नवग्रहस्तोत्रम् अथ नवग्रहस्तोत्रम् भास्वान्मे भासयेत्तत्त्वं चन्द्रश्चाह्लादकृद्भवेत् | मंगलो मंगलं दद्याद्बुधश्च बुधतां दिशेत् ||१|| गुरुर्मे गुरुतां दद्यात् कविश्च कवितां दिशेत् | शनिश्च शं प्रापयतु केतुः केतुं जयेऽर्पयेत् ||२|| राहुर्मे रहयेद्रोगं ग्रहाः सन्तु करग्रहाः | नवं नवं ममैश्वर्यं दिशन्त्वेते नवग्रहाः ||३|| शने दिनमणेः सूनो ह्यनेकगुणसन्मणे | अरिष्टं हर मेऽभीष्टं कुरु मा कुरु संकटम् ||४|| हरेरनुग्रहार्थाय शत्रूणां निग्रहाय च | वादिराजयतिप्रोक्तं ग्रहस्तोत्रं सदा पठेत् ||५|| || इति श्रीवादिराजयतिविरचितं नवग्रहस्तोत्रम् ||