श्रीपुरुषोत्तम स्तोत्रम्‌ अथ श्रीपुरुषोत्तम स्तोत्रम्‌ यम उवाच नमस्ते भगवन्‌ देव लोकनाथ जगत्पते | क्षीरोदवासिनं देवं शेषभोगानुशायिनम्‌ || १|| वरं वरेण्यं वरदं कर्तारमकृतं प्रभुम्‌ | विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितं || २|| नीलोत्पलदलश्यामं पुंडरीकनिधे क्षणम्‌ | सर्वज्ञं निर्गुणं शांतं जगद्धातारमव्ययं || ३|| सर्वलोकविधातारं सर्वलोकसुखावहम्‌ | पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनं || ४|| परावराणां सृष्टारं लोकनाथं जगद्गुरुं | श्रीवत्सोरस्कसंयुक्तं वनमालादिभूषितं || ५|| पीतवस्त्रं चतुर्बाहुं शंखचक्रगदाधरम्‌ | हारकेयूरसंयुक्तं मुकुटांगदधारिणं || ६|| सर्वलक्षणसंपूर्णं सर्वेंद्रियविवर्जितं | कूटस्थमचलं सूक्ष्मं ज्योति रूपं सनातनं || ७|| भावाभाव विनिर्मुक्तं व्यापिनं प्रकृतेः परं | नमस्यामि जगन्नाथं ईश्वरं सुखदं प्रभुम्‌ || ८|| इत्येवं धर्मराजस्तु पुरा न्यग्रोध सन्निधौ | स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत्तदा || ९|| || इति श्री ब्रह्ममहापुराणे यमकृतं पुरुषोत्तम स्तोत्रम्‌ ||