श्रीनृसिंहस्तुतिः अथ श्रीनृसिंहस्तुतिः उदयरविसहस्रद्योतितं रूक्षवीक्षं प्रलयजलधिनादं कल्पकृद्वह्निवक्त्रम् । सुरपतिरिपुवक्षश्छेदरक्तोक्षितांगं प्रणतभयहरं तं नारसिंहं नमामि ॥१॥ प्रलयरविकरालाकाररुक्चक्रवालं विरलयदुरुरोचीरोचिताशांतराल । प्रतिभयतमकोपात्युत्कटोच्चाट्टहासिन् दह दह नरसिंहासह्यवीर्याहितं मे॥२॥ सरसरभसपादापातभाराभिराव- प्रचकितचलसप्तद्वंद्वलोकस्तुतस्त्वम् । रिपुरुधिरनिषेकेणेव शोणांघ्रिशालिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥३॥ तव घनघनघोषो घोरमाघ्राय जंघा- परिघमलघुमूरुव्याजतेजोगिरिं च । घनविघटितमागाद्दैत्यजंघालसंघो दह दह नरसिंहासह्यवीर्याहितं मे ॥४॥ कटकिकटकराजद्धाटकाग्र्यस्थलाभा प्रकटपटतटित्ते सत्कटिस्थाऽतिपट्वी । कटुककटुकदुष्टाटोपदृष्टिप्रमुष्टौ दह दह नरसिंहासह्यवीर्याहितं मे ॥५॥ प्रखरनखरवज्रोत्खातरूक्षारिवक्षः शिखरिशिखररक्तैराक्तसंदोहदेह । सुविलभ शुभकुक्षे भद्रगंभीरनाभे दह दह नरसिंहासह्यवीर्याहितं मे ॥६॥ स्फुरयति तव साक्षात् सैव नक्षत्रमाला क्षपितदितिजवक्षोव्याप्तनक्षत्रमार्गम् । अरिदरधर जान्वासक्तहस्तद्वयाहो दह दह नरसिंहासह्यवीर्याहितं मे ॥७॥ कटुविकटसटौघोद्घट्टनाद्भ्रष्टभूयो घनपटलविशालाकाशलब्धावकाशम् । करपरिघविमर्दप्रोद्यमं ध्यायतस्ते दह दह नरसिंहासह्यवीर्याहितं मे ॥८॥ हठलुठदलघिष्ठोत्कंठ दष्टोष्ठ विद्युत्- सट शठकठिनोरः पीठभित्सुष्टु निष्ठाम् । पठति नु तव कंठाधिष्ठघोरांत्रमाला दह दह नरसिंहासह्यवीर्याहितं मे ॥९॥ हृतबहुमिहिराभासह्यसंहाररंहो- हुतवहबहुहेतिह्रेषिकानंतहेति । अहितविहितमोहं संवहन् सैंहमास्यं दह दह नरसिंहासह्यवीर्याहितं मे ॥१०॥ गुरुगुरुगिरिराजत्कंदरांतर्गते वा दिनमणिमणिशृंगे वांतवह्निप्रदीप्ते । दधदतिकटुदंष्ट्रे भीषणोज्जिह्ववक्त्रे दह दह नरसिंहासह्यवीर्याहितं मे ॥११॥ अधरितविबुधाब्धिध्यानधैर्यं विदीध्य- द्विविधविबुधधीश्रद्धापितेंद्रारिनाशम् । विदधदतिकटाहोद्घट्टनेद्धाट्टहासम् दह दह नरसिंहासह्यवीर्याहितं मे ॥१२॥ त्रिभुवनतृणमात्रत्राणतृष्णं तु नेत्र- त्रयमतिलघितार्चिर्विष्टपाविष्टपादम् । नवतररविताम्रं धारयन् रूक्षवीक्षं दह दह नरसिंहासह्यवीर्याहितं मे ॥१३॥ भ्रमदभिभवभूभृद्भूरि भूभारसद्भिद्- भिदनवविभवभ्रूविभ्रमादभ्रशुभ्र । ऋभुभवभयभेत्तर्भासि भो भो विभाभिः दह दह नरसिंहासह्यवीर्याहितं मे ॥१४॥ श्रवणखचितचंचत्कुंडलोल्लासिगंड- भ्रुकुटिकटुललाट श्रेष्ठनासारुणोष्ठ । वरद सुरद राजत्केसरोत्सारितारे दह दह नरसिंहासह्यवीर्याहितं मे ॥१५॥ प्रविकचकचराजद्रत्नकोटीरशालिन् गलगतगलदुस्रोदाररत्नांगदाड्य । कनककटककांचीसिंजिनीमुद्रिकावन् दह दह नरसिंहासह्यवीर्याहितं मे ॥१६॥ अरिदरमसिखेटौ चापबाणे गदां सन्- मुसलमपि कराभ्यामंकुशं पाशवर्यम् । करयुगलधृतांत्रस्रग्विभिन्नारिवक्षो दह दह नरसिंहासह्यवीर्याहितं मे ॥१७॥ चट चट चट दूरं मोहय भ्रामयारीन् कडि कडि कडि कायं ज्वारय स्फोटयस्व । जहि जहि जहि वेगं शात्रवं सानुबंधं दह दह नरसिंहासह्यवीर्याहितं मे ॥१८॥ विधिभवविबुधेशभ्रामकाग्निस्फुलिंग- प्रसविविकटदंष्ट्रोज्जिह्ववक्त्र त्रिनेत्र । कल कल कल कामं पाहि मां ते सुभक्तं दह दह नरसिंहासह्यवीर्याहितं मे ॥१९॥ कुरु कुरु करुणां तां सांकुरां दैत्यपोते दिश दिश विशदां मे शाश्वतीं देव दृष्टिम् । जय जय जयमूर्तेऽनार्त जेतव्यपक्षं दह दह नरसिंहासह्यवीर्याहितं मे ॥२०॥ स्तुतिरियमहितघ्नी सेविता नारसिंही तनुरिव परिशांता मालिनी साऽभितोऽलम् । तदखिलगुरुमाग्र्यश्रीदरूपा लसद्भिः सुनियमनयकृत्यैः सद्गुणैर्नित्ययुक्ता॥२१॥ उदयरविसहस्रद्योतितं रूक्षवीक्षं प्रलयजलधिनादं कल्पकृद्वह्निवक्त्रम् । सुरपतिरिपुवक्षश्छेदरक्तोक्षितांगं प्रणतभयहरं तं नारसिंहं नमामि ॥२२॥ लिकुचतिलकसूनुः सद्धितार्थानुसारी नरहरिनुतिमेतां शत्रुसंहारहेतुम् । अकृत सकलपापध्वंसिनीं यः पठेत्तां व्रजति नृहरिलोकं कामलोभाद्यसक्तः ॥२३॥ ॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपंडिताचार्यविरचित श्री नृसिंहस्तुतिः ॥