अथ श्रीपुरुषोत्तम स्तोत्रम्‌
यम उवाच
नमस्ते भगवन्‌ देव
लोकनाथ जगत्पते |


क्षीरोदवासिनं देवं
शेषभोगानुशायिनम्‌ || १||


वरं वरेण्यं वरदं
कर्तारमकृतं प्रभुम्‌ |


विश्वेश्वरमजं विष्णुं
सर्वज्ञमपराजितं || २||


नीलोत्पलदलश्यामं
पुंडरीकनिधे क्षणम्‌ |


सर्वज्ञं निर्गुणं शांतं
जगद्धातारमव्ययं || ३||


सर्वलोकविधातारं
सर्वलोकसुखावहम्‌ |


पुराणं पुरुषं वेद्यं
व्यक्ताव्यक्तं सनातनं || ४||


परावराणां सृष्टारं
लोकनाथं जगद्गुरुं |


श्रीवत्सोरस्कसंयुक्तं
वनमालादिभूषितं || ५||


पीतवस्त्रं चतुर्बाहुं
शंखचक्रगदाधरम्‌ |


हारकेयूरसंयुक्तं
मुकुटांगदधारिणं || ६||


सर्वलक्षणसंपूर्णं
सर्वेंद्रियविवर्जितं |


कूटस्थमचलं सूक्ष्मं
ज्योति रूपं सनातनं || ७||


भावाभाव विनिर्मुक्तं
व्यापिनं प्रकृतेः परं |


नमस्यामि जगन्नाथं
ईश्वरं सुखदं प्रभुम्‌ || ८||


इत्येवं धर्मराजस्तु
पुरा न्यग्रोध सन्निधौ |


स्तुत्वा नानाविधैः स्तोत्रैः
प्रणाममकरोत्तदा || ९||


|| इति श्री ब्रह्ममहापुराणे यमकृतं पुरुषोत्तम स्तोत्रम्‌ ||