अथ ऋणमोचनस्तोत्रम्
देवताकार्यसिद्ध्यर्थं सभास्तंभसमुद्भवम् |


श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || १||


लक्ष्म्याऽलिंगितवामांगं भक्तानां वरदायकम् |


श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || २||


आंत्रमालाधरं शंखचक्राब्जायुधधारिणम् |


श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || ३||


स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम् |


श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || ४||


सिंहनादेन महता दिग्दंतिभयनाशनम् |


श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || ५||


प्रह्लादवरदं श्रीशं दैत्येश्वरविदारणम् |


श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || ६||


क्रूरगृहैः पीडितानां भक्तानामभयप्रदम् |


श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || ७||


वेदवेदांत यज्ञेशं ब्रह्मरुद्रादिवंदितम् |


श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये || ८||


य इदं पठते नित्यमृणमोचनसंज्ञितम् |


अनृणो जायते सद्यो धनं शीघ्रमवाप्नुयात् || ९||


|| इति श्रीवादिराजदृष्टं नृसिंहपुराणोक्तं ऋणमोचनस्तोत्रम् ||