श्रीरमेशगीतिः अथ श्रीरमेशगीतिः जलचरतया ददौ वेदमादौ तरुणतरणिच्छविर्यो विधात्रे | शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||1|| अधृत सुमनोमनोवल्लभो यः कमठवपुषा महामंदराद्रिम् | शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||2|| जितदितिसुतो वराहो वरेण्यो धरणिमुदधादधीरां पुरा यः | शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||3|| दितिगजराजविध्वंससिंहं प्रखरनखराख्यवज्रं नृसिंहम् | शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||4|| अनुजममराधिराजस्य बालं सितबतिबलं त्रिविक्रांतिमंतम् | शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||5|| अवनिपवनानलं जामदग्न्यं गिरिशवरदायिनं रामदेवम् | शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||6|| दशमुखमुखद्विजाहारिमृत्युं दशरथसुतं पतिं भूमिजायाः | शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||7|| मथितपृथिवीभरं वासुदेवं मधुरमधिकप्रियं पांडवानाम् | शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||8|| असुरमनसां महामोहहेतुं विशदमनसां हितं बुद्धरूपम् | शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||9|| कलिकलिलकालवैकल्यमूलं कलितखलसंकटं कल्किदेवम् | शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||10|| अगणितगुणं गुणापेतमेकं विधिमुखविचिंतितं ब्रह्मसंज्ञम् शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||11|| दशशततनुं तथाप्येकरूपं दशशततनुं तथानंतरूपम् | शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||12|| लिकुचकविनंदनः सन्नुपांत्यो व्यदधदिति वै रमेशस्य गीतिम् शरणदमदोषमानंदपूर्णं शरणमनिषं रमेशं प्रपद्ये ||13|| || इति श्रीमत् शंकरपंडिताचार्यकृता श्रीरमेशगीतिः ||