अथ महालक्ष्म्यष्टकस्तोत्रम्
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते |


शंखचक्रगदाहस्ते महालक्ष्मीनमोऽस्तु ते || १||


नमस्ते गरुडारूढे कोलासुरभयंकरि |


सर्वपापहरे देवि महालक्ष्मीनमोऽस्तु ते || २||


सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि |


सर्वदुःखहरे देवि महालक्ष्मीनमोऽस्तु ते || ३||


सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि |


मंत्रमूर्ते महादेवि महालक्ष्मीनमोऽस्तु ते || ४||


आद्यंतरहिते देवि आद्यशक्ति महेश्वरि |


योगजे योगसंभूते महालक्ष्मीनमोऽस्तु ते || ५||


स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे |


महापापहरे देवि महालक्ष्मीनमोऽस्तु ते || ६||


पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि |


परमेशि जगन्मातर्महालक्ष्मीनमोऽस्तु ते || ७||


श्वेतांबरधरे देवि नानालंकारभूषिते |


जगत्स्थिते जगन्मातर्महालक्ष्मीनमोऽस्तु ते || ८||


महालक्ष्म्यष्टकस्तोत्रं यः पठेद्भक्तिमान् नरः |


सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा || ९||


एककाले पठेन्नित्यं महापापविनाशनम् |


द्विकाले यः पठेन्नित्यं धनधान्यसमन्वितः || १०||


त्रिकाले यः पठेन्नित्यं महाशत्रुविनाशनम् |


महालक्ष्मीर्भवेन्नित्यं प्रसन्नावरदा शुभा || ११||


|| इति इंद्रकृतं श्रीमहालक्ष्म्यष्टकस्तोत्रम् ||