श्रीरघुवर्यतीर्थस्तुतिः अथ श्रीरघुवर्यतीर्थस्तुतिः रघुनाथकराब्जोत्थं मूलरामपदार्चकम् | रघुवर्यमहं वंदे देवार्चाभाग्यसिद्धये ||1|| पॆन्गॊंडानामके ग्रामे हनूमत्स्थापकं मुनिम् | रघुवर्यमहं वंदे प्राणार्चाभाग्यसिद्धये ||2|| भीमानदी ददौ मार्गं यस्मै रामयुताय तम् | रघुवर्यमहं वंदे भवोत्तारणसिद्धये ||3|| रघूत्तमगुरोस्तारस्योपदेशविधायकम् | रघुवर्यमहं वंदे सन्मंत्रजपसिद्धये ||4|| सच्छास्त्रं पाठयंतं श्रीरघूत्तममुनिं प्रति | रघुवर्यमहं वंदे सच्छास्त्रज्ञानसिद्धये ||5|| मंत्राक्षतप्रदानेन सत्पुत्रप्रापकं गुरुम् | रघुवर्यमहं वंदे सत्पुत्रप्राप्तिसिद्धये ||6|| रघूत्तममुनेः स्वप्न उपदेशप्रदायकम् | रघुवर्यमहं वंदे ह्यश्रुतज्ञानसिद्धये ||7|| रघूत्तममुनिद्वारा मठवैभववर्धकम् | रघुवर्यमहं वंदे सद्वैभवसुसिद्धये ||8|| गजगह्वरगं तुंगभद्रातीरनिवासिनम् | रघुवर्यमहं वंदे नदीस्नानसुसिद्धये ||9|| पद्मनाभकवींद्रादिपूर्वे संस्थितमादरात् | रघुवर्यमहं वंदे गुर्वनुग्रहसिद्धये ||10|| सत्यात्मरचितं पद्यदशकं यः पठेत् सुधीः | तस्यैताः सिद्धयः सर्वा हस्तगा नात्र संशयः ||11|| || इति श्रीसत्यात्मतीर्थविरचिता श्रीरघुवर्यतीर्थस्तुतिः ||