अथ श्रीरमेशगीतिः
जलचरतया ददौ वेदमादौ
तरुणतरणिच्छविर्यो विधात्रे |
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||1||


अधृत सुमनोमनोवल्लभो यः
कमठवपुषा महामंदराद्रिम् |
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||2||


जितदितिसुतो वराहो वरेण्यो
धरणिमुदधादधीरां पुरा यः |
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||3||


दितिगजराजविध्वंससिंहं
प्रखरनखराख्यवज्रं नृसिंहम् |
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||4||


अनुजममराधिराजस्य बालं
सितबतिबलं त्रिविक्रांतिमंतम् |
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||5||


अवनिपवनानलं जामदग्न्यं
गिरिशवरदायिनं रामदेवम् |
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||6||


दशमुखमुखद्विजाहारिमृत्युं
दशरथसुतं पतिं भूमिजायाः |
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||7||


मथितपृथिवीभरं वासुदेवं
मधुरमधिकप्रियं पांडवानाम् |
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||8||


असुरमनसां महामोहहेतुं
विशदमनसां हितं बुद्धरूपम् |
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||9||


कलिकलिलकालवैकल्यमूलं
कलितखलसंकटं कल्किदेवम् |
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||10||


अगणितगुणं गुणापेतमेकं
विधिमुखविचिंतितं ब्रह्मसंज्ञम्
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||11||


दशशततनुं तथाप्येकरूपं
दशशततनुं तथानंतरूपम् |
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||12||


लिकुचकविनंदनः सन्नुपांत्यो
व्यदधदिति वै रमेशस्य गीतिम्
शरणदमदोषमानंदपूर्णं
शरणमनिषं रमेशं प्रपद्ये ||13||


|| इति श्रीमत् शंकरपंडिताचार्यकृता श्रीरमेशगीतिः ||