नारायणवर्म ।। अथ नारायणवर्म ।। यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रैलोक्या बुभुजे श्रियम् ॥१॥ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाततायिनः शत्रून्येन गुप्तो जयन्मृधे ॥२॥ बादरायणिरुवाच- वृतः पुरोहितस्त्वाष्ट्रो महेंद्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः श्रुणु ॥३॥ विश्वरूप उवाच- धौतांघ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वांगकरन्यासो मंत्राभ्यां वाग्यतः शुचिः ॥४॥ नारायणमयं वर्म सन्नह्येद् भय आगते । दैवभूतात्मकर्मभ्यो नारायणमयः पुमान् ॥५॥ पादयोर्जानुनोरुर्वोरुदरे हृद्यथोरसि । मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ॥६॥ ॐ नमो नारायणायेति विपर्ययमथापि वा । करन्यासं ततः कुर्यात् द्वादशाक्षरविद्यया ॥७॥ प्रणवादियकारांतमंगुल्यंगुष्ठपर्वसु । न्यसेद् हृदय ओंकारं विकारमनु मूर्धनि ॥८॥ षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् । वेकारं नेत्रयोर्युंज्यान्नकारं सर्वसंधिषु ॥९॥ मकारमस्त्रमुद्दिश्य मंत्रमूर्तिर्भर्वेद्बुधः । सविसर्गं फडंतं तु सर्वदिक्षु विनिर्दिशेत् ॥१०॥ ॥ ॐ विष्णवे नमः इति ॥ आत्मानं परमं ध्यायेत् ध्येयं षट्शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिरिमं मंत्रमुदाहरेत् ॥११॥ ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्मः पतगेंद्रपृष्ठे । दरारिचर्मासिगदेषु चाप- पाशान् दधानोऽष्टगुणोऽष्टबाहुः ॥१२॥ जलेषु मां रक्षतु मत्स्यमूर्तिः यादोगणेभ्यो वरुणस्य पाशात् । स्थले च मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ॥१३।। दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः । विमुंचतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥१४॥ रक्षत्वसौ माऽध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद् भरताग्रजो माम् ॥१५।। मामुग्रधन्वा निखिलात् प्रमादात् नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबंधात् ॥१६।। सनत्कुमारोऽवतु कामदेवात् हयशीर्षो मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषांतरार्चनात् कूर्मो हरिर्मां निरयादशेषात् ॥१७॥ धन्वंतरिर्भगवान्पात्वपथ्यात् द्वंद्वाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादुत तत्कृतान्नो बलो गणात् क्रोधवशादहींद्रः ॥१८।। द्वैपायनो भगवान् सम्प्रमोहात् बुद्धस्तु पाखंडगणात्प्रमादात् । कल्की कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः ॥१९॥ मां केशवो गदया प्रातरव्यात् गोविंद आसंगव आत्तवेणुः । नारायणः पातु सदात्तशक्तिः मध्यंदिने विष्णुररींद्रपाणिः ॥२०॥ देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥२१॥ श्रीवत्सलक्ष्माऽपररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः । दामोदरोऽव्यादनुसंध्यं प्रभाते विष्णुः श्रीमान्भगवान्कालमूर्तिः ॥२२।। चक्रं युगांतानिलतिग्मनेमि- भ्रमत्समंताद्भगवत्प्रयुक्तम् । दंदग्धि दंदग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥२३॥ गदेऽशनिस्पर्शनविस्फुलिंगे निष्पिंढि निष्पिंढ्यजितप्रियासि । कूष्मांडवैनायकयक्षरक्षो- भूतग्रहांश्चूर्णय चूर्णयारीन् ॥२४॥ त्वं यातुधानप्रमथप्रेतमातृपि- शाचविप्रग्रहघोरदृष्टीन् । दरेंद्र विद्रावय कृष्णपूरितो भीमस्वनोऽरीन् हृदयानि कंपयन् ॥२५।। त्वं तिग्मधारासि वरारिसैन्यं ईशप्रयुक्तो मम छिंधि छिंधि । चक्षूंषि चर्मंछतचंद्र छादय द्विषामघं नो हर पापचक्षुषाम् ॥२६। यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽघेभ्य एव च ॥२७॥ सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् । प्रयांतु संक्षयं सद्यो येऽन्ये श्रेयःप्रतीपकाः ॥२८॥ गरुडो भगवांस्तोत्रस्तोमच्छंदोमयः प्रभुः । रक्षत्वशेषकृछ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥२९॥ सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः । बुद्धींद्रियमनः प्राणान् पांतु पार्षदभूषणाः ॥३०॥ यथा हि भगवानेव वस्तुतः सदसच्च यत् । सत्येन तेन नः सर्वे यांतु नाशमुपद्रवाः ॥३१॥ यथैकात्मानुभावेन विकल्परहितः स्वयम् । भूषणायुधिलिंगाख्या धत्ते शक्तीः स्वमायया ॥३२॥ तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥३३॥ विदिक्षु दिक्षूर्ध्वमधः समंतादंतर्बहिर्भगवान्नारसिंहः । प्रहापयन् लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥३४॥ विश्वरूप उवाच- मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यस्यंजसा येन दंशितोऽसुरयूथपान् ॥३५॥ एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥३६॥ न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥३७॥ इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः । योगधारणया स्वांगं जहौ स मरुधन्वनि ॥३८॥ तस्योपरि विमानेन गंधर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥३९॥ सांगनो न्यपतत् सद्यः सविमानो ह्यवाक्शिराः । विद्यामिमां धारयतो मृतस्यास्थिविलंघनात् ॥४०॥ स बालखिल्यवचनादस्थीन्यादाय विस्मितः । प्रास्य प्राची सरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥४१॥ य इदं शृणुयात् काले यो धारयति चादृतः । तं नमस्यंति भूतानि मुच्यते सर्वतो भयात् ॥४२॥ एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरात् ॥४३॥ ॥ इति श्रीमद्भागवते षष्ठस्कंधे अष्टमोऽध्यायः ॥