अथ रुद्रद्वादशनामस्तोत्रम्
प्रथमं तु महादेवं द्वितीयं तु महेश्वरम् |
तृतीयं शंकरं प्रोक्तं चतुर्थं वृषभध्वजम् ||१||


पंचमं कृत्तिवासं च षष्ठं कामांगनाशनम् |
सप्तमं देवदेवेशं श्रीकण्ठं चाष्टमं तथा ||२||


नवमं तु हरं देवं दशमं पार्वतीपतिम् |
रुद्रमेकादशं प्रोक्तं द्वादशं शिवमुच्यते ||३||


एतद्द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः |
गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः ||४||


स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः |
सर्वं नाशयते पापं शिवलोकं स गच्छति ||५||


शुद्धस्फटिकसंकाशं त्रिनेत्रं चन्द्रशेखरम् |
इऩ्दुमण्डलमध्य़स्थं वन्दे देवं सदाशिवम् ||६||


|| इति रुद्रद्वादशनामस्तोत्रम् ||