ऋणमोचनस्तोत्रम् अथ ऋणमोचनस्तोत्रम् देवताकार्यसिद्ध्यर्थं सभास्तंभसमुद्भवम् | श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || १|| लक्ष्म्याऽलिंगितवामांगं भक्तानां वरदायकम् | श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || २|| आंत्रमालाधरं शंखचक्राब्जायुधधारिणम् | श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || ३|| स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम् | श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || ४|| सिंहनादेन महता दिग्दंतिभयनाशनम् | श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || ५|| प्रह्लादवरदं श्रीशं दैत्येश्वरविदारणम् | श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || ६|| क्रूरगृहैः पीडितानां भक्तानामभयप्रदम् | श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || ७|| वेदवेदांत यज्ञेशं ब्रह्मरुद्रादिवंदितम् | श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || ८|| य इदं पठते नित्यमृणमोचनसंज्ञितम् | अनृणो जायते सद्यो धनं शीघ्रमवाप्नुयात् || ९|| || इति श्रीवादिराजदृष्टं नृसिंहपुराणोक्तं ऋणमोचनस्तोत्रम् ||