अथ संकस्टनाशन विष्णुस्तोत्रम्
पुनर्दैत्यं समायातं दृष्ट्वा देवाः सवासवाः |
भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ||1||


नमो मत्स्यकूर्मादिनानास्वरूपैः
सदा भक्तकार्योद्यतायार्तिहंत्रे |
विधात्रादिसर्गस्थितिध्वंसकर्त्रे
गदापद्मशंखारिहस्ताय तेस्तु ||2||


रमावल्लभायासुराणां निहंत्रे
भुजंगारियानाय पीतांबराय |
मखादिक्रियापाककर्त्रे विकर्त्रे
शरण्याय तस्मै नताः स्मो नताः स्मः ||2||


नमो दैत्यसंतापितामर्त्यदुःखा-
चलध्वंसदंभोलये विष्णवे ते |
भुजंगेशतल्पाय रम्यार्कचंद्र
द्विनेत्राय तस्मै नताः स्मो नताः स्मः ||3||


संकष्टनाशनं नाम स्तोत्रमेतत् पठन्नरः
कदाचित् संकटैर्नैव पीड्यते कृपया हरेः ||4||


|| इति श्रीपद्मपुराणे संकष्टनाशनविष्णुस्तोत्रम् ||