नवग्रहस्तोत्राणि अथ नवग्रहस्तोत्राणि सूर्यः- जपाकुसुमसंकाशं काश्यपेयं महाद्युतिं । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरं ॥ चंद्रः- दधिशंखतुषाराभं क्षीरोदार्णवसन्निभं । नमामि शशिनं देवं शंभोर्मुकुटभूषणं ॥ कुजः- धरणीगर्भसंभूतं विद्युत्कांतिसमप्रभं । कुमारं शक्तिसहितं मंगलं प्रणमाम्यहं ॥ बुधः- प्रियंगुकलिकाश्यामं रूपेणाप्रतिमं बुधं । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहं ॥ गुरुः- देवानां च ऋषीणां च गुरुं कांचनसन्निभं । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥ शुक्रः- हिमकुंदसमाभासं दैत्यानां परमं गुरुं । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहं ॥ शनिः- नीलांजनसमाभासं रविपुत्रं यमाग्रजं । छायामार्तांडसंभूतं तं नमामि शनैश्चरं ॥ राहुः- अर्धकायं महावीरं चंद्रादित्यविमर्दनं । सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहं ॥ केतुः- पलाशपुष्पसंकाशं तारकाग्रहमस्तकं । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं ॥ ॥ इति नवग्रहस्तोत्राणि ॥