अथ श्रीरघुवर्यतीर्थस्तुतिः
रघुनाथकराब्जोत्थं मूलरामपदार्चकम् |
रघुवर्यमहं वंदे देवार्चाभाग्यसिद्धये ||1||


पॆन्गॊंडानामके ग्रामे हनूमत्स्थापकं मुनिम् |
रघुवर्यमहं वंदे प्राणार्चाभाग्यसिद्धये ||2||


भीमानदी ददौ मार्गं यस्मै रामयुताय तम् |
रघुवर्यमहं वंदे भवोत्तारणसिद्धये ||3||


रघूत्तमगुरोस्तारस्योपदेशविधायकम् |
रघुवर्यमहं वंदे सन्मंत्रजपसिद्धये ||4||


सच्छास्त्रं पाठयंतं श्रीरघूत्तममुनिं प्रति |
रघुवर्यमहं वंदे सच्छास्त्रज्ञानसिद्धये ||5||


मंत्राक्षतप्रदानेन सत्पुत्रप्रापकं गुरुम् |
रघुवर्यमहं वंदे सत्पुत्रप्राप्तिसिद्धये ||6||


रघूत्तममुनेः स्वप्न उपदेशप्रदायकम् |
रघुवर्यमहं वंदे ह्यश्रुतज्ञानसिद्धये ||7||


रघूत्तममुनिद्वारा मठवैभववर्धकम् |
रघुवर्यमहं वंदे सद्वैभवसुसिद्धये ||8||


गजगह्वरगं तुंगभद्रातीरनिवासिनम् |
रघुवर्यमहं वंदे नदीस्नानसुसिद्धये ||9||


पद्मनाभकवींद्रादिपूर्वे संस्थितमादरात् |
रघुवर्यमहं वंदे गुर्वनुग्रहसिद्धये ||10||


सत्यात्मरचितं पद्यदशकं यः पठेत् सुधीः |
तस्यैताः सिद्धयः सर्वा हस्तगा नात्र संशयः ||11||


|| इति श्रीसत्यात्मतीर्थविरचिता श्रीरघुवर्यतीर्थस्तुतिः ||