अथ लघुविष्णुसहस्रनामस्तवः
अलं नामसहस्रेण
केशवोऽर्जुनमब्रवीत् |


शृणु मे पार्थ नामानि
यैश्च तुष्यामि सर्वदा || १||


केशवः पुंडरीकाक्षः
स्वयंभूर्मधुसूदनः |


दामोदरो हृषिकेशः
पद्मनाभो जनार्धनः || २||


विष्वक्सेनो वासुदेवो
हरिर्नारायणस्तथा |


अनंतश्च प्रबोधश्च
सत्यः कृष्णः सुरोत्तमः || ३||


आदिकर्ता वराहश्च
वैकुंठो विष्णुरच्युतः |


श्रीधरः श्रीपतिः श्रीमान्
पक्षिराजध्वजस्तथा || ४||


एतानि मम नामानि
विद्यार्थी ब्राह्मणः पठेत् |


क्षत्रियो विजयस्यार्थे
वैश्यो धनसमृद्धये || ५||


नाग्निराजभयं तस्य
न चोरात् पन्नगाद्भयम् |


राक्षसेभ्यो भयं नास्ति
व्याधिभिर्नैव पीड्यते || ६||


इदं नामसहस्रं तु
केशवेनोद्धृतं स्तवम् |


उद्धृत्य चार्जुने दत्तं
युद्धे शत्रुविनाशनम् || ७||


|| इति श्रीविष्णुपुराणे लघुविष्णुसहस्रनामस्तवः ||