप्नुवाक्ये मयि मंदबुद्धौ संतो गुणाढ्याः करुणां क्रियासुः ॥६॥ उच्चावचा येन समस्तचेष्टाः किं तत्र चित्रं चरितं निवेद्यम् । किंतूत्तमश्लोकशिखामणीनां मनोविशुद्ध्यै चरितानुवादः ॥७॥ मालाकृतस्तच्चरिताख्यरत्नैः असूक्ष्मदृष्टेः सकुतूहलस्य । पूर्वापरीकारमथापरं वा क्षाम्यंतु मे हंत मुहुर्महांतः ॥८॥ श्रीवल्लभाज्ञां ससुरेंद्रयाञ्चां संभाव्य संभाव्यतमां त्रिलोक्याम् । प्राणेश्वरः प्राणिगणप्रणेता गुरुस्सतां केसरिणो गृहेऽभूत् ॥९॥ येये गुणा नाम जगत्प्रसिद्धाः यं तेषुतेषु स्म निदर्शयंति । साक्षान्महाभागवतप्रबर्हं श्रीमंतमेनं हनुमंतमाहुः ॥१०॥ कर्माणि कुर्वन् परमाद्भुतानि सभासु दैवीषु सभाजितानि । सुग्रीवमित्रं स जगत्पवित्रं रमापतिं रामतनुं ददर्श ॥११॥ पादारविंदप्रणतो हरींद्रः तदा महाभक्तिभराभिनुन्नः । अग्राहि पद्मोदरसुंदराभ्यां दोर्भ्यां पुराणेन स पूरुषेण ॥१२॥ अदार्यसालावलिदारणेन व्यापादितेंद्रप्रभवेन तेन । प्राद्योतनिप्रीतिकृता निकामं मधुद्विषा संदिदिशे स वीरः ॥१३॥ कर्णांतमानीय गुणग्रहीत्रा रामेण मुक्तो रणकोविदेन । स्फुरन्नसौ वैरिभयंकरोऽभूत् सत्पक्षपाती प्रदरो यथाऽग्र्यः ॥१४॥ गोभिः समानंदितरूपसीतः स्ववह्निनिर्दग्धपलाशिराशिः । अहो हनूमन्नववारिदोऽसौ तीर्णांबुधिर्विष्णुपदे ननाम ॥१५॥ अपक्षपाती पुरुषस्त्रिलोक्यां अभोगभोक्ता पतगाधिराजम् । विश्वंभरं बिभ्रदसौ जिगाय त्वरापराक्रांतिषु चित्रमेतत् ॥१६॥ निबध्य सेतुं रघुवंशकेतु- भ्रूभंगसंभ्रांतपयोधिमध्ये । मुष्टिप्रहारं दशकाय सीता- संतर्जनाग्र्योत्तरमेषकोऽदात् ॥१७॥ जाज्वल्यमानोज्ज्वलराघवाग्नौ चक्रे स सुग्रीवसुयायजूके । आध्वर्यवं युद्धमखे प्रतिप्र- स्थात्रा सुमित्रातनयेन साकम् ॥१८॥ रामार्चने यो नयतः प्रसूनं द्वाभ्यां कराभ्यामभवत्प्रयत्नः । एकेन दोष्णा नयतो गिरींद्रं संजीवनाद्याश्रयमस्य नाभूत् ॥१९॥ स दारितारिं परमं पुमांसं समन्वयासीन्नरदेवपुत्र्या । वह्निप्रवेशाधिगतात्मशुद्ध्या विराजितं कांचनमालयेव ॥२०॥ श्यामं स्मितास्यं पृथुदीर्घहस्तं सरोजनेत्रं गजराजयात्रम् । वपुर्जगन्मंगलमेष दृग्भ्यां चिरादयोध्याधिपतेः सिषेवे ॥२१॥ राज्याभिषेकेऽवसितेऽत्र सीता प्रेष्ठाय नस्तां भजतां दिशेति । रामस्य वाण्या मणिमंजुमाला- व्याजेन दीर्घां करुणां बबंध ॥२२॥ हृदोरुसौहार्दभृताऽधिमौलि- न्यस्तेन हस्तेन दयार्द्रदृष्ट्या । सेवाप्रसन्नोऽमृतकल्पवाचा दिदेश देवः सहभोगमस्मै ॥२३॥ प्रेष्ठो न रामस्य बभूव तस्मात् न रामराज्येऽसुलभं च किंचित् । तत्पादसेवारतिरेष नैच्छत् तथाऽपि भोगान् ननु सा विरक्तिः ॥२४॥ नमोनमो नाथ नमोनमस्ते नमोनमो राम नमोनमस्ते । पुनःपुनस्ते चरणारविंदं नमामि नाथेति नमन् स रेमे ॥२५॥ किं वर्णयामः परमं प्रसादं सीतापतेस्तत्र हरिप्रबर्हे । मुंचन्महीं नित्यनिषेवणार्थं स्वात्मानमेवैष ददौ यदस्मै ॥२६॥ स्वानंदहेतौ भजतां जनानां मग्नः सदा रामकथासुधायाम् । असाविदानीं च निषेवमाणो रामं पतिं किंपुरुषे किलाऽस्ते ॥२७॥ तस्यैव वायोरवतारमेनं संतो द्वितीयं प्रवदंति भीमम् । स्पृष्टैव यं प्रीतिमताऽनिलेन नरेंद्रकांता सुषुवेऽत्र कुंती ॥२८॥ इंद्रायुधं हींद्रकराभिनुन्नं चिच्छेद पक्षान् क्षितिधारिणां प्राक् । बिभेद भूभृद्वपुरंगसंगात् चित्रं स पन्नो जननीकराग्रात् ॥२९॥ पुरे कुमारानलसान् विहारान् निरीक्ष्य सर्वानपि मंदलीलः । कैशोरलीलां हतसिंहसंघां वने प्रवृत्तां स्मरति स्म सूत्कः ॥३०॥ भुक्तं च जीर्णं परिपंथिदत्तं विषं विषण्णो विषभृद्गणोऽतः । प्रमाणकोटेः स हि हेलयाऽगात् नेदं जगज्जीवनदेऽत्र चित्रम् ॥३१॥ दग्ध्वा पुरं योगबलात्स निर्यन् धर्मानिव स्वान् सहजान् दधानः । अदारिभावेन जगत्सु पूज्यो योगीव नारायणमाससाद ॥३२॥ समर्प्य कृत्यानि कृती कृतानि व्यासाय भूम्ने सुकृतानि तावत् । करिष्यमाणानि च तस्य पूजां संकल्पयामास स शुद्धबुद्धिः ॥३३॥ विष्णोः पदश्रिद्बकसन्निरासी क्षिप्तान्यपक्षिप्रकरः सुपक्षः । ससोदरोऽथादित राजहंसः स राजहंसीमिव राजकन्याम् ॥३४॥ इंदीवरश्रीजयिसुंदराभं स्मेराननेंदुं दयितं मुकुंदम् । स्वमातुलेयं कमलायताक्षं समभ्यनंदत् सुचिराय भीमः ॥३५॥ महागदं चंडरणं पृथिव्यां बार्हद्रथं मंक्षु निरस्य वीरः । राजानमत्युज्ज्वलराजसूयं चकार गोविंदसुरेंद्रजाभ्याम् ॥३६॥ दुःशासनेनाकुलितान् प्रियायाः सूक्ष्मानरालानसितांश्च केशान् । जिघांसया वैरिजनस्य तीक्ष्णः स कृष्णसर्पानिव संचिकाय ॥३७॥ जाज्वल्यमानस्य वनेवनेऽलं दिधक्षतः पार्थिवसार्थमुग्रम् । सत्त्वानि पुंसां भयदानि नाशं वृकोदराग्नेर्गुरुतेजसाऽऽपुः ॥३८॥ भोगाधिकाभोगवतोऽरुणाक्षान् इतस्ततः संचलतो धरेंद्रे । बहून् द्विजिह्वान्मणिमत्पुरोगान् असौ कटून् क्रोधवशान् जघान ॥३९॥ अथैष वेषांतरभस्मलीनः क्रमेण वायुप्रभवः सुतेजाः । रुद्धाखिलाशं मुखरं प्रचंडं भस्मीचकाराखिलकीचकौघम् ॥४०॥ स कृष्णवर्त्मा विजयेन युक्तो मुहुर्महाहेतिधरोऽप्रधृष्यः । भीष्मद्विजाद्यैरतिभीषणाभं विपक्षकक्षं क्षपयन् विरेजे ॥४१॥ तरस्विनः प्रोच्चलितानधीरान् निर्दग्धपक्षानतितीक्ष्णकोपान् । स धार्तराष्ट्रान् बहुहेतिलीलो विनाश्य विश्वान् परया श्रियाऽभात् ॥४२॥ कृष्णांघ्रिपंकेरुहभृंगराजः कृष्णामुखांभोरुहहंसराजः । प्रजासरोजावलिरश्मिराजः ससोदरोऽराजत वीरराजः ॥४३॥ पौत्रे पवित्राह्वयजामिपौत्रे धरां निधायासुरधीषु तापम् । कीर्तिं त्रिलोक्यां हृदये मुकुंदं भेजे पदं स्वं सहजैः स भीमः ॥४४॥ विष्णोः पदांतं भजताऽनिलेन घोरप्रघातैरिति नाशितास्ते । रसोज्झिताश्चंचलवृत्तयोऽलं शोभां न भेजुः सुरवैरिमेघाः ॥४५॥ एतत्प्रतीपं किल कर्तुकामा नष्टौजसः संकटमेवमाप्य । मुकुंदवैगुण्यकथां स्वयोग्यां काले कलावाकलयंत तेऽलम् ॥४६॥ यो भूरिवैरो मणिमान् मृतः प्राग्- वाग्मी बुभूषुः परितोषितेशः । स संकराख्योंऽघ्रितलेषु जज्ञे स्पृधाऽपरेऽप्यासुरिहासुरेंद्राः ॥४७॥ सान्नाय्यमव्यक्तहृदाखुभुग्वा श्वा वा पुरोडाशमसारकामः । मणिस्रजं वा प्लवगोऽव्यवस्थो जग्राह वेदादिकमेष पापः ॥४८॥ जनो नमेन्नापरथेति मत्वा शठश्चतुर्थाश्रममेष भेजे । पद्माकरं वा कलुषीचिकीर्षुः सुदुर्दमो दुष्टगजो विशुद्धम् ॥४९॥ अवैदिकं माध्यमिकं निरस्तं निरीक्ष्य तत्पक्षसुपक्षपाती । तमेव पक्षं प्रतिपादुकोऽसौ न्यरूरुपन्मार्गमिहानुरूपम् ॥५०॥ असत्पदेऽसन् सदसद्विविक्तं मायाख्यया संवृतिमभ्यधत्त । ब्रह्माप्यखंडं बत शून्यसिद्ध्यै प्रच्छन्नबौद्धोऽयमतः प्रसिद्धः ॥५१॥ यद्ब्रह्मसूत्रोत्करभास्करं च प्रकाशयंतं सकलं स्वगोभिः । अचूचुरद्वेदसमूहवाहं ततो महातस्करमेनमाहुः ॥५२॥ स्वसूत्रजातस्य विरुद्धभाषी तद्भाष्यकारोऽहमिति ब्रुवन् यः । तं तत्क्षणाद्यो न दिधक्षति स्म स व्यासरूपो भगवान् क्षमाब्धिः ॥५३॥ निगमसन्मणिदीपगणोऽभवत् तदुरुवाग्गणपंकनिगूढभाः । अविदुषामिति संकरताकरः स किल संकर इत्यभिशुश्रुवे ॥५४॥ विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् । आनंदाद्यैर्गुरुगुणगणैः पूरितो वासुदेवो मंदं मंदं मनसि च सतां हंत नूनं तिरोऽभूत् ॥५५॥ ॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपंडिताचार्यसुत- श्रीनारायणपंडिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनंदांके प्रथमः सर्गः ॥१॥