लघुविष्णुसहस्रनामस्तवः अथ लघुविष्णुसहस्रनामस्तवः अलं नामसहस्रेण केशवोऽर्जुनमब्रवीत् | शृणु मे पार्थ नामानि यैश्च तुष्यामि सर्वदा || १|| केशवः पुंडरीकाक्षः स्वयंभूर्मधुसूदनः | दामोदरो हृषिकेशः पद्मनाभो जनार्धनः || २|| विष्वक्सेनो वासुदेवो हरिर्नारायणस्तथा | अनंतश्च प्रबोधश्च सत्यः कृष्णः सुरोत्तमः || ३|| आदिकर्ता वराहश्च वैकुंठो विष्णुरच्युतः | श्रीधरः श्रीपतिः श्रीमान् पक्षिराजध्वजस्तथा || ४|| एतानि मम नामानि विद्यार्थी ब्राह्मणः पठेत् | क्षत्रियो विजयस्यार्थे वैश्यो धनसमृद्धये || ५|| नाग्निराजभयं तस्य न चोरात् पन्नगाद्भयम् | राक्षसेभ्यो भयं नास्ति व्याधिभिर्नैव पीड्यते || ६|| इदं नामसहस्रं तु केशवेनोद्धृतं स्तवम् | उद्धृत्य चार्जुने दत्तं युद्धे शत्रुविनाशनम् || ७|| || इति श्रीविष्णुपुराणे लघुविष्णुसहस्रनामस्तवः ||