श्रीराघवेंद्रस्तोत्रम् ॥ अथ श्रीराघवेंद्रस्तोत्रम् ॥ श्रीपूर्णबोधगुरुतीर्थपयोब्धिपारा कामारिमाक्षविषमाक्षशिर:स्पृशंती । पूर्वोत्तरामिततरंगचरत्सुहंसा देवालिसेवितपरांघ्रिपयोजलग्ना ॥१॥ जीवेशभेदगुणपूर्तिजगत्सुसत्त्व- नीचोच्चभावमुखनक्रगणै: समेता । दुर्वाद्यजापतिगिलैर्गुरुराघवेंद्र- वाग्देवतासरिदमुं विमलीकरोतु ॥२॥ श्रीराघवेंद्र: सकलप्रदाता स्वपादकंजद्वयभक्तिमद्भ्य: । अघाद्रिसंभेदनदृष्टिवज्र: क्षमासुरेंद्रोऽवतु मां सदाऽयम् ॥३॥ श्रीराघवेंद्रो हरिपादकंज- निषेवणाल्लब्धसमस्तसंपत् । देवस्वभावो दिविजद्रुमोऽय- मिष्टप्रदो मे सततं स भूयात् ॥४॥ भव्यस्वरूपो भवदु:खतूल- संघाग्निचर्य: सुखधैर्यशाली । समस्तदुष्टग्रहनिग्रहेशो दुरत्ययोपप्लवसिंधुसेतु: ॥५॥ निरस्तदोषो निरवद्यवेष: प्रत्यर्थिमूकत्वनिदानभाष: । विद्वत्परिज्ञेयमहाविशेषो वाग्वैखरीनिर्जितभव्यशेष: ॥६॥ संतानसंपत्परिशुद्धभक्ति- विज्ञानवाग्देहसुपाटवादीन् । दत्वा शरीरोत्थसमस्तदोषान् हत्वा स नोऽव्याद्गुरुराघवेंद्र: ॥७॥ यत्पादोदकसंचय: सुरनदीमुख्यापगासादिता- संख्यानुत्तमपुण्यसंघविलसत्प्रख्यातपुण्यावह: । दुस्तापत्रयनाशनो भुवि महावंध्यासुपुत्रप्रदो व्यंगस्वंगसमृद्धिदो ग्रहमहापापापहस्तं श्रये ॥८॥ यत्पादकंजरजसा परिभूषितांगा यत्पादपद्ममधुपायितमानसा ये । यत्पादपद्मपरिकीर्तनजीर्णवाचः तद्दर्शनं दुरितकाननदावभूतम् ॥९॥ सर्वतंत्रस्वतंत्रोऽसौ श्रीमध्वमतवर्धन: । विजयींद्रकराब्जोत्थसुधींद्रवरपुत्रक: ॥१०॥ श्रीराघवेंद्रो यतिराट् गुरुर्मे स्याद् भयापह: । ज्ञानभक्तिसुपुत्रायुर्यश:श्रीपुण्यवर्धन: ॥११॥ प्रतिवादिजयस्वांतभेदचिह्नादरो गुरु: । सर्वविद्याप्रवीणोऽन्यो राघवेंद्रान्न विद्यते ॥१२॥ अपरोक्षीकृतश्रीश: समुपेक्षितभावज: । अपेक्षितप्रदाताऽन्यो राघवेंद्रान्न विद्यते ॥१३॥ दयादाक्षिण्यवैराग्यवाक्पाटवमुखांकित: । शापानुग्रहशक्तोऽन्यो राघवेंद्रान्न विद्यते ॥१४॥ अज्ञानविस्मृतिभ्रांतिसंशयापस्मृतिक्षया: । तंद्राकंपवच:कौंठ्यमुखा ये चेंद्रियोद्भवा: ॥१५॥ दोषास्ते नाशमायांति राघवेंद्रप्रसादत: । ‘‘श्रीराघवेंद्राय नम: ’’ इत्यष्टाक्षरमंत्रत: ॥१६॥ जपिताद्भावितान्नित्यमिष्टार्था: स्युर्न संशय: । हंतु न: कायजान् दोषानात्मात्मीयसमुद्भवान् ॥१७॥ सर्वानपि पुमर्थांश्च ददातु गुरुरात्मवित् । इति कालत्रये नित्यं प्रार्थनां य: करोति स: ॥१८॥ इहामुत्राप्तसर्वेष्टो मोदते नात्र संशय: । अगम्यमहिमा लोके राघवेंद्रो महायशा: ॥१९॥ श्रीमध्वमतदुग्धाब्धिचंद्रोऽवतु सदाऽनघ: । सर्वयात्राफलावाप्त्यै यथाशक्ति प्रदक्षिणम् ॥२०॥ करोमि तव सिद्धस्य वृंदावनगतं जलम् । शिरसा धारयाम्यद्य सर्वतीर्थफलाप्तये ॥२१॥ सर्वाभीष्टार्थसिध्द्यर्थं नमस्कारं करोम्यहम् । तव संकीर्तनं वेदशास्त्रार्थज्ञानसिद्धये ॥२२॥ संसारेऽक्षयसागरे प्रकृतितोऽगाधे सदा दुस्तरे सर्वावद्यजलग्रहैरनुपमै: कामादिभंगाकुले । नानाविभ्रमदुर्भ्रमेऽमितभयस्तोमादिफेनोत्कटे दु:खोत्कृष्टविषे समुद्धर गुरो मा मग्नरूपं सदा ॥२३॥ राघवेंद्रगुरुस्तोत्रं य: पठेद्भक्तिपूर्वकम् । तस्य कुष्ठादिरोगाणां निवृत्तिस्त्वरया भवेत् ॥२४॥ अंधोऽपि दिव्यदृष्टि: स्यादेडमूकोऽपि वाक्पति: । पूर्णायु: पूर्णसंपत्ति: स्तोत्रस्यास्य जपाद्भवेत् ॥२५॥ य: पिबेज्जलमेतेन स्तोत्रेणैवाभिमंत्रितम् । तस्य कुक्षिगता दोषा: सर्वे नश्यंति तत्क्षणात् ॥२६॥ यद्वृंदावनमासाद्य पंगु: खंजोऽपि वा जन: । स्तोत्रेणानेन य: कुर्यात् प्रदक्षिणनमस्कृती: ॥२७॥ स जंघालो भवेदेव गुरुराजप्रसादत: । सोमसूर्योपरागे च पुष्यार्कादिसमागमे ॥२८॥ योऽनुत्तममिदं स्तोत्रमष्टोत्तरशतं जपेत् । भूतप्रेतपिशाचादिपीडा तस्य न जायते ॥२९॥ एतत् स्तोत्रं समुच्चार्य गुरोर्वृंदावनांतिके । दीपसंयोजनात् ज्ञानं पुत्रलाभो भवेद् ध्रुवम् ॥३०॥ परवादिजयो दिव्यज्ञानभक्त्यादिवर्धनम् । सर्वाभीष्टप्रर्वृद्धि: स्यान्नात्र कार्या विचारणा ॥३१॥ राजचोरमहाव्याघ्रसर्पनक्रादिपीडनम् । न जायतेऽस्य स्तोत्रस्य प्रभावान्नात्र संशय: ॥३२॥ यो भक्त्या गुरुराघवेंद्रचरणद्वंद्वं स्मरन् य: पठेत् स्तोत्रं दिव्यमिदं सदा न हि भवेत् तस्यासुखं किंचन । किंत्विष्टार्थसमृद्धिरेव कमलानाथप्रसादोदयात् कीर्तिर्दिग्विदिता विभूतिरतुलासाक्षी हयास्योऽत्र हि ॥३३॥ इति श्रीराघवेंद्रार्यगुरुराजप्रसादत: । कृतं स्तोत्रमिदं पुण्यं श्रीमद्भिर्ह्यप्पणाभिधै: ॥३४॥ पूज्याय राघवेंद्राय सत्यधर्मरताय च । भजतां कल्पवृक्षाय नमतां कामधेनवे ॥३५॥ दुर्वादिध्वांतरवये वैष्णवेंदीवरेंदवे । श्रीराघवेंद्रगुरवे नमोऽत्यंतदयालवे ॥३६॥ ॥ इति श्रीमदप्पणाचार्यविरचितं श्रीराघवेंद्रस्तोत्रम् ॥