श्रीरघूत्तमगुरुस्तोत्रम् ॥ अथ श्रीरघूत्तमगुरुस्तोत्रम् ॥ गंभीराशयगुंभसंभृतवच:संदर्भगर्भोल्लसत्- टीकाभावविबोधनाय जगतां यस्यावतारोऽजनि । तत्तादृक्षदुरंतसंतततप:संतानसंतोषित- श्रीकांतं सुगुणं रघूत्तमगुरुं वंदे परं देशिकम् ॥१॥ सच्छास्त्रामलभावबोधकिरणै: संवर्धयन् मध्वसत्- सिद्धांताब्धिमनंतशिष्यकुमुदव्रातं विकासं नयन् । उद्भूतो रघुवर्यतीर्थजलधेस्तापत्रयं त्रासयन् यस्तं नौमि रघूत्तमाख्यशशिनं श्रीविष्णुपादाश्रयम् ॥२॥ उद्यन्मार्तंडसंकाशं दंडमालाकमंडलून् । धरं कौपीनसूत्रं च सीताराघवमानसम् ॥३॥ श्रीनिवासेन वंद्यांघ्रिं तुलसीदामभूषणम् । ध्यायेद्रघूत्तमगुरुं सर्वसौख्यप्रदं नृणाम् ॥४॥ रघूत्तमगुरुं नौमि शांत्यादिगुणमंडितम् । रघूत्तमपदद्वंद्वकंजभृंगायितांतरम् ॥५॥ रघूत्तमगुरुं वंदे रघूत्तमपदार्चकम् । गांभीर्येणार्थबाहुल्यटीकातात्पर्यबोधकम् ॥६॥ भावबोधकृतं नौमि भावभावितभावुकम् । भावभाजं भावजादिपरीभावपरायणम् ॥७॥ संन्यायविवृतेष्टीकाशेषसंपूर्णकारिणम् । टीकां दृष्ट्वा पेटिकानां निचयं च चकार य: प्रमेयमणिमालानां स्थापनाय महामति: ॥८॥ यच्छिष्यशिष्यशिष्याद्याष्टिप्पण्याचार्यसंज्ञिता: । तमलं भावबोधार्यं भूयो भूयो नमाम्यहम् ॥९॥ शुकेन शांत्यादिषु वाङ्मयेषु व्यासेन धैर्येंऽबुधिनोपमेयम् । मनोजजित्यां मनसां हि पत्या रघूत्तमाख्यं स्वगुरुं नमामि ॥१०॥ राम राम तव पादपंकजं चिंतयामि भवबंधमुक्तये । वंदितं सुरनरेंद्रमौलिभिर्ध्यायते मनसि योगिभि: सदा ॥११॥ पिनाकिनीरसंजुष्टदेशे वासमनोरमम् । पिनाकिपूज्यश्रीमध्वशास्त्रवार्धिनिशाकरम् ॥१२॥ पंचकैर्भावबोधाख्यैर्ग्रंथै: पंच लसन्मुखै: । तत्त्वविज्ञापकै: स्वानामुपमेयं पिनाकिना ॥१३॥ गांभीर्ये सर्वदुर्वादिगिरिपक्षविदारणे । विषयेषु विरागित्वे चोपमेयं पिनाकिना ॥१४॥ धरणे भगवन्मूर्तेर्भरणे भक्तसंतते: । विना विना चोपमेयं मेयं तत्त्वप्रकाशने ॥१५॥ गुरुत्वेऽखिललोकानां प्रदानेऽभीष्टसंतते: । शिष्येभ्यस्तत्त्वविज्ञानप्रदाने परमं गुरुम् ॥१६॥ सदाररामपादाब्जसदारतिसुधाकरम् । सदाऽरिभेदने विष्णुगदारिसदृशं सदा ॥१७॥ रघुनाथांघ्रिसद्भक्तौ रघुनाथानुजायितम् । रघुनाथार्यपाण्युत्थरघुवर्यकरोदितम् ॥१८॥ वेदेशार्चितपादाब्जं वेदेशांघ्र्यब्जपूजकम् । रघूत्तमगुरुं वंदे रघूत्तमपदार्चकम् ॥१९॥ रघूत्तमगुरुस्तोत्रस्याष्टकं य: पठेन्नर: । रघूत्तमप्रसादाच्च स सर्वाभीष्टभाग्भवेत् ॥२०॥ यद्वृंदावनपूर्वत: फलवती धात्री जगत्पावनी याम्यायां तु पिनाकिनी चलदलो मूर्तित्रयाधिष्ठित: । वारुण्यां दिशि वामत: प्रतिकृतौ छायाकृता तिंत्रिणी तद्वृंदावनमध्यगो गुरुवरो भूयात् स न: श्रेयसे ॥२१॥ प्रणमत्कामधेनुं च भजत्सुरतरूपमम् । श्रीभावबोधकृत्पादचिंतामणिमुपास्महे ॥२२॥ ॥ इति श्रीरघूत्तमगुरुस्तोत्रम् ॥