अथ नवग्रहस्तोत्रम्
भास्वान्मे भासयेत्तत्त्वं चन्द्रश्चाह्लादकृद्भवेत् |


मंगलो मंगलं दद्याद्बुधश्च बुधतां दिशेत् ||१||


गुरुर्मे गुरुतां दद्यात् कविश्च कवितां दिशेत् |


शनिश्च शं प्रापयतु केतुः केतुं जयेऽर्पयेत् ||२||


राहुर्मे रहयेद्रोगं ग्रहाः सन्तु करग्रहाः |


नवं नवं ममैश्वर्यं दिशन्त्वेते नवग्रहाः ||३||


शने दिनमणेः सूनो ह्यनेकगुणसन्मणे |


अरिष्टं हर मेऽभीष्टं कुरु मा कुरु संकटम् ||४||


हरेरनुग्रहार्थाय शत्रूणां निग्रहाय च |


वादिराजयतिप्रोक्तं ग्रहस्तोत्रं सदा पठेत् ||५||


|| इति श्रीवादिराजयतिविरचितं नवग्रहस्तोत्रम् ||