अथ श्रीनृसिंहस्तुतिः


उदयरविसहस्रद्योतितं रूक्षवीक्षं
प्रलयजलधिनादं कल्पकृद्वह्निवक्त्रम् ।
सुरपतिरिपुवक्षश्छेदरक्तोक्षितांगं
प्रणतभयहरं तं नारसिंहं नमामि ॥१॥


प्रलयरविकरालाकाररुक्चक्रवालं
विरलयदुरुरोचीरोचिताशांतराल ।
प्रतिभयतमकोपात्युत्कटोच्चाट्टहासिन्
दह दह नरसिंहासह्यवीर्याहितं मे॥२॥


सरसरभसपादापातभाराभिराव-
प्रचकितचलसप्तद्वंद्वलोकस्तुतस्त्वम् ।
रिपुरुधिरनिषेकेणेव शोणांघ्रिशालिन्
दह दह नरसिंहासह्यवीर्याहितं मे ॥३॥


तव घनघनघोषो घोरमाघ्राय जंघा-
परिघमलघुमूरुव्याजतेजोगिरिं च ।
घनविघटितमागाद्दैत्यजंघालसंघो
दह दह नरसिंहासह्यवीर्याहितं मे ॥४॥


कटकिकटकराजद्धाटकाग्र्यस्थलाभा
प्रकटपटतटित्ते सत्कटिस्थाऽतिपट्वी ।
कटुककटुकदुष्टाटोपदृष्टिप्रमुष्टौ
दह दह नरसिंहासह्यवीर्याहितं मे ॥५॥


प्रखरनखरवज्रोत्खातरूक्षारिवक्षः
शिखरिशिखररक्तैराक्तसंदोहदेह ।
सुविलभ शुभकुक्षे भद्रगंभीरनाभे
दह दह नरसिंहासह्यवीर्याहितं मे ॥६॥


स्फुरयति तव साक्षात् सैव नक्षत्रमाला
क्षपितदितिजवक्षोव्याप्तनक्षत्रमार्गम् ।
अरिदरधर जान्वासक्तहस्तद्वयाहो
दह दह नरसिंहासह्यवीर्याहितं मे ॥७॥


कटुविकटसटौघोद्घट्टनाद्भ्रष्टभूयो
घनपटलविशालाकाशलब्धावकाशम् ।
करपरिघविमर्दप्रोद्यमं ध्यायतस्ते
दह दह नरसिंहासह्यवीर्याहितं मे ॥८॥


हठलुठदलघिष्ठोत्कंठ दष्टोष्ठ विद्युत्-
सट शठकठिनोरः पीठभित्सुष्टु निष्ठाम् ।
पठति नु तव कंठाधिष्ठघोरांत्रमाला
दह दह नरसिंहासह्यवीर्याहितं मे ॥९॥


हृतबहुमिहिराभासह्यसंहाररंहो-
हुतवहबहुहेतिह्रेषिकानंतहेति ।
अहितविहितमोहं संवहन् सैंहमास्यं
दह दह नरसिंहासह्यवीर्याहितं मे ॥१०॥


गुरुगुरुगिरिराजत्कंदरांतर्गते वा
दिनमणिमणिशृंगे वांतवह्निप्रदीप्ते ।
दधदतिकटुदंष्ट्रे भीषणोज्जिह्ववक्त्रे
दह दह नरसिंहासह्यवीर्याहितं मे ॥११॥


अधरितविबुधाब्धिध्यानधैर्यं विदीध्य-
द्विविधविबुधधीश्रद्धापितेंद्रारिनाशम् ।
विदधदतिकटाहोद्घट्टनेद्धाट्टहासम्
दह दह नरसिंहासह्यवीर्याहितं मे ॥१२॥


त्रिभुवनतृणमात्रत्राणतृष्णं तु नेत्र-
त्रयमतिलघितार्चिर्विष्टपाविष्टपादम् ।
नवतररविताम्रं धारयन् रूक्षवीक्षं
दह दह नरसिंहासह्यवीर्याहितं मे ॥१३॥


भ्रमदभिभवभूभृद्भूरि भूभारसद्भिद्-
भिदनवविभवभ्रूविभ्रमादभ्रशुभ्र ।
ऋभुभवभयभेत्तर्भासि भो भो विभाभिः
दह दह नरसिंहासह्यवीर्याहितं मे ॥१४॥


श्रवणखचितचंचत्कुंडलोल्लासिगंड-
भ्रुकुटिकटुललाट श्रेष्ठनासारुणोष्ठ ।
वरद सुरद राजत्केसरोत्सारितारे
दह दह नरसिंहासह्यवीर्याहितं मे ॥१५॥


प्रविकचकचराजद्रत्नकोटीरशालिन्
गलगतगलदुस्रोदाररत्नांगदाड्य ।
कनककटककांचीसिंजिनीमुद्रिकावन्
दह दह नरसिंहासह्यवीर्याहितं मे ॥१६॥


अरिदरमसिखेटौ चापबाणे गदां सन्-
मुसलमपि कराभ्यामंकुशं पाशवर्यम् ।
करयुगलधृतांत्रस्रग्विभिन्नारिवक्षो
दह दह नरसिंहासह्यवीर्याहितं मे ॥१७॥


चट चट चट दूरं मोहय भ्रामयारीन्
कडि कडि कडि कायं ज्वारय स्फोटयस्व ।
जहि जहि जहि वेगं शात्रवं सानुबंधं
दह दह नरसिंहासह्यवीर्याहितं मे ॥१८॥


विधिभवविबुधेशभ्रामकाग्निस्फुलिंग-
प्रसविविकटदंष्ट्रोज्जिह्ववक्त्र त्रिनेत्र ।
कल कल कल कामं पाहि मां ते सुभक्तं
दह दह नरसिंहासह्यवीर्याहितं मे ॥१९॥


कुरु कुरु करुणां तां सांकुरां दैत्यपोते
दिश दिश विशदां मे शाश्वतीं देव दृष्टिम् ।
जय जय जयमूर्तेऽनार्त जेतव्यपक्षं
दह दह नरसिंहासह्यवीर्याहितं मे ॥२०॥


स्तुतिरियमहितघ्नी सेविता नारसिंही
तनुरिव परिशांता मालिनी साऽभितोऽलम् ।
तदखिलगुरुमाग्र्यश्रीदरूपा लसद्भिः
सुनियमनयकृत्यैः सद्गुणैर्नित्ययुक्ता॥२१॥


उदयरविसहस्रद्योतितं रूक्षवीक्षं
प्रलयजलधिनादं कल्पकृद्वह्निवक्त्रम् ।
सुरपतिरिपुवक्षश्छेदरक्तोक्षितांगं
प्रणतभयहरं तं नारसिंहं नमामि ॥२२॥


लिकुचतिलकसूनुः सद्धितार्थानुसारी
नरहरिनुतिमेतां शत्रुसंहारहेतुम् ।
अकृत सकलपापध्वंसिनीं यः पठेत्तां
व्रजति नृहरिलोकं कामलोभाद्यसक्तः ॥२३॥


॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपंडिताचार्यविरचित श्री नृसिंहस्तुतिः ॥