सरस्वति स्तोत्रम् अथ सरस्वति स्तोत्रम् बृहस्पतिरुवाच सरस्वतीं नमस्यामि चेतनानां हृदि स्थिताम् | कंठस्थां पद्मयोनॆस्तु हिमाकरप्रियां सदा || १|| मतिदां वरदां शुद्धां वीणाहस्तवरप्रदाम् | ऐं ऐं मंत्रप्रियां ह्निं ह्रां कुमतिध्वंसकारिणीम् || २|| सुप्रकाशां निरालंबां अज्ञानतिमिरापहाम् | शुक्लां मोक्षप्रदां रम्यां शुभांगीं शोभनप्रदाम् || ३|| पद्मसंस्थां कुंडलिनीं शुक्लवर्णां मनोरमाम् | आदित्यमंडले लीनां प्रणमामि हरिप्रियाम् || ४|| इति मा संस्तुतानेन वागीशेन महात्मना | आत्मानं दर्शयामास शरदिंदुसमप्रभाम् || ५|| सरस्वत्युवाच वरं वृणीश्व भद्रं ते यस्ते मनसि वर्तते | बृहस्पतिरुवाच वरदा यदि मे देवि सम्यक् ज्ञानं प्रयच्छ मे || ६|| सरस्वत्युवाच इदं ते निर्मलं ज्ञानं अज्ञानतिमिरापहम् | स्तोत्रेणानेन मां स्तौति सम्यग्वेदविदां वर || ७|| लभ्यते परमं ज्ञानं मम तुल्यपराक्रमम् | त्रिसंध्यं यः पठेन्नित्यं यस्त्विदं जपते सदा || तेषां कंठे सदा वासं करिष्यामि न संशयः || ८|| || इति पद्मपुराणे बृहस्पतिप्रोक्तं सरस्वतिस्तोत्रं ||