अथ सरस्वति स्तोत्रम्
बृहस्पतिरुवाच
सरस्वतीं नमस्यामि चेतनानां हृदि स्थिताम् |


कंठस्थां पद्मयोनॆस्तु हिमाकरप्रियां सदा || १||


मतिदां वरदां शुद्धां वीणाहस्तवरप्रदाम् |


ऐं ऐं मंत्रप्रियां ह्निं ह्रां कुमतिध्वंसकारिणीम् || २||


सुप्रकाशां निरालंबां अज्ञानतिमिरापहाम् |


शुक्लां मोक्षप्रदां रम्यां शुभांगीं शोभनप्रदाम् || ३||


पद्मसंस्थां कुंडलिनीं शुक्लवर्णां मनोरमाम् |


आदित्यमंडले लीनां प्रणमामि हरिप्रियाम् || ४||


इति मा संस्तुतानेन वागीशेन महात्मना |


आत्मानं दर्शयामास शरदिंदुसमप्रभाम् || ५||


सरस्वत्युवाच
वरं वृणीश्व भद्रं ते यस्ते मनसि वर्तते |


बृहस्पतिरुवाच
वरदा यदि मे देवि सम्यक् ज्ञानं प्रयच्छ मे || ६||


सरस्वत्युवाच
इदं ते निर्मलं ज्ञानं अज्ञानतिमिरापहम् |


स्तोत्रेणानेन मां स्तौति सम्यग्वेदविदां वर || ७||


लभ्यते परमं ज्ञानं मम तुल्यपराक्रमम् |


त्रिसंध्यं यः पठेन्नित्यं यस्त्विदं जपते सदा ||


तेषां कंठे सदा वासं करिष्यामि न संशयः || ८||


|| इति पद्मपुराणे बृहस्पतिप्रोक्तं सरस्वतिस्तोत्रं ||