श्रीरामपंचकम् अथ श्रीरामपंचकम् प्रातः स्मरामि रघुनाथपदारविंदं मंदस्मितं मधुरभाषविशालघालम् | कर्णावलंबिचलकुंडललोलगंडं कर्णांतदीर्घनयनं नयनाभिरामम् || १|| प्रातर्भजामि रघुनाथकरारविंदं रक्षोगणाय भयदं वरदं द्विजेभ्यः | यद्राज्यसंसदि विभज्य महेशचापं सीताकरग्रहणमंडलमाप सद्यः || २|| प्रातर्नमामि रघुनाथपदारविंदं वज्रांकुशादिशुभरेखध्वजावहं मे | योगींद्रमानसमधुव्रतसेव्यमानं शापापहं सपदि गौतमधर्मपत्न्याः|| ३|| प्रातः श्रये श्रुतिनुतां रघुनाथकीर्तिं नीलांबुदोत्पलसितेतररत्ननीलाम् | आमुक्तवौक्तिकविभूषणभूषणाड्यां ध्येयां समस्तमुनिभिर्जनमृत्युहंत्रीम् || ४|| प्रातर्वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं शमलं निहंति | यत् पार्वति स्वपतिना सह भोक्तुकामा प्रीत्या सहस्रहरिनामसमं जजाप || ५|| यः श्लोकपंचकमिदं नियतं पठेत्तु प्रातः प्रभातसमये पुरुषः प्रबुद्धः | श्रीरामकिंकरजनेषु स एव मुख्यो भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् || ६|| वादिराजयति प्रोक्तं पंचकं जानकीपतेः | श्रवणात् सर्वपापघ्नं पठनात् मोक्षदायकम् || ७|| || इति श्रीवादिराजतीर्थ विरचितं श्रीरामपंचकम् ||