संकस्टनाशन विष्णुस्तोत्रम् अथ संकस्टनाशन विष्णुस्तोत्रम् पुनर्दैत्यं समायातं दृष्ट्वा देवाः सवासवाः | भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ||1|| नमो मत्स्यकूर्मादिनानास्वरूपैः सदा भक्तकार्योद्यतायार्तिहंत्रे | विधात्रादिसर्गस्थितिध्वंसकर्त्रे गदापद्मशंखारिहस्ताय तेस्तु ||2|| रमावल्लभायासुराणां निहंत्रे भुजंगारियानाय पीतांबराय | मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ||2|| नमो दैत्यसंतापितामर्त्यदुःखा- चलध्वंसदंभोलये विष्णवे ते | भुजंगेशतल्पाय रम्यार्कचंद्र द्विनेत्राय तस्मै नताः स्मो नताः स्मः ||3|| संकष्टनाशनं नाम स्तोत्रमेतत् पठन्नरः कदाचित् संकटैर्नैव पीड्यते कृपया हरेः ||4|| || इति श्रीपद्मपुराणे संकष्टनाशनविष्णुस्तोत्रम् ||