अथ नवग्रहस्तोत्राणि
सूर्यः-
जपाकुसुमसंकाशं काश्यपेयं महाद्युतिं ।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरं ॥


चंद्रः-
दधिशंखतुषाराभं क्षीरोदार्णवसन्निभं ।
नमामि शशिनं देवं शंभोर्मुकुटभूषणं ॥


कुजः-
धरणीगर्भसंभूतं विद्युत्कांतिसमप्रभं ।
कुमारं शक्तिसहितं मंगलं प्रणमाम्यहं ॥


बुधः-
प्रियंगुकलिकाश्यामं रूपेणाप्रतिमं बुधं ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहं ॥


गुरुः-
देवानां च ऋषीणां च गुरुं कांचनसन्निभं ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥


शुक्रः-
हिमकुंदसमाभासं दैत्यानां परमं गुरुं ।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहं ॥


शनिः-
नीलांजनसमाभासं रविपुत्रं यमाग्रजं ।
छायामार्तांडसंभूतं तं नमामि शनैश्चरं ॥


राहुः-
अर्धकायं महावीरं चंद्रादित्यविमर्दनं ।
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहं ॥


केतुः-
पलाशपुष्पसंकाशं तारकाग्रहमस्तकं ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं ॥


॥ इति नवग्रहस्तोत्राणि ॥