अथ श्रीरामद्वादशनामस्तोत्रम्
प्रथमं श्रीकरं विद्यात् द्वितीयं दाशरथ्यकम् |


तृतीयं रामचंद्रं च चतुर्थं रावणांतकम् || १||


पंचमं लोकपूज्यं च षष्ठकं जानकीप्रियम् |


सप्तमं वासुदेवं च राघवेंद्रं तथाऽष्टमम् || २||


नवमं पुंडरीकाक्षं दशमं लक्ष्मणाग्रजम् |


एकादशं च गोविंदं द्वादशं सेतुबंधनम् || ३||


एतद्द्वाशनामानि त्रिकाले यः पठेन्नरः |


दारिद्य्रदोषनिर्मुक्तो धनधान्यसमृद्धिमान् || ४||


जनवश्यं राजवश्यं सर्वकार्यफलं लभेत् |


अर्धरात्रे जपेन्नित्यं सर्वदुःखविनाशवान् || ५||


|| इति श्री ब्रह्मांडपुराणे ब्रह्मनारदसंवादे श्रीरामद्वादशनामस्तोत्रम् ||