॥ अथ श्रीरघूत्तमगुरुस्तोत्रम् ॥
गंभीराशयगुंभसंभृतवच:संदर्भगर्भोल्लसत्-
टीकाभावविबोधनाय जगतां यस्यावतारोऽजनि ।
तत्तादृक्षदुरंतसंतततप:संतानसंतोषित-
श्रीकांतं सुगुणं रघूत्तमगुरुं वंदे परं देशिकम् ॥१॥
सच्छास्त्रामलभावबोधकिरणै: संवर्धयन् मध्वसत्-
सिद्धांताब्धिमनंतशिष्यकुमुदव्रातं विकासं नयन् ।
उद्भूतो रघुवर्यतीर्थजलधेस्तापत्रयं त्रासयन्
यस्तं नौमि रघूत्तमाख्यशशिनं श्रीविष्णुपादाश्रयम् ॥२॥
उद्यन्मार्तंडसंकाशं दंडमालाकमंडलून् ।
धरं कौपीनसूत्रं च सीताराघवमानसम् ॥३॥
श्रीनिवासेन वंद्यांघ्रिं तुलसीदामभूषणम् ।
ध्यायेद्रघूत्तमगुरुं सर्वसौख्यप्रदं नृणाम् ॥४॥
रघूत्तमगुरुं नौमि शांत्यादिगुणमंडितम् ।
रघूत्तमपदद्वंद्वकंजभृंगायितांतरम् ॥५॥
रघूत्तमगुरुं वंदे रघूत्तमपदार्चकम् ।
गांभीर्येणार्थबाहुल्यटीकातात्पर्यबोधकम् ॥६॥
भावबोधकृतं नौमि भावभावितभावुकम् ।
भावभाजं भावजादिपरीभावपरायणम् ॥७॥
संन्यायविवृतेष्टीकाशेषसंपूर्णकारिणम् ।
टीकां दृष्ट्वा पेटिकानां निचयं च चकार य:
प्रमेयमणिमालानां स्थापनाय महामति: ॥८॥
यच्छिष्यशिष्यशिष्याद्याष्टिप्पण्याचार्यसंज्ञिता: ।
तमलं भावबोधार्यं भूयो भूयो नमाम्यहम् ॥९॥
शुकेन शांत्यादिषु वाङ्मयेषु व्यासेन धैर्येंऽबुधिनोपमेयम् ।
मनोजजित्यां मनसां हि पत्या रघूत्तमाख्यं स्वगुरुं नमामि ॥१०॥
राम राम तव पादपंकजं चिंतयामि भवबंधमुक्तये ।
वंदितं सुरनरेंद्रमौलिभिर्ध्यायते मनसि योगिभि: सदा ॥११॥
पिनाकिनीरसंजुष्टदेशे वासमनोरमम् ।
पिनाकिपूज्यश्रीमध्वशास्त्रवार्धिनिशाकरम् ॥१२॥
पंचकैर्भावबोधाख्यैर्ग्रंथै: पंच लसन्मुखै: ।
तत्त्वविज्ञापकै: स्वानामुपमेयं पिनाकिना ॥१३॥
गांभीर्ये सर्वदुर्वादिगिरिपक्षविदारणे ।
विषयेषु विरागित्वे चोपमेयं पिनाकिना ॥१४॥
धरणे भगवन्मूर्तेर्भरणे भक्तसंतते: ।
विना विना चोपमेयं मेयं तत्त्वप्रकाशने ॥१५॥
गुरुत्वेऽखिललोकानां प्रदानेऽभीष्टसंतते: ।
शिष्येभ्यस्तत्त्वविज्ञानप्रदाने परमं गुरुम् ॥१६॥
सदाररामपादाब्जसदारतिसुधाकरम् ।
सदाऽरिभेदने विष्णुगदारिसदृशं सदा ॥१७॥
रघुनाथांघ्रिसद्भक्तौ रघुनाथानुजायितम् ।
रघुनाथार्यपाण्युत्थरघुवर्यकरोदितम् ॥१८॥
वेदेशार्चितपादाब्जं वेदेशांघ्र्यब्जपूजकम् ।
रघूत्तमगुरुं वंदे रघूत्तमपदार्चकम् ॥१९॥
रघूत्तमगुरुस्तोत्रस्याष्टकं य: पठेन्नर: ।
रघूत्तमप्रसादाच्च स सर्वाभीष्टभाग्भवेत् ॥२०॥
यद्वृंदावनपूर्वत: फलवती धात्री जगत्पावनी
याम्यायां तु पिनाकिनी चलदलो मूर्तित्रयाधिष्ठित: ।
वारुण्यां दिशि वामत: प्रतिकृतौ छायाकृता तिंत्रिणी
तद्वृंदावनमध्यगो गुरुवरो भूयात् स न: श्रेयसे ॥२१॥
प्रणमत्कामधेनुं च भजत्सुरतरूपमम् ।
श्रीभावबोधकृत्पादचिंतामणिमुपास्महे ॥२२॥
॥ इति श्रीरघूत्तमगुरुस्तोत्रम् ॥