रीरामद्वादशनामस्तोत्रम् अथ श्रीरामद्वादशनामस्तोत्रम् प्रथमं श्रीकरं विद्यात् द्वितीयं दाशरथ्यकम् | तृतीयं रामचंद्रं च चतुर्थं रावणांतकम् || १|| पंचमं लोकपूज्यं च षष्ठकं जानकीप्रियम् | सप्तमं वासुदेवं च राघवेंद्रं तथाऽष्टमम् || २|| नवमं पुंडरीकाक्षं दशमं लक्ष्मणाग्रजम् | एकादशं च गोविंदं द्वादशं सेतुबंधनम् || ३|| एतद्द्वाशनामानि त्रिकाले यः पठेन्नरः | दारिद्य्रदोषनिर्मुक्तो धनधान्यसमृद्धिमान् || ४|| जनवश्यं राजवश्यं सर्वकार्यफलं लभेत् | अर्धरात्रे जपेन्नित्यं सर्वदुःखविनाशवान् || ५|| || इति श्री ब्रह्मांडपुराणे ब्रह्मनारदसंवादे श्रीरामद्वादशनामस्तोत्रम् ||