महालक्ष्म्यष्टकस्तोत्रम् अथ महालक्ष्म्यष्टकस्तोत्रम् नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते | शंखचक्रगदाहस्ते महालक्ष्मीनमोऽस्तु ते || १|| नमस्ते गरुडारूढे कोलासुरभयंकरि | सर्वपापहरे देवि महालक्ष्मीनमोऽस्तु ते || २|| सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि | सर्वदुःखहरे देवि महालक्ष्मीनमोऽस्तु ते || ३|| सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि | मंत्रमूर्ते महादेवि महालक्ष्मीनमोऽस्तु ते || ४|| आद्यंतरहिते देवि आद्यशक्ति महेश्वरि | योगजे योगसंभूते महालक्ष्मीनमोऽस्तु ते || ५|| स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे | महापापहरे देवि महालक्ष्मीनमोऽस्तु ते || ६|| पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि | परमेशि जगन्मातर्महालक्ष्मीनमोऽस्तु ते || ७|| श्वेतांबरधरे देवि नानालंकारभूषिते | जगत्स्थिते जगन्मातर्महालक्ष्मीनमोऽस्तु ते || ८|| महालक्ष्म्यष्टकस्तोत्रं यः पठेद्भक्तिमान् नरः | सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा || ९|| एककाले पठेन्नित्यं महापापविनाशनम् | द्विकाले यः पठेन्नित्यं धनधान्यसमन्वितः || १०|| त्रिकाले यः पठेन्नित्यं महाशत्रुविनाशनम् | महालक्ष्मीर्भवेन्नित्यं प्रसन्नावरदा शुभा || ११|| || इति इंद्रकृतं श्रीमहालक्ष्म्यष्टकस्तोत्रम् ||